पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निवर्त्य चक्षुःपालकोऽसि । अतो मे मम चक्षुः पाहि पालय । प्रस्तरप्रहरणप्रसक्तं चक्षुष उपद्रवं परिहरेत्यर्थः ॥ १६ ॥

सप्तदशी।
यं प॑रि॒धिं प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑र्गु॒ह्यमा॑नः ।
तं त॑ ए॒तमनु॒ जोषं॑ भराम्ये॒ष नेत्त्वद॑पचे॒तया॑ता अ॒ग्नेः प्रि॒यं पाथोऽपी॑तम् ।। १७।।
उ० परिधीनुपहरति । यं परिधिम् । त्रिष्टुप्विराड्रूपा यजुरन्ता । अग्नेः प्रियमिति यजुः । आहवनीयोऽग्निरभिधीयते । हे आहवनीय, यं परिधिं पर्यधत्थाः परिहितवानसि । अग्ने देव, पणिभिरसुरैः प्रतिपक्षभूतैः गुह्यमानः । 'गुहू संवरणे' । संध्रियमाणः अवरुह्यमानः । तं त एतम् । तमेतं परिधिं ते तव अनुजोषं भरामि । अनुरुपसर्गः भिन्नक्रमः भरामीत्येतेन संबध्यते । 'हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारः । अनुहरामि जोषमभिप्रेतम् । तथाच श्रुतिः 'वायुरेवाग्निः तस्माद्यदेवाध्वर्युरुत्तमं कर्म करोति अथैतमेवाप्येतीति' । एतत्सङ्गमात्प्रीतो भवति । एष नेत्त्वदपचेतयातै । एष परिधिः । न इत् नेत् । निपातसमाहारः परिभवार्थः । त्वत् त्वत्तः सकाशात् । अपचेतयातै । आशङ्कायां पञ्चमो लकारः । 'चिती संज्ञाने' । अपचेतयतु । एतदुक्तं भवति । एष परिधिर्मा कथंचित्त्वत्तो वियुक्तः सन् मास्मान्विगतचेतस्कान्कुर्यात् मास्मान्विमनस्कान्करोतु । इतरावनुसमस्यति । अग्नेः प्रियम् । अग्नेः संबन्धि प्रियं पाथः। पाथ इत्यन्ननाम । अभिप्रेतमन्नम् । अपीतम् अपिगच्छतम् ॥ १७ ॥
म० परिधीननुप्रहरति यं परिधिमिति प्रथमम्' (का० ३।६ । १७) इति । एकादशिनस्त्रयोऽष्टकश्च विराड्रूपः प्रथमोऽष्टकः । यं परिधिम् । त्रिष्टुब्विराड्रूपा आग्नेयी यजुरन्ता । अग्नेः प्रियमिति यजुः देवलदृष्टा । हे अग्ने देव आहवनीय, पणिभिरसुरैः गुह्यमानः । 'गुहू संवरणे' संव्रियमाणः संरुध्यमानः सन् त्वं यं परिधिं पश्चिमदिशि पर्यधत्थाः । असुरोपद्रवनिवारणाय परिहितवानसि स्थापितवानसि । ते तव जोषं प्रियं तमेतं परिधिमनु भरामि वह्नौ प्रक्षिपामि । अनुर्भिन्नक्रमः । हरतेर्हस्य भः । एष परिधिः त्वत् त्वत्तः सकाशात् न इत् । इत् एवार्थे । नैव अपचेतयातै मा अपचेतयतु । त्वत्तोऽपगन्तुं मा जानात्वित्यर्थः । त्वय्येव तिष्ठतु । 'चिती संज्ञाने' णिजन्ताल्लेट् तस्यात्मनेपदे प्रथमैकवचनं तान्तम् । 'टित आत्मनेपदानाम्' (पा० ३ । ४ । ७९) इति तस्यैकारः । 'वैतोऽन्यत्र' (पा० ३ । ४ । ९६) इति लेडेकारस्य पाक्षिक ऐ 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्याडागमः । गुणायादेशौ अपपूर्वः । अपचेतयातै अपचेतयतु । एष परिधिस्त्वत्तोऽपगतचित्तो मास्त्वित्यर्थः ।। 'इतरौ च युगपदग्नेः प्रियमिति' (का. ३।६।१७) इति दक्षिणोत्तरौ परिधी युगपत्प्रक्षिपेत् । हे परिधी, अग्नेः प्रियं पाथः युवामपीतमपिगच्छतम् । पाथ इत्यन्ननाम । (नि० नै० ९।७) आहवनीयस्याभिप्रेतमन्नमपिगच्छतम् । अग्नेरन्नत्वं भवद्भ्यां प्राप्यतामित्यर्थः ॥ १७ ॥

अष्टादशी।
स॒ᳪस्र॒वभा॑गा स्थे॒षा बृ॒हन्त॑: प्रस्तरे॒ष्ठाः प॑रि॒धेया॑श्च दे॒वाः ।
इ॒मां वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन् बर्हिषि॑ मादयध्व॒ᳪ स्वाहा॒ वाट् ।। १८।।
उ० जुहूपभृद्भ्यां संस्रवान् जुहोति । सᳪस्रवभागाः । वैश्वदेवी त्रिष्टुप् यजुरन्ता । स्वाहावाडिति यजुः । संस्रवः भागो येषां ते संस्रवभागा विश्वेदेवाः । यद्यपि यूयं संस्रवभागाः स्थ भवथ । तथापि इषा अन्नेन संस्रवलक्षणेन बृहन्तो महान्तः । किंच ये च प्रस्तरेष्ठाः प्रस्तरस्थायिनः ये च परिधेयाः परिधिभवा देवास्तानुप शब्दं प्रत्यक्षीकृत्य ब्रवीमि। इमां मदीयां वाचम् । अभिगृणन्तः अभिष्टुवन्तः । विश्वे सर्वे । आसद्य स्थित्वा । अस्मिन्बर्हिषि । मादयध्वम् तृप्यध्वम् मोदयध्वं वा । स्वाहा व्याख्यातम् । वाट् वषट्कारः परोक्षम् ॥ १८ ॥
म० सᳪस्रवभागा इति सᳪस्रवान् जुहोति' (का० ३।६। १८) इति वैश्वदेवी त्रिष्टुब्यजुरन्ता । स्वाहा वाडिति यजुः । | सोमशुष्म ऋषिः । हे विश्वेदेवाः, यूयं संस्रवभागाः स्थ । विलीनमाज्यं संस्रवः स एव भागो येषां ते संस्रवभागाः। तथाविधा भवथ । तथा इषा संस्रवलक्षणेनान्नेन बृहन्तो महान्तः स्थ । किंच ये प्रस्तरेष्ठाः प्रस्तरे तिष्ठन्तीति प्रस्तरेष्ठाः प्रस्तरस्थायिनः । ये च परिधेयाः परिधिभवाः सन्ति ते विश्वेदेवा इमां मदीयां वाचमभिगृणन्तः सर्वत्र वर्णयन्तः । अयं यजमानः सम्यक् यजतीत्येवं सर्वेषां देवानां मध्ये कथयन्तो यूयमस्मिन् बर्हिषि यज्ञ आसद्योपविश्य मादयध्वं तृप्यध्वं मोदध्वं वा । स्वाहेति वाडिति च शब्दौ हविर्दानार्थौ । सर्वथा दत्तमित्यादरं दर्शयितुं शब्दद्वयप्रयोगः । यद्यपि 'स्वाहाकारेण वा वषट्कारेण वा' इति श्रुतेर्वषट्कारो दानार्थः तथापि देवानां परोक्षप्रियत्वात्प्रत्यक्षत्वपरिहाराय वाडितिशब्दः प्रयुक्तः ॥ १८ ॥

एकोनविंशी।
घृ॒ताची॑ स्थो॒ धुर्यौ॑ पातᳪ सु॒म्ने स्थ॑: सु॒म्ने मा॑ धत्तम् ।
यज्ञ॒ नम॑श्च त॒ उप॑ च य॒ज्ञस्य॑ शि॒वे संति॑ष्ठस्व॒ स्विष्टे मे॒ संति॑ष्ठस्व ।। १९ ।।
उ० घृताची इति धुरि स्रुचौ निदधाति । घृतमञ्चति