पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० वनस्पतिरवसृष्टः वनस्पतिर्यूपः अवसृष्टोन अभ्यनुज्ञात इव पाशैर्बद्धमध्वर्युणा पशुम् त्मन्या आत्मनि समञ्जन् सङ्गमयतु संबध्नातु । कथमिव । शमिता न देवः । यथा शमिता देवः अपापः पशुबद्धमात्मना संगमयेत् एवम् । किंच इन्द्रस्य जठरमुदरम् हव्यैः पृणानः पूरयन् । स्वदाति यज्ञं समनक्तु यागम् मधुना च रसेन घृतेन च ॥ ४५ ॥
म. वनस्पतिर्यूपो देवो मधुना रसेन घृतेन च यज्ञं स्वदाति स्वदतु लेट् । आस्वादयतु समनक्तु वा । कीदृशो वनस्पतिः । अवसृष्टो न आज्ञप्त इव पाशैः कृत्वा । त्मन्या आत्मनि समञ्जन् अर्थात् पशुं संयोजयन् । आत्मन्शब्दस्य तृतीयाया यादेशः । 'मन्त्रेष्वाड्यादेरात्मनः' (पा० ६ । ४ । १४१) इति आलोपः । तत्र दृष्टान्तः । शमिता न शमिता इव । यथा शमिता पाशैः पशुमात्मनि संयोजयति तथा हव्यैरिन्द्रस्य जठरमुदरं पृणानः पूरयन् पृणीतेऽसौ पृणानः ॥ ४५ ॥

षट्चत्वारिंशी।
स्तो॒काना॒मिन्दुं॒ प्रति॒ शूर॒ इन्द्रो॑ वृषा॒यमा॑णो वृष॒भस्तु॑रा॒षाट् ।
घृ॒त॒प्रुषा॒ मन॑सा॒ मोद॑माना॒: स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ।। ४६ ।।
उ० स्तोकानामिन्दुम् । वपास्तोकानां संबन्धिनमिन्दुम् । प्रति सोमंप्रति पशोः सोमसंस्तवस्तदभिप्रायमेतत् । गमनाय शूरः विक्रान्तः । इन्द्रो वृषायमाणः वृष इव आचरत् । वृषभः सर्वलोकत्रासकृत् । तुराषाट् तूर्णं सहते अभिभवतीति तुराषाट् । स इन्द्रः स्वाहाकृतिभिर्मादयताम् तृप्यतु इत्यनुषङ्गः । घृतप्रुषा च घृतावयवेन च । मनसा मोदमानाः हृष्यन्तः । स्वाहा अविभक्तिको निर्देशः । स्वाहाकृतिभिर्देवाः अमृताः अमरणधर्माणः मादयन्ताम् तृप्यन्तु ॥ ४६ ॥
म० इन्द्रः स्वाहा देवाः । नामैकदेशे नामग्रहणम् । स्वाहाकृतयो देवाश्च मादयन्तां तृप्यन्तु । 'मद तृप्तौ' चुरादिः। किमुद्दिश्य स्तोकानामिन्दुं प्रति स्तोका वपासंबन्धिनो घृतबिन्दवः तत्संबन्धी य इन्दुः सोमः तंप्रति तमुद्दिश्य वपास्तोकेषु सोमत्वमारोप्यते । वपास्तोकरूपं सोममुद्दिश्येन्द्रः स्वाहाकृतयश्च तृप्यन्तामित्यर्थः । कीदृश इन्द्रः । शूरः शौर्यवान् वृषायमाणः वृषवदाचरति वृषायते वृषायतेऽसौ वृषायमाणः । शत्रून्प्रति गर्जन्नित्यर्थः । वृषभः वर्षिता । तुराषाट् तूर्णं सहते शत्रूनभिभवतीति तुराषाट् । कीदृशाः स्वाहाकृतयः । घृतप्रुषा घृतबिन्दुनापि मनसा मोदमानाः मोदन्ते ते मोदमानाः संतुष्टाः। अमृताः अमरणधर्माणः । नास्ति मृतं मरणं येषां ते ॥ ४६ ॥

सप्तचत्वारिंशी।
आ या॒त्विन्द्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूर॑: ।
वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त् ।। ४७ ।।
उ० आयातु षट् त्रिष्टुभः । ऐन्द्रस्य पशोर्वपापुरोडाशपशूनां याज्यानुवाक्याः । आयातु आगच्छतु इन्द्रः । अवसे अवनाय तर्पणाय रक्षणाय वा । उप नः समीपेऽस्माकम् आगच्छतु । ततश्च इहास्माभिः स्तुतः सधमात् सहमदनः सहभोजनः अस्तु । शूरो विक्रान्तः । वावृधानः वर्धमानः स्वबलैः । तविषीर्यस्य पूर्वीः द्यौर्न । तविषीति बलनाम । तवतेर्वृद्धिकर्मणः । यस्येन्द्रस्य बलानि पूर्वाणि वृत्रवधादीनि बलानि द्यौरिवोच्चैः कथ्यन्ते । यश्चास्मदीयं क्षत्रम् । अभिभूति अभिभवितृ अभिभवनशीलमपि पुष्यात् पुष्णाति स आयात्विति संबन्धः ॥ ४७ ॥
म० 'याज्यानुवाक्याश्च' (का० १९ । ६।१३। ) वपापुरोडाशपशुयागानां याज्यानुवाक्याः आयात्विन्द्र (४७) इति वपायाः पुरोनुवाक्या, आ न इन्द्रो दूरात् (४८) इति याज्या, आ न इन्द्रो हरिभिः (४९) इति पशुपुरोडाशस्य पुरोऽनुवाक्या, त्रातारमिन्द्रं (५०) इति याज्या, इन्द्रः सुत्रामा (५१) इति पशुयागे पुरोऽनुवाक्या, तस्य वयम् (५२) इति याज्येति सूत्रार्थः । सप्त त्रिष्टुभ इन्द्रदेवत्याः । इन्द्रो नोऽस्मानवसे अवितुं रक्षितुमुप आयातु समीपमागच्छतु । तुमर्थेऽवतेरसेन्प्रत्ययः । इहायातः सन् । सधमात् अस्तु सह देवैः सार्धं मादयति तृप्यतीति सहमात् सहभोजनकर्तास्तु । मादयतेः क्विप् । कीदृश इन्द्रः । शूरः विक्रान्तः । स्तुतोऽस्माभिः । | वावृधानः वर्धमानः । यस्येन्द्रस्य पूर्वीः तविषीः पूर्वाः तविष्यः पूर्वाणि कृतानि बलानि वृत्रवधादयः पराक्रमाः द्यौर्न स्वर्ग इव कथ्यन्ते । स्वर्गो यथा स्तूयते तथा यस्येन्द्रस्य बलानि स्तूयन्ते । तविषीति बलनाम 'तवतेर्वृद्धिकर्मणः' (निरु० ९। २५) इति यास्कः । यश्चेन्द्रः क्षत्रमस्मदीयं पुष्यात् पुष्यति 'लेटोऽडाटौ' । कीदृशं क्षत्रम् । अभिभूति अभिभवनशीलं शूरम् । स इन्द्र आयात्विति संबन्धः ॥ ४७ ॥

अष्टचत्वारिंशी।
आ न॒ इन्द्रो॑ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः ।
ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः स॒ङ्गे स॒मत्सु॑ तु॒र्वणि॑: पृत॒न्यून् ।। ४८ ।।
उ० आ न इन्द्रः आउपसर्गो यासदित्यत्र संबध्यते । आयासत् आयातु नः अस्माकम् इन्द्रः दूरात् द्युलोकादेः । | आ न आसात् । आयासच्च अस्माकम् । आसादित्यन्तिकनाम । आगच्छतु चास्माकं समीपात् । यद्यपि दूरे यद्यप्यन्तिक इत्यर्थः । अभिष्टिकृत् अभिलषितपदार्थकारी । अवसे अवनाय अन्नाय वा । उग्रः अतिविषमः । एत्य च । ओजिष्ठेभिः ओजस्वितमैः बलैरुपेतः । नृपतिः वज्रबाहुः सङ्गे संग्रामे । समत्सु । एतदपि संग्रामनाम । एकस्मिन्संग्रामे बहुषु च युगपदुपस्थितेषु । तुर्वणिः तूर्णवनिः तूर्णसंभक्ता । पृतन्यून् संग्रामयतः शत्रून् ॥ ४८॥