पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चक्षुरादिभिः सह श्लेषयति विलायकः । सर्वेन्द्रियैः सह मनः संयोजयसीत्यर्थः ॥ ३४ ॥

पञ्चत्रिंशी।
अ॒श्विन॑कृतस्य ते॒ सर॑स्वतिकृत॒स्येन्द्रे॑ण सु॒त्राम्णा॑ कृ॒तस्य॑ ।
उप॑हूत॒ उप॑हूतस्य भक्षयामि ।। ३५ ।।
उ० किंच अश्विनकृतस्य ते । नकार उपजनः । करोतिर्दर्शनार्थः । अदृष्टस्य सरस्वतिदृष्टस्य ते इन्द्रेण सुत्राम्णा दृष्टस्य ते । उपहूतश्चाभ्यनुज्ञात एताभिर्देवताभिः उपहूतस्य च सोमस्य ऋत्विग्भिः भक्षयामि ॥ ३५ ॥
म० हे ग्रह उपहूत, आज्ञप्तोऽहं ते तव त्वां भक्षयामि । कर्मणि षष्ठी । कीदृशस्य ते । अश्विनकृतस्य करोतिर्दर्शनार्थः । अश्विनावेवाश्विनौ स्वार्थेऽण् । वृद्ध्यभाव आर्षः । आश्विनाभ्यां कृतो दृष्टस्तस्य । सरस्वत्या कृतः सरस्वतिकृतः सरस्वत्या दृष्टस्तस्य ‘ड्यापोः संज्ञाच्छन्दसोर्बहुलम्' (पा० ६ । ३ । ६३) इति सरस्वतीशब्दस्य ह्रस्वः । सुष्रु त्रायते रक्षति सुत्रामा तेनेन्द्रेण कृतस्य दृष्टस्य । उपहूतस्य ऋत्विग्भिः कृतोपहवस्य ॥ ३५॥

षट्त्रिंशी।
समि॑द्ध॒ इन्द्र॑ उ॒षसा॒मनी॑के पुरो॒रुचा॑ पूर्व॒कृद्वा॑वृधा॒नः ।
त्रि॒भिर्दे॒वैस्त्रि॒ᳪशता॒ वज्र॑बाहुर्ज॒घान॑ वृ॒त्रं वि दुरो॑ ववार ।। ३६ ।।
उ० समिद्ध इन्द्रः । इतउत्तरं होत्रमैत्रावरुणं च सौत्रामण्याः आअश्वमेधात् । तत्रैन्द्रस्य पशोरेकादशयाजाः तत्रैता आयोज्या ऐन्द्र्यस्त्रिष्टुभः । यास्तु आग्निदेवताः 'इध्मः तनूनपात् नराशंसः इडः बर्हिः द्वारः उषासानक्ता दैव्यौहोतारौ तिस्रोदेव्यः त्वष्टा वनस्पतिः स्वाहाकृतयः' इति । ता यथायोगं विशेषणत्वेन व्याख्यायन्ते । द्विस्थान इन्द्रोऽत्र स्तूयते । यः समिद्धः संदीप्तः आदित्यानां त्वमिन्द्र, उषसामनीके मुखे। उषसां हि यत्र मुखं तत्र भगवानादित्योऽवतिष्ठते । पुरोरुचा अग्रतोगामिन्या दीप्त्या वावृधान इति संबन्धः । पूर्वकृच्च पूर्वा दिशं करोति । तदुदयोपलक्षिता हि पूर्वा दिक् संभवति । स एव मध्यस्थानः सन् त्रिभिर्देवैः सहितः वज्रबाहुः वज्रपाणिः जघान वृत्रं मेघम् । विदुरो ववार । हत्वा च वृत्रं विविधान् विवृतान् अकरोत् । विदुरः द्वाराणि स्रोतांसि तस्यैव मेघस्य । द्वारशब्दस्य दुर इति छान्दसं संप्रसारणम् ॥ ३६ ॥
म० आध्वर्यवं समाप्तम् । इतः सौत्रामणिकं होत्रमुच्यते । 'समिद्ध इन्द्र इत्याप्रियः प्रथमस्य' ( का० १९ । ६ । १२)। समिद्ध इत्याद्या एकादश ऋचः प्रथमस्यैन्द्रस्य पशोराप्रियः प्रयाजयाज्याः । आङ्गिरसदृष्टा एकादशाप्रियः त्रिष्टुभः तासां क्रमादेता देवता इध्मः .. तनूनपान्नराशंसो वा इडः बर्हिः द्वारः उषासानक्ता दैव्यौ होतारौ तिस्रो देव्यः त्वष्टा वनस्पतिः स्वाहाकृतयः एता देवताः । यथायोगमिन्द्रविशेषणत्वेन व्याख्येयाः । अनुवाकेनानेनेन्द्रः स्तूयते । इन्द्रो वृत्रं मेघं दैत्यं वा जघान हतवान् । दुरः द्वाराणि च विववार मेघस्य द्वाराणि स्रोतांसि विवृतान्यकरोत् । दैत्यपक्षे तत्पुरद्वाराणि शून्यान्यकरोत् । द्वारशब्दस्य संप्रसारणे दुर इति रूपम् । कीदृश इन्द्रः । | समिद्धः संदीप्तः उषसामनीके मुखे प्रातःकाले पुरोरुचा अग्रे प्रसरन्त्या दीप्त्या पूर्वकृत्पूर्वां दिशं करोतीति आदित्यात्मना पूर्वस्याः कर्ता । नाम्नो वृत्तिमात्रे पुंवद्भावः । त्रिभिर्देवैः | त्रिंशता च त्रयस्त्रिंशद्देवैः सह वावृधानः वर्धमानः । वृधेर्विकरणव्यत्ययेन शपः 'तुजादीनां दीर्घोऽभ्यासस्य' (पा० ६ ।१।७) इत्यभ्यासदीर्घः संहितायाम् । वज्रबाहुः वज्रं बाहौ यस्य वज्रपाणिः ॥ ३६ ॥

सप्तत्रिंशी।
नरा॒शᳪस॒: प्रति॒ शूरो॒ मिमा॑न॒स्तनू॒नपा॒त्प्रति॑ य॒ज्ञस्य॒ धाम॑ ।
गोभि॑र्व॒पावा॒न् मधु॑ना सम॒ञ्जन् हिर॑ण्यैश्च॒न्द्री य॑जति॒ प्रचे॑ताः ।। ३७ ।।
उ० नराशंसः । एकस्यामेव ऋचि नराशंसः तनूनपान्नाप्रीणामनुवाके । व्यवहितपदप्रायोयं मन्त्रः । यः शूरः इन्द्रः सन् नराशंसः । यश्च यज्ञो भवति नरा अस्मिन्नासीनाः शंसन्तीति । प्रतिप्रति मिमानो मिमीते मिमानः प्रतिगणयन् यज्ञस्य धाम स्थानम् गोप्रभृतिपशुसंबन्धिनीभिः वपाभिः वपावान् हिरण्यैर्वपापूर्वैः यश्चाधानभूतैः चन्द्री। चन्द्रमिति हिरण्यनाम । यश्च शूर इन्द्रः तनूनपात् घृतं भवति मधुना । मधुस्वादेन घृतेन समञ्जन् हवींषि । गौरत्र तनूरुच्यते । ततोऽस्यां भोगास्तस्याः पयो जायते पयस आज्यं जायत इति । तं शूरमिन्द्रं यजमानो यजति प्रचेताः प्रकृष्टज्ञानः ॥ ३७ ॥
म० एकस्यामृचि नराशंसतनूनपातौ । प्रचेताः प्रकृष्टं चेतो ज्ञानमस्य स प्रचेताः कर्मज्ञाता यजमानस्तमिन्द्रं प्रतियजति प्रत्यहं यजति । तं कम् । य ईदृशः नराशंसः नरैर्ऋत्विग्भिरा समन्तात् शस्यते शस्त्रैः स्तूयते स नराशंसः । यद्वा 'नरा अस्मिन्नासीनाः शंसन्ति' (निरु० ८ । ६) इति यास्कोक्तेर्नराशंसो यज्ञः तद्रूपस्तद्वान्वा । यज्ञस्य धाम :स्थानं प्रतिमिमानः मिमीते मिमानः प्रतिगणयन् । यज्ञस्थानानि जानन्नित्यर्थः । एकः-प्रतिमिमान इत्यनेन संबध्यतेऽपरो यजतीत्यनेन । तथा शूरः शौर्यवान् । तनूनपात् तनोति. विस्तारयति सृष्टिं तनूः प्रजापतिर्मरीचिस्तस्य नपात् पौत्रः। कश्यपात्मज इत्यर्थः । यद्वा तनूं शरीरं न पातयति रक्षति जाठराग्निरूपेणेति तनूनपात् अग्निस्तद्रूपः । यद्वा तनोति भोगानिति तनूः गौस्तस्या नपात् पौत्रं घृतम् । गोः पयो जायते । पयस आज्यमिति घृतरूपस्तद्वान् वा । गोभिर्वपावान् - पशुसंब