पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० इत उत्तरं यजमानं पूर्णपात्रं प्रतिगृह्णाति । संवर्चसेति त्वाष्ट्री त्रिष्टुप् । समित्युपसर्गः अगन्महीत्याख्यातेन संबध्यते । समगन्महि । ब्रह्मवर्चसा ब्रह्मवर्चसेन । पयसा गोभिः तनूभिः भार्यापुत्रादिभिः । मनसा च शिवेन शान्तेन । यज्ञमुपगच्छतः पुरुषस्य सर्वमेवैतदपैति वर्चआदि अतोऽनेन पुनराप्याययति । किंच त्वष्टा सुदत्रः कल्याणदानः। रायो धनानि विदधातु । किंच अनुमार्ष्टु शोधयतु । तन्वः शरीरस्य यद्विलिष्टं विश्लिष्टम् ॥ २४ ॥
म० त्वष्टृदेवत्या त्रिष्टुप् । इतः परं याजमानम् । 'पूर्णपात्रं निनयति परीत्य सन्नतं यजमानोऽञ्जलिना प्रतिगृह्णाति सं वर्चसेति सुखं विमृष्टः' ( का० ३ । ८।८-१०) इति । समित्युपसर्गोऽगन्महीत्यनेन संबद्धः प्रत्येकम् । वर्चसा ब्रह्मवर्चसेन वयं समगन्महि सङ्गता भवामः । पयसा क्षीरादिरसेन समगन्महि । तनूभिरनुष्ठानक्षमैः शरीरावयवैः । यद्वा तनूभिर्भार्यापुत्रादिभिः समगन्महि । शिवेन शान्तेन कर्मश्रद्धायुक्तेन मनसा समगन्महि । यज्ञमुपगच्छतो नरस्य वर्चसाद्यपैति तदनेन पुनराप्याययति । किंच सुदत्रः शोभनदानः त्वष्टा रायो धनानि विदधातु करोतु । तन्वः शरीरस्य मदीयस्य यत् विलिष्टं विशेषेण न्यूनमङ्गं तदनुमार्ष्टु न्यूनत्वपरिहारेणानुकूलं कृत्वा शोधयतु । धनस्य शरीरस्य पुष्टिं करोत्वित्यर्थः । सुष्ठु ददातीति सुदत्रः सुपूर्वाद्ददातेः ष्ट्रन् । 'सर्वधातुभ्यः' (उ० ४ । १६० ) इति ष्ट्रन् । बाहुलकत्वाद्ध्रस्वः ॥ २४ ॥

पञ्चविंशी।
दि॒वि विष्णु॒र्व्य॒क्रᳪस्त॒ जाग॑तेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मोऽन्तरि॑क्षे॒ विष्णु॒र्व्य॒क्रᳪस्त॒ त्रैष्टु॑भेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः पृ॑थि॒व्यां विष्णु॒र्व्य॒क्रᳪस्त गाय॒त्रेण॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मोऽस्मादन्ना॑द॒स्यै प्र॑ति॒ष्ठाया॒ अग॑न्म॒ स्वः सं ज्योति॑षाभूम ।। २५ ।।
उ०. विष्णुक्रमान्क्रमते । दिवि विष्णुः द्युलोके विष्णुर्यज्ञो मदीयः व्यक्रंस्त विक्रान्तवान् । जागतेन छन्दसा ततो निर्भक्तः । ततो द्युलोकात् निर्भक्तो निर्गतभागः कृतः । योऽस्मान्द्वेष्टि हिनस्ति । यं च वयं द्विष्मः हिंस्मः । अनेनोत्तरावपि मन्त्रौ व्याख्यातौ । भागमवेक्षते । अस्मादन्नात् अस्मात् यज्ञभागात् । निर्भक्त इत्यनुषङ्गः । भूमिमवेक्षते । अस्यै प्रतिष्ठायै । अस्या भूमेः प्रतिष्ठायाः निर्भक्त इत्यनुषङ्गः। प्राङीक्षते । अगन्म स्वः । अनेन कर्मणा अगन्म गताः । कम् । स्वर्गं यज्ञं सूर्यं देवान् । स्वरव्ययमनेकार्थम् । आहवनीयमीक्षते । संज्योतिषाभूम । समित्येकीभावमाचष्टे । आहवनीयलक्षणेन ज्योतिषा एकीभूताः ॥ २५ ॥
म० 'विष्णुक्रमान्क्रमते दिवि विष्णुरिति प्रतिमन्त्रम्' (का० ३ । ८ । ११) इति । विष्णुपादबुद्ध्या स्वपादस्य भूमौ प्रक्षेपा विष्णुक्रमाः। विष्णुर्यज्ञपुरुषः जागतेन छन्दसा जगतीच्छन्दोरूपेण स्वकीयपादेन दिवि द्युलोके व्यक्रंस्त विशेषेण क्रमणं कृतवान् । तथा सति ततो द्युलोकात् निर्भक्तो भागरहितः कृत्वा निःसारितः । कः । योऽस्मान्द्वेष्टि यं च वयं द्विष्मः । योऽस्मान् दृष्ट्वा न प्रीयते यं च दृष्ट्वा वयं न प्रीयामहे स द्विविधोऽपि शत्रुर्दिवो निःसारितः । एवमुत्तरावपि विष्णुक्रममन्त्रौ व्याख्येयौ । 'अस्मादन्नादिति भागमवेक्षते' (का. ३ । ८ । १३) इति । योऽयं भागोऽवेक्ष्यते अस्मादनाद्यजमानभागान्निर्भक्त इति वाक्यशेषोऽनुवर्तनीयः। 'अस्यै प्रतिष्ठाया इति भूमिं' (का० ३।८।१४) इति । अवेक्षत इति चतुर्षु मन्त्रविनियोगेष्वनुवर्तते । अस्यै अस्याः पुरतो दृश्यमानायाः प्रतिष्ठाहेतोर्यज्ञियभूमेः निर्भक्त इत्यादि पूर्ववत् । 'अगन्म स्वरिति प्राक्' ( का० ३।८।१५) इति पूर्वस्यां दिशि स्थितं स्वः स्वर्गं सूर्यं वा वयमगन्म प्राप्ताः । यज्ञानुष्ठानेन । । 'संज्योतिषेत्याहवनीयम्' (का० ३ । ८ । १६) इति । ज्योतिषाहवनीयलक्षणेन वयं समभूम सङ्गता अभूम ॥ २५ ॥

पड़िशी।
स्व॒यं॒भूर॑सि॒ श्रेष्ठो॑ र॒श्मिर्व॑र्चो॒दा अ॑सि॒ वर्चो॑ मे देहि । सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ।। २६ ।।
उ० सूर्यमुदीक्षते । स्वयंभूरसि । अकृतकस्त्वं भवसि । श्रेष्ठः प्रशस्ततमः रश्मिः । सप्त रश्मय आदित्यस्य । तत्र चतसृषु दिक्षु चत्वारो रश्मयः। एकोधस्तादेक उपरिष्टात् । मण्डलशरीराहंमानी हिरण्यगर्भाख्यः पुरुषः सप्तमः श्रेष्ठो रश्मिरिति। तथाच श्रुतिः 'अथ यत्परं भाः प्रजापतिर्वा स स्वर्गो वा लोकः' इति । यस्त्वं स्वयंभूरसि श्रेष्ठश्च रश्मिस्तं त्वां ब्रवीमि । वर्चोदा असि । ब्रह्मवर्चसस्य स्वरसेनैव स्वभावेनैव दातासि, अतो वर्चो मे मह्यं देहि । आवर्तते सूर्यस्यावृतम् । आवर्तनमावृत् । सूर्यस्यावर्तनमनु अहम् आवर्ते । तदेतां गतिमेतां प्रतिष्ठां गत्वैतस्यैवावृतमन्वावर्ते' इति श्रुतिः ॥ २६ ॥
म०. 'स्वयंभूरिति सूर्यम्' (का० ३ । ८ । १७) इति । हे सूर्य, त्वं स्वयंभूरकृतकः स्वयंसिद्धोऽसि । श्रेष्ठः प्रशस्यतमो रश्मिः मण्डलशरीराभिमानी हिरण्यगर्भाख्योऽसि । सूर्यस्य सप्त रश्मयः सन्ति । चतुर्दिक्षु चत्वारः । एक उपर्येकोऽधस्तात्सप्तमो मण्डलाभिमानी हिरण्यगर्भः पुरुषः स श्रेष्ठः स त्वमसि । यतस्त्वं वर्चीदा असि तेजसो दातासि अतो मे वर्चः ब्रह्मवर्चसं देहि ॥ 'सूर्यस्येत्यावर्तते प्रदक्षिणम्' (का० ३ । ८ । १९) इति । आवर्तनमावृत् । सूर्यस्य संबन्धि