पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ययोस्ते घृताच्याविति प्राप्ते घृताची इति पूर्वसवर्णदीर्घादेशः । ये युवां घृताञ्चने स्थः । ते ब्रवीमि । धुयौँ धुरि भवौ धुर्यावनवाहौ तौ पातं गोपायतम् । किंच सुम्नेस्थः । सुम्नमिति सुखनाम । यस्मात्सुखरूपे भवथः तस्मात्सुम्ने सुखे । मा माम् । धत्तं धापयतम् । यज्ञ नमश्च ते इति वेदिमालभते यजमानः । सूर्यं पवमान ऋषिरुद्वालवान् धनान्नवानित्येते ऋषयोऽस्य यजुषो यज्ञो देवता । हे यज्ञ, नमश्च ते नमोस्तु ते नमस्कारश्चास्तु । ते तुभ्यम् । स यदतिरेचयति तन्नमस्कारेण शमयति । उपच उपचयश्च तेऽस्तु । 'अथ यदूनं करोत्युपचेति तेन तदन्यूनं भवति' इति श्रुतिः । यज्ञस्य शिवे संतिष्ठस्व । यद्वै यज्ञस्यान्यूनातिरिक्तं तच्छिवं तेन तदुभयं शमयति । स्विष्टे मे संतिष्ठस्व । साधु इष्टं स्विष्टं तस्मिन् मे मम संतिष्ठस्व समाप्तिं याहि ॥१९॥
म०. 'घृताची इति धुरि निदधाति' (का० ३ । ६ । १९) इति । जुहूपभृतौ शकटधुरि निदध्यात् । हे जुहूपभृतौ, युवां घृताची स्थः । घृतमञ्चतः प्राप्नुत इति घृताच्यौ । पूर्वसवर्णदीर्घः । तथाविधे युवां धुर्यावनड्वाहौ पातं रक्षतम् । धुरं वहतस्तौ धुर्यो । किंच युवां सुम्ने सुखरूपे स्थः भवथः तस्मात्सुम्ने सुखे मा मां धत्तं स्थापयतम् ॥ 'यज्ञ नमश्च त इति वेदिमालभते' (का० ३ । ६ । २१) इति । अस्य मन्त्रस्य शूर्पं यवान्कृषिरुद्वालवान् धानान्नर्वानिति पञ्च ऋषयः यज्ञो देवता । हे यज्ञ, ते तुभ्यं नमः अस्तु । उप उपचयो वृद्धिश्च तेऽस्तु । चकारावन्योन्यसमुच्चयार्थौ । नमउपशब्दाभ्यां यज्ञस्य यदतिरिक्तं यच्च न्यूनं जातं तत् पूर्णं जायते । तथाच श्रुतिः 'स यदतिरेचयति तन्नमस्कारेण शमयति अथ यदूनं करोत्युपचेति तेन तदन्यूनं भवति' इति । किंच । यज्ञस्य शिवे संतिष्ठस्व अन्यूनातिरिक्तं यज्ञं कुर्वित्यर्थः । 'यद्वै यज्ञस्यान्यूनातिरिक्तं तच्छिवं तेन तदुभयं शमयति' इति श्रुतेः । मे मम स्विष्टे संतिष्ठस्व । साधु इष्टं स्विष्टम् । शोभने योगे तिष्ठसि । प्राप्तिं कुर्वित्यर्थः ॥ १९॥

विंशी।
अग्ने॑ऽदब्धायोऽशीतम पा॒हि मा॑ दि॒द्योः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्या अ॑वि॒षं न॑: पि॒तुं कृ॑णु
सु॒षदा॒ योनौ॒ स्वाहा॒ वाड॒ग्नये॑ संवे॒शप॑तये॒ स्वाहा॒ सर॑स्वत्यै यशोभ॒गिन्यै॒ स्वाहा॑ ।। २० ।।
उ० स्रुक्स्रुवं प्रतिगृह्णाति । अग्नेऽदब्धायो । गार्हपत्योग्निरुच्यते । हे भगवन्नग्ने, अदब्धायो । दभ्नोतिर्हिंसाकर्मा । आयुरिति मनुष्यनाम । अदब्धः अनवखण्डित आयुर्मनुष्यो यजमानो यस्य स तथोक्तः । तस्य संबोधनम् अदब्धायो। यद्वा अग्निरेव अनवखण्डितायुः । अस्मिन्पक्षे छान्दसी पुंलिङ्गता । अशीतम 'अश भोजने । 'अशू व्याप्तौ'। एतौ धातू संदिह्यते। अशीतम अतिशयेन भोक्तः । अतिशयेन व्यापक । अशीतमेति दीर्घत्वं छान्दसम् । एवं स्तुत्वा याचते । पाहि मा दिद्योः । दिद्युदिति वज्रनाम । गोपाय मां दिद्युतः। पाहि प्रसित्यै । 'प्रसितिः प्रसयनात्तन्तुर्वा जालं वा' । पाहि मां बन्धनात् । पाहि दुरिष्ट्यै दुर्यागात् पाहि । पाहि दुरद्मन्यै। अद्मेत्यन्ननाम । पाहि दुर्भोजनात् । 'भीत्रार्थानां भयहेतुः' इति सर्वाश्चतुर्थ्यः पञ्चम्यर्थे । अविषं नः पितुं कृणु । पितुरित्यन्ननाम । विषरहितमन्नमस्माकं कुरु । सुषदा योनौ । योनिरिति गृहनाम । साधु सदने गृहे स्थितानामस्माकमेतद्भवतु । स्वाहावाडिति व्याख्यातम् । दक्षिणाग्नौ जुहोति । अग्नये संवेशपतये । स्त्रीपुंसयोरभिलाषपूर्वकमेकत्र शयनं संवेशः । तस्य पतिः संवेशपतिः तस्मै । सरस्वत्यै यशोभगिन्यै । जीवतः प्रशंसा यशः । भगिनीति संबन्धिशब्दः स्वसेत्युच्यते ॥२०॥
म० 'स्रुक्स्रुवं प्रगृह्णात्यग्नेऽदब्धायो' (का० ३।७।१७) इति । दभ्नोतिर्हिंसाकर्मा (निघं० २। १९ । १)। आयुरिति मनुष्यनाम ( निघं० २ । ३ । १७) । अदब्धोऽनुपहिंसित आयुर्मनुष्यो यजमानो यस्य सोऽदब्धायुः । 'अश भोजने' । अश्नाति भुङ्क्ते इत्यशी । यद्वा 'अशू व्याप्तौ' अश्नुते व्याप्नोतीत्यशी । अतिशयेनाशी अशीतमः । दीर्घश्छान्दसः । हे अदब्धायो अहिंसित यजमान, हे अशीतम भोक्तृतम, यद्वा व्यापकतम, हे अग्ने गार्हपत्य, मा मां दिद्योः वज्रात्पाहि । शत्रुप्रयुक्ताद्वज्रसमादायुधान्मां पाहि । दिद्युरिति वज्रनाम ( निघं० २।२०।१) प्रसित्यै प्रसितेर्बन्धनहेतुभूताज्जालान्मां पाहि । 'प्रसितिः प्रसयनात्तन्तुर्वा जालं वा' (निरु० ६ । १२) इति यास्कः । दुष्टा इष्टिर्दुरिष्टिः अशास्त्रीयो यागस्तस्मान्मां पाहि । | दुरद्मनी । अदनमद्मनी दुष्टा अद्मनी दुरद्मनी दुर्भोजनं ततो मां पाहि । चतुर्थ्यः पञ्चम्यर्थे । 'भीत्रार्थानाम्-' (पा० १। | ४।२५) इति पञ्चमी । किंच नोऽस्माकं पितुमन्नमविषं कृणु हविर्विषरहितं कुरु । योनिरिति गृहनाम (निघं० ३ । | ४) । सुष्ठु सद्यते स्थीयते यस्यां सा सुषदा तस्यां सुषदा। विभक्तेराकारः । सम्यगवस्थानयोग्ये गृहे मां स्थापयेति शेषः । यद्वा गृहे स्थितानां नोऽस्माकं पितुमविषं कुरु । स्वाहा वाडिति पदे व्याख्याते । 'दक्षिणाग्नौ जुहोत्यग्नय इति सरस्वत्या इति च' (का० ४।७।१८) इति । स्त्रीपुंसयोरभिलाषपूर्वकमेकत्र शयनं संवेशः । तस्य पतिर्योऽग्निस्तस्मै स्वाहा हविर्दत्तम् । जीवतः पुरुषस्य प्रशंसा यशः तस्य यशसो भगिनी वाग्रूपा सरस्वती तस्यै हविर्दत्तम् ॥ २० ॥

एकविंशी।
वे॒दो॒ऽसि॒ येन॒ त्वं दे॑व वेद दे॒वेभ्यो॑ वे॒दोऽभ॑व॒स्तेन॒ मह्यं॑ वे॒दो भू॑याः ।
देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त ।
मन॑सस्पत इ॒मं दे॑व य॒ज्ञᳪ स्वाहा॒ वाते॑ धाः ।। २१ ।।