पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

न्धिनीभिर्वपावान् वपायुक्तः मधुना मधुस्वादोपेतेन घृतेन समञ्जन् हवींषि भक्षयन् हिरण्यैः पश्ववदानभूतैः । चन्द्री चन्द्रं सुवर्णमस्यास्तीति चन्द्री ॥ ३७॥

अष्टत्रिंशी।
ई॒डि॒तो दे॒वैर्हरि॑वाँ२ अभि॒ष्टिरा॒जुह्वा॑नो ह॒विषा॒ शर्ध॑मानः ।
पु॒र॒न्द॒रो गो॑त्र॒भिद्वज्र॑बाहु॒रा या॑तु य॒ज्ञमुप॑ नो जुषा॒णः ।। ३८ ।।
उ० ईडितो देवैः। ईडितः पूजितो देवैः । हरिवान् हरी इन्द्रस्याश्वौ तदभिप्रायो मन्त्रः वर्णाभिप्रायो वा । अभिष्टिः अभिगमनवान् अभ्येषणवान्वा । आजुह्वानः आहूयमानः हविषा निमित्तभूतेन । शर्धमानः अतिबलायमानः । शर्ध इति बलनाम । पुरन्दर इति पुरां दारयिता । गोत्रभित् मेघान्भिनत्ति वृष्टयर्थम् । वज्रबाहुः यः स आयातु यज्ञमुप नो जुषाणः । यज्ञं नः संबन्धिनमुपसेवमानः ॥ ३८॥ .
म० एवंविध इन्द्र आयातु आगच्छतु । कीदृशः । देवैरीडितः पूजितः स्तुतः । हरिवान् हरी इन्द्राश्वौ अस्य स्त इति हरिवान् । अभिष्टिः अभि समन्तादिष्टिर्यागो यस्य । इलोपश्छान्दसः । यद्वा अभिस्तूयत इत्यभिष्टिः । स्तोतेरौणादिको डिप्रत्ययः । आजुह्वानः आहूयमान ऋत्विग्भिः हविषा निमित्तेन हविर् निमित्तं द्विजैराहूयमानः । शर्धमानः शर्ध इति बलनाम । अतिबलायमानः । पुरं रिपुनगरं दारयति पुरन्दरः । गोत्रभित् गां भूमिं वृष्ट्या त्रायन्ते गोत्रा मेघाः तान् वृष्ट्यर्थं भिनत्ति गोत्रभित्, गोत्रान् गिरीन् वा भिनत्ति । वज्रबाहुः वज्रधरः। नोऽस्माकं यज्ञमुपजुषाणः उपसेवमानः ॥ ३८ ॥

एकोनचत्वारिंशी।
जु॒षा॒णो ब॒र्हिर्हरि॑वान् न॒ इन्द्र॑: प्रा॒चीन॑ᳪ सीदत् प्र॒दिशा॑ पृथि॒व्याः ।
उ॒रु॒प्रथा॒: प्रथ॑मानᳪ स्यो॒नमा॑दि॒त्यैर॒क्तं वसु॑भिः स॒जोषा॑: ।। ३९ ।।
उ० जुषाणो बर्हिः । जुषाणः सेवमानः बर्हिः । हरिवान् हरी अश्वौ ताभ्यां संयुक्तः नः अस्माकम् इन्द्रः प्राचीनं प्रागञ्चनम् सीदत् सीदतु आस्ताम् प्रदिशा उपदिशन् । पृथिव्याः देवयजनत्वेन । उरुप्रथाः उरु विस्तीर्णं प्रथनमस्येत्युरुप्रथाः । इन्द्रविशेषणमेतत् । बर्हिर्विशेषणान्युत्तराणि । प्रथमानं स्योनं सुखरूपम् । आदित्यैः अक्तं वसुभिश्च । बर्हिषाञ्जनमन्त्रे आदित्या वसवश्च सन्ति तदभिप्रायमेतत् । 'संबर्हिरङ्क्तां हविषा घृतेन समादित्यैर्वसुभिरित्ययं मन्त्रः । सजोषाः सह प्रीयमाणः । इन्द्रविशेषणमेतत् ॥ ३९ ॥
म० इन्द्रो नोऽस्माकं प्राचीनं प्राग्भवं प्रदेशं सीदत् सीदतु आस्ताम् । 'इतश्च लोपः-' (पा० ३ । ४ । ९७ ) इति इलोपः । कीदृश इन्द्रः । हरिवान् हरी अश्वौ तद्युक्तः । पृथिव्याः प्रदिशा । द्वितीयार्थे षष्ठी । पृथिवीं देवयजनभूमिं प्रदिशन् उपदिशन् प्रदिशतीति प्रदिशन् ‘सुपां सुलुक्-' (पा. ७।१।३९) इत्यादिना विभक्तेर्डादेशः । उरुप्रथाः । प्रथनं प्रथः ख्यातिः उरु विस्तीर्णं प्रथो यस्य स उरुप्रथाः। सजोषाः जोषणं जोषः असुन्प्रत्ययः । जोषसा प्रीत्या सहितः सजोषाः संतुष्टः । बर्हिर्जुषाणः सेवमानः । शानचि शपो लुक् । कीदृशं बर्हिः । प्रथमानं प्रथते तत् प्रथमानं विस्तीर्णम् स्योनं सुखरूपम् । आदित्यैः वसुभिः मरुद्भिश्च अक्तं म्रक्षितम् बर्हिरञ्जने मन्त्रे आदित्यादीनामुक्तत्वात्तैरक्तम् । 'सं बर्हिरङ्क्ताᳪ हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः' इत्युक्तेः ॥ ३९ ॥

चत्वारिंशी।
इन्द्रं॒ दुर॑: कव॒ष्यो धाव॑माना॒ वृषा॑णं यन्तु॒ जन॑यः सु॒पत्नी॑: ।
द्वारो॑ दे॒वीर॒भितो॒ वि श्र॑यन्ताᳪ सु॒वीरा॑ वी॒रं प्रथ॑माना॒ महो॑भिः ।। ४० ।।
उ० इन्द्रं दुरः । संप्रसारणं छान्दसम् । यज्ञगृहद्वारः कवष्यः । 'कुष निष्कर्षे' कुषिताः ससुषिराः । धावमानाः आदरवत्यः । वृषाणं वर्षितारम् यन्तु । जनयः सुपत्नीः । लुप्तोपमानमेतत् । जाया इव शोभनपत्न्यः। अथेन्द्रसंगतिं प्राप्य यज्ञगृहद्वारः देवीः। अभितः इतश्वेतश्च । विश्रयन्तां विव्रियन्ताम् । सुवीरा ऋत्विग्भिः वीरमिन्द्रं प्रति प्रथमानाः पृथ्व्यो भवन्त्यः महोत्सवैः ॥ ४० ॥
म० दुरो यज्ञगृहद्वार इन्द्रं यन्तु प्राप्नुवन्तु । कीदृशमिन्द्रम् । वृषाणं वर्षतीति वृषा तं वर्षितारम् । 'इन्द्रः पृथिव्यै वर्षीयान्' इत्युक्तेः । वीरं शूरम् । कीदृश्यो दुरः । कवष्यः 'कु शब्दे' कूयन्ते कुवन्ति शब्दयन्ति वा जना यासु ताः कवष्यः ससुषिराः सच्छिद्रे एव शब्दप्रसरात् । कौतेरौणादिकोऽषट्प्रत्ययः । तथा धावमानाः धावन्ते धावमानाः । आदरयुक्ता इत्यर्थः । तथोपमानं जनयः सुपत्नीः शोभनाः साध्व्यः पत्न्यो यज्ञैः सहाधिकारिण्यो जायाः स्त्रिय इव । लुप्तोपमानम् । ता | यथा धावमानाः यन्ति यान्ति तथा द्वार इन्द्रं यान्तु । किंच | इन्द्रं प्राप्य द्वारो देवीः देव्यः अभितः सर्वत्र विश्रयन्तां निवृत्ता भवन्तु । कीदृश्यो द्वारः । सुवीराः शोभना वीरा ऋत्विजो यासु ताः सुवीराः ऋत्विग्युक्ताः । महोभिस्तेजोभिरुत्सवैर्वा प्रथमानाः विस्तृता भवन्त्यः ॥ ४० ॥

एकचत्वारिंशी।
उ॒षासा॒नक्ता॑ बृह॒ती बृ॒हन्तं॒ पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्र॑म् ।
तन्तुं॑ त॒तं पेश॑सा सं॒वय॑न्ती दे॒वानां॑ दे॒वं य॑जतः सुरु॒क्मे ।। ४१ ।।
उ० उषासानक्ता । उषा आदित्यप्रभा नक्ता रात्रिः उषाश्च रात्रिश्च बृहती महत्यौ । बृहन्तं महान्तम् पयस्वती उदकवत्यौ अवश्यायवत्यौ । सुदुघे साधुदोहने शूरमिन्द्रम् । तन्तुं ततम् । लुप्तोपमानमेतत् । तन्तुमेव ततं पटार्थं सूत्रं