पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रसारितमिव पेशसा विचित्ररूपेण सूत्रेण संवयन्ती संग्रथयन्त्यौ । देवानां देवमिन्द्रं यजतः संगतं कुरुतः । पुनर्घट्टयत इत्यर्थः । सुरुक्मे सुरोचने ॥ ४१॥
म० उषासानक्ता इन्द्रं यजतः सङ्गतं कुरुतः । इन्द्रेण सङ्गमं कुरुतः । यजिरत्र सङ्गतिकरणार्थः । उषा आदित्यप्रभा नक्ता रात्रिः उषाश्च नक्ता च उषासानक्ता । समासे उषःशब्दस्योषासादेशः । किंभूतमिन्द्रम् । बृहन्तं महान्तं शूरं विक्रान्तं देवानां देवं सर्वदेवपूज्यम् । कीदृश्यौ उषासानक्ता । बृहती बृहत्यौ पयस्वती उदकवत्यौ अवश्यायवत्यौ । सुदुघे शोभनं दुग्धः ते 'दुहः कब्घश्च' (पा० ३ । २ । ७०) इति कप् घादेशश्च । पेशसा विचित्ररूपेण संवयन्ती संग्रथयन्त्यौ इन्द्रं रूपेण योजयन्त्यौ । तत्र दृष्टान्तः । तन्तुमिव यथा पटार्थं ततं - विस्तीर्णं तन्तुं सूत्ररूपेण कश्चित् संवयति । तथा सुरुक्मौ शोभनं रुक्मं रोचनं कान्तिर्ययोस्ते सुरुक्मौ ॥ ४१॥

द्विचत्वारिंशी।
दैव्या॒ मिमा॑ना॒ मनु॑षः पुरु॒त्रा होता॑रा॒विन्द्रं॑ प्रथ॒मा सु॒वाचा॑ ।
मू॒र्धन् य॒ज्ञस्य॒ मधु॑ना॒ दधा॑ना प्रा॒चीनं॒ ज्योति॑र्ह॒विषा॑ वृधातः ।। ४२ ।।
उ० दैव्या मिमाना । व्यवहितपदप्रायो मन्त्रः । दैव्यौ होतारौ अयं चाग्निः असौ च वायुर्मध्यमः । दैव्यौ होतारौ मिमानौ निर्मिमाणौ यज्ञे । मनुष इति तद्धितलोपः । वीप्सायाश्च मनुष्यस्य यजमानस्य पुरुत्रा बहुप्रकारम् । प्रथमौ मानुषाद्धोतुः । सुवाचा साधुवाचौ । मूर्धनि प्रधानाङ्गे यज्ञस्य । इन्द्रं मधुना अन्नसहितं दधाना स्थापयन्तौ । प्राचीनम् आहवनीयाख्यं ज्योतिः हविषा वृधातः वर्धयतः॥४२॥
म० अयं चाग्निरसौ च वायुर्मध्यमस्तौ देवानामिमौ दैव्यौ होतारौ वाय्वग्नी प्राचीनं प्राच्यां दिशि वर्तमानं ज्योतिराहवनीयाख्यं मधुना मधुरेण हविषा कृत्वा वृधातः वर्धयतः । वृधेः 'लेटोऽडाटौ' (पा० ३ । ४ । ९४) इत्याट् । कीदृशौ । होतारौ पुरुत्रा बहुधा मिमाना मिमानौ यज्ञं निर्मिमाणौ । मनुषः मानुषाद्धोतुः प्रथमा आद्यौ । मनुषः इति प्रथमा पञ्चम्यर्थे । सुवाचा सुवाचौ शोभना वाक् ययोस्तौ । यज्ञस्य मूर्धन् मूर्धनि प्रधानेऽङ्गे इन्द्रं दधाना स्थापयन्तौ । सर्वत्र प्रथमाद्विवचनस्याकारः ॥ ४२ ॥

त्रिचत्वारिंशी।
ति॒स्रो दे॒वीर्ह॒विषा॒ वर्ध॑माना॒ इन्द्रं॑ जुषा॒णा जन॑यो॒ न पत्नी॑: ।
अच्छि॑न्नं॒ तन्तुं॒ पय॑सा॒ सर॑स्व॒तीडा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः ।। ४३ ।।
उ० तिस्रो देवीः । यास्तिस्रो देव्यो हविषा आज्येन वर्धमानाः इन्द्रं जुषाणाः सेवमानाः। जनयो न पत्नीः जाया । इव पत्न्यः आसते । ता अच्छिन्नं तन्तुम् अविस्रस्तयज्ञम् पयसा हविषा कुर्वन्तु । कतमास्तास्तिस्रो देव्य इत्यत आह । सरस्वती च इडा च । देवी दानादिगुणयुक्ता । भारती आदित्यप्रभा । विश्वतूर्तिः सर्वतः तूर्णं यायिनी । आख्यातमन्त्रे नास्त्यतोऽध्याहृतम् ॥ ४३ ॥ |
म० सरस्वती इडा भारती तिस्रो देव्यः पयसा हविषा कृत्वा तन्तुं यज्ञमच्छिन्नं छेदेन विघ्नेन रहितं कुर्वन्विति शेषः। | वर्धमानाः पुष्टियुक्ताः । पत्नीः पत्न्यः साध्व्यो जनयो न जाया इव इन्द्रं जुषाणाः सेवमानाः । देवीः दीप्यमानाः विश्वस्मिन् सर्वत्र त्वरते तूर्णं गच्छति विश्वतूर्तिः सर्वगामिनीति द्वे विशेषणे तिसृणाम् ॥ ४३ ॥

चतुश्चत्वारिंशी।
त्वष्टा॒ दध॒च्छुष्म॒मिन्द्रा॑य॒ वृष्णेऽपा॒कोऽचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑ ।
वृषा॒ यज॒न्वृष॑णं॒ भूरि॑रेता मू॒र्धन् य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ।। ४४ ।।
उ० त्वष्टा दधत् त्वष्टा तक्षतेः करोत्यर्थस्य । यस्त्वष्टा दधत् धारयत् शुष्मं बलम् इन्द्राय इन्द्रार्थम् । वृष्णे सेक्त्रे । कथंभूतस्त्वष्टा । अपाकः । पाक इति प्रशस्यनाम । न विद्यते यस्मात्त्वष्टुरन्यः पाकः प्रशस्यः स अपाकः । 'नञोऽस्त्यर्थानां बहुव्रीहिर्वाच्यो वाचोत्तरपदलोपश्च' इति समासः। अचिष्टुः अचितस्त्यानशरीरः अञ्चनशीलो वा । यशसे च इन्द्राय । पुरूणि बहूनि भैषज्यानि अकरोदिति शेषः । वृषा सेक्ता यष्टा यजन् वृषणं सेक्तारमिन्द्रम् भूरिरेताः सर्वजनकः त्वष्टा । स मूर्धनि यज्ञस्य आहवनीये सम् अनक्तु भक्षयतु हविःसहितेनाज्येन देवान् । अनक्तिर्भोजनार्थः । आहवनीयात्मनावस्थितान् भोजयतु देवानित्यर्थः ॥ ४४ ॥
म० त्वष्टा यज्ञस्य मूर्धन् मूर्धनि शिरःस्थानीये आहवनीये देवान् समनक्तु भोजयतु । अन्तर्भूतण्यर्थोऽनक्तिरत्र भोजनार्थः । कीदृशस्त्वष्टा । यशसे यशस्विने वृष्णे सेक्त्रे इन्द्राय पुरूणि । वचनव्यत्ययः । पुरु बहु शुष्मं बलं दधत् धारयन् । तथा अपाकः इति प्रशस्यनाम । न विद्यते पाकः प्रशस्यो यस्मात्सोऽपाकः । 'नञोऽस्त्यर्थानां बहुव्रीहिर्वाच्यो वाचोत्तरपदलोपश्च' इति समासः । अचिष्टुः अञ्चनशीलः सर्वत्र गतः । वृषा वर्षिता वृषणमिन्द्रं यजन् पूजयन् । भूरिरेताः भूरि बहु रेतो वीर्यं यस्य सः। सर्वजनक इत्यर्थः । 'त्वष्टा त्वक्षतेः करोत्यर्थस्य' (निरु० ८ । १३) इति यास्कोक्तेः । ईदृशस्त्वष्टा देवान्भोजयत्वित्यर्थः ॥ ४४ ॥

पञ्चचत्वारिंशी।
वन॒स्पति॒रव॑सृष्टो॒ न पाशै॒स्त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः ।
इन्द्र॑स्य ह॒व्यैर्ज॒ठरं॑ पृणा॒नः स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॑ ।। ४५ ।।