पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० पत्नी वेदं प्रमुञ्चति । वेदोऽसीति । 'विद ज्ञाने'। वेदिता त्वमसि । यो ह्युपग्रहः स संनिकर्षाद्यज्ञं जानाति । यतस्त्वं वेदोऽसि अतस्त्वां ब्रवीमि । येन कारणेन त्वं वेद देवेभ्यो । देवानामिति विभक्तिव्यत्ययः । वेदः अभवः भूतः तेनैव कारणेन मह्यं मम वेदो भूयाः भवेः । समिष्टयजुर्जुहोति । देवा गातुविद इति । विराडियं त्रिंशदक्षरा । अस्याः पूर्वेणार्धेन देवतां व्यवसृजति । हे देवाः गातुविदः । गातुरिति यज्ञनाम । यज्ञविदः । युष्मत्प्रसादात्तथा भवतु । यथा आगामिनं गातुं यज्ञं वित्त्वा विदित्वा । गातुमित । ततोर्वाक्कालं यज्ञमित आगच्छत । यज्ञपरम्परानुच्छिन्नागमना यूयं भवतेत्यर्थः । एवं देवान् यथायथं विसृज्य अथेदानीं मनसस्पतिमाह । हे मनसस्पते मनसोऽधिपतिश्चन्द्रमाः । हे चन्द्रमः। इमं यज्ञं देव । वाते धाः धारय । वाते हि यज्ञोऽवतिष्ठते । तथाच श्रुतिः । 'वायुरेवाग्निस्तस्माद्यदैवाध्वर्युरुत्तमं कर्म करोत्यथैतमेवाप्येति' इति ॥ २१ ॥
म० 'पत्नी वेदं प्रमुञ्चति वेदोऽसि' (क० ३।८।१) इति । हे कुशमुष्टिनिर्मित पदार्थ, त्वं वेदोऽसि । ऋगाद्यात्मकोऽसि यद्वा वेत्तीति वेदः ज्ञातासि । हे देव द्योतनात्मक वेद, हे वेद, येन कारणेन त्वं देवेभ्यः । षष्ठ्यर्थे चतुर्थी । देवानां वेदोऽभवः ज्ञापकोऽभूः तेन कारणेन मह्यं मम वेदो भूयाः ज्ञापको भव ॥ 'समिष्टयजुर्जुहोति देवा गातुविद इति' (का० ३ । ८ । ४) इति । इयं विराट्छन्दस्का वातदेवत्या मनसस्पतिदृष्टा ऋक् । अस्याः पूर्वार्धेन देवता विसृजति । 'गै शब्दे' । गीयते नानाविधैर्वैदिकशब्दैः प्रतिपाद्यते इति गातुर्यज्ञः तं विदन्ति जानन्तीति गातुविदः । हे गातुविदः यज्ञवेत्तारो देवाः, गातुं वित्त्वा विदित्त्वा । 'विद ज्ञाने' । अस्मदीयो यज्ञः प्रवृत्त इति ज्ञात्वा । गातुमित यज्ञं प्रत्यागच्छत । यद्वा गातुर्गन्तव्यो मार्गः तं गच्छत । अस्मदीययज्ञेन तुष्टाः सन्तः स्वमार्गं गच्छत । एवं देवान्विसृज्य चन्द्रं प्रत्याह । हे मनसस्पते, मनोऽधिपश्चन्द्रः । यद्वा देवान् यष्टुं मनसः प्रवर्तकः परमेश्वरः तं प्रत्युच्यते । हे मनसस्पते परमेश्वर, हे देव, इममनुष्ठितं यज्ञं स्वाहा त्वद्धस्ते ददामि । त्वं च तं यज्ञं वाते वायुरूपे देवे धाः स्थापय । वाते हि यज्ञोऽवतिष्ठते । तदुक्तं श्रुत्या 'वायुरेवाग्निस्तस्माद्यदैवाध्वर्युरुत्तमं कर्म करोत्यथैतमेवाप्येति' इति ॥ २१॥

द्वाविंशी।
संब॒र्हिर॑ङ्क्ताᳪ ह॒विषा॑ घृ॒तेन॒ समा॑दि॒त्यैर्वसु॑भि॒: सम्म॒रुद्भि॑: ।
समिन्द्रो॑ वि॒श्वदे॑वेभिरङ्क्तां दि॒व्यं नभो॑ गच्छतु॒ यत् स्वाहा॑ ।। २२ ।।
उ० बर्हिर्जुहोति । संबर्हिरङ्क्ताम् । बर्हिर्देवत्या विराड्रूपा त्रिष्टुप् । संबर्हिरङ्क्ताम् । 'अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु' । बर्हिरिति द्वितीया । समङ्क्तां बर्हिः । क इन्द्र इत्युपरिष्टात् श्रूयते स इहाभिसंबध्यते । इन्द्रः समङ्क्तां बर्हिः । केन । हविषा घृतेन । कैः सहितः समङ्क्तात् । आदित्यैर्वसुभिर्मरुद्भिः विश्वैर्देवैः सहित इन्द्रो बर्हिः समङ्क्ताम् । तच्चाक्तं सत् दिव्यं नभो गच्छतु । यद्दिव्यं दिवि भवं नभः । नभ इत्यादित्यनाम । आदित्यलक्षणं ज्योतिस्तद्गच्छतु ॥ २२ ॥
म० 'बर्हिः संबर्हिरिति' (का० ३ । ८ । ५ ) इति बर्हिर्जुहोति । इयमृक् त्रिष्टुप् विराड्रूपा बर्हिर्देवत्या । इन्द्रो हविषा | हविःसंस्कारयुक्तेन घृतेन बर्हिः दर्भं समङ्क्ताम् सम्यगञ्जनोपेतं करोतु । स चन्द्रः केवलो न किंतु आदित्यैर्वसुभिर्मरुद्भिः विश्वदेवेभिर्विश्वनामकैश्च गणदेवैः सहितः समङ्क्ताम् । समित्यस्योपसर्गस्यावृत्त्या अङ्क्तामित्यस्य क्रियापदस्याप्यावृत्तिर्बोद्धव्या । वस्वादिसहितेनेन्द्रण समङ्क्तां तद् बर्हिर्यद्दिव्यं नभो आदित्यलक्षणं ज्योतिः तद्गच्छतु आदित्यं प्राप्नोतु । स्वाहा इदं बर्हिर्देवोद्देशेन दत्तम् । नभः इत्यादित्यनामसु (निघ० १।४) पठितम् । दिवि भवं दिव्यम् ॥ २२ ॥

त्रयोविंशी।
कस्त्वा॒ विमु॑ञ्चति॒ स त्वा॒ विमु॑ञ्चति॒ कस्मै॑ त्वा॒ विमु॑ञ्चति॒ तस्मै॑ त्वा॒ विमु॑ञ्चति ।
पोषा॑य॒ रक्ष॑सां भा॒गो॒ऽसि ।। २३ ।।
उ० वेद्यां प्रणीतां निनयति । कस्त्वा विमुञ्चति । व्याख्यातम् । अयं तु विशेषः । तत्र यज्ञं युनक्ति इह तु विमुञ्चति । पोषाय यजमानस्य पोषाय निनयामीति शेषः । कणानपास्यति । 'रक्षसां भागोऽसि' इति निगदव्याख्यातम् ॥ २३ ॥
म० 'वेद्यां प्रणीतां निनयति परीत्य कस्त्वेति' (का. ३ । ८ । ६) इति । व्याख्यातो मन्त्रः प्रजापतिदैवतः । | तत्र यज्ञयोगे नियुक्तः । अत्र तु यज्ञविमोके । पोषाय यजमानं पुत्रादिभिः पोषयितुं त्वां निनयामीति शेषः । यज्ञं प्रयुज्याविमोके यजमानस्याप्रतिष्ठापत्तेर्विमोकः कार्यः । 'यो वै यज्ञं प्रयुज्य न विमुञ्चत्यप्रतिष्ठानो वै स भवति' (का० ३ । ८। ७) इति श्रुत्यन्तरवचनात् । पुरोडाशकपालेन कणानपास्यत्यधः कृष्णाजिनᳪ रक्षसामितीति । हे कणसमूह, त्वं रक्षसां भागोऽसि तेषां नीचजातित्वान्निकृष्टकणरूपो भागो युक्तः ॥ २३ ॥

चतुर्विंशी।
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सᳪ शि॒वेन॑ ।
त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम् ।। २४ ।।