पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नीमावृतमावर्तनमनुसृत्याहमपि आवर्ते प्रादक्षिण्येनावर्तनं करोमि ॥ २६ ॥

सप्तविंशी।
अग्ने॑ गृहपते सुगृहप॒तिस्त्वया॑ग्ने॒ऽहं गृ॒हप॑तिना भूयासᳪ सुगृहप॒तिस्त्वं मया॑ऽग्ने गृ॒हप॑तिना भूयाः ।
अ॒स्थू॒रि णौ॒ गार्ह॑पत्यानि सन्तु श॒तᳪ हिमा॒: सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ।। २७ ।।
उ० गार्हपत्यमुपतिष्ठते । अग्ने गृहपते हे भगवन्नग्ने, गृहपते सुगृहपतिः शोभनो गृहपतिः । अहं त्वया गृहपतिना गृहाणां पालयित्रा भूयासं भवेयम् । किंच सुगृहपतिस्त्वं मया अग्ने, सहायेन गृहपतिना भूयाः भवेः । एवमनेन प्रकारेण । अस्थूरिणौ गार्हपत्यानि सन्तु । अन्यतरतो युक्तं शकटं स्थूरीत्युच्यते । तत्वतः प्रतिषिध्यते अस्थूरीति । लुप्तोपमं चैतत् । यथा उभयतोयुक्तं शकटम् । एवं नौ आवयोः गार्हपत्यानि गृहपतिसंयुक्तानि कर्माणि सन्तु । शतं हिमाः शतं वर्षाणि । अथावर्तते । सूर्यस्यावृतमन्वावर्ते इति व्याख्यातम् ॥ २७ ॥
म०. 'गार्हपत्यमुपतिष्ठतेऽग्ने गृहपते' (का० ३ । ८ । २१) इति । हे गृहपते अस्मदीयगृहस्य पालक हे अग्ने, त्वया गृहपतिना गृहपालकेन कृत्वा । त्वत्प्रसादेनेत्यर्थः । अहं सुगृहपतिः शोभनो गृहपतिः भूयासं भवेयम् । तथा हे अग्ने, त्वमपि मया गृहपतिना मदीयसेवयेत्यर्थः । सुगृहपतिः शोभनो गृहपालको भूयाः भव । अग्नेपदस्यावृत्तिरादरार्था । एवं सति नौ आवयोर्गार्हपत्यानि गृहपतिभ्यां स्त्रीपुरुषाभ्यां निष्पाद्यानि कर्माणि शतं हिमाः वर्षाणि शतवर्षपर्यन्तमस्थूरीव सन्तु । निरन्तरमवहितानि प्रवर्तन्ताम् । एकपार्श्वे बलीवर्दयुक्तं शकटं स्थूरि न स्थूरि अस्थूरि । लुप्तोपमानम् । बलीवर्दयुक्तं शकटं यथा निरन्तरम् अव्यवहितं प्रसरति तथास्माकं गार्हपत्यानि सन्तु । 'गृहपतिना संयुक्ते ञ्यः' (पा० ४ । ४ । ९० ) इति ञ्यप्रत्ययः ‘सूर्यस्येत्यावर्तते प्रदक्षिणम्' (का० ३ । ८ । २३) इति व्याख्यातम् ॥ २७॥

अष्टाविंशी।
अग्ने॑ व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधी॒दम॒हं यऽए॒वाऽस्मि सो॒ऽस्मि ॥ २८ ॥
उ० व्रतं विसृजते । अग्ने व्रतपते हे अग्ने व्रतपते, व्रतमहम् अचारिषं चरितवानस्मि । तदशकं शक्तवानस्मि । तन्मे मम आराधि राद्ध्वं फलम् अभिसमृध्वमित्यर्थः । द्वितीयो व्रतविसर्गमन्त्रः । इदमहम् हे अग्ने, त्वत्साक्षिकं व्रतं गृहीत्वा इदं कर्म समाप्य य एव कर्मणः पुरा अहमस्मि मनुष्यः स एवास्मि ॥ २८ ॥
म० 'व्रतं विसृजते येनोपेयात्' (का. ३ । ८ । २९ ) इति । व्रतग्रहणे मन्त्रद्वयमुक्तं तयोर्मध्ये येन व्रतादानं कृतं प्रथमेन द्वितीयेन वा । अत्रापि तदनुसारेण व्रतं विसृजेत् । हे अग्ने हे व्रतपते कर्मपालक, व्रतमचारिषं कर्मानुष्ठितवानस्मि तदशकं शकितवान् । त्वत्प्रसादात्तत्कर्मशक्तोऽभवम् । त्वया च तन्मे मदीयं कर्म अराधि साधितम् । द्वितीयो मन्त्रः । हे अग्ने, इदं कर्म समाप्य योऽहं कर्मणः पुरा अस्मि स एव मनुष्योऽस्मि ॥ २८ ॥
इति दर्शपूर्णमासेष्टिमन्त्राः समाप्ताः ॥

एकोनत्रिंशी।
अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वाहा॒ सोमा॑य पितृ॒मते॒ स्वाहा॑ । अप॑हता॒ असु॑रा॒ रक्षाँ॑ᳪसि वेदि॒षद॑: ।। २९ ।।
उ० अतः परं पिण्डपितृयज्ञिया मन्त्राः। प्रजापतेरार्षम् । अग्नौ जुहोति । अग्नये कव्यवाहनायस्वाहा । कवयः क्रान्तदर्शनाः पितरस्तेषां संबन्धि हविः कव्यम् । तद्वोढव्यं यस्यायमधिकारः स कव्यवाहनः । सोमायपितृमतेस्वाहा । पितृमान् पितृसंयुक्तः । वषट्कारेण वा स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयत इति लिङ्गाद्दैवावेतौ मन्त्रौ । उल्लिखति । अपहताः। | अपहताः अस्मात् स्थानात् असुराः रक्षांसि च वेदिषदः वेद्यां सीदन्तीति वेदिषदः ॥ २९ ॥
अतः परं पिण्डपितृयज्ञमन्त्रास्तेषां प्रजापतिर्ऋषिः ॥
म० 'सारतण्डुलमपूर्णᳪ श्रपयित्वाभिघार्योद्वास्य मेक्षणेन | जुहोत्यग्नय इति सोमायेति च' (का० ४ । १ । ७ )। कवयः | क्रान्तदर्शिनः पितरस्तेषां संबन्धि कव्यं हविः । तद्वोढुमधिकारो यस्यास्ति स कव्यवाहनः । तस्मै अग्नये स्वाहा हविर्दत्तम् । पितृमान् पितृसंयुक्तः तस्मै सोमनामकाय देवाय स्वाहा हविर्दत्तम् । स्वाहाकारेण वषट्कारेण वा देवेभ्योऽन्नदानश्रुतेर्दैवाविमौ मन्त्रौ । 'दक्षिणेनोल्लिखत्यपहता इति' ( का० ४ । १। ८) इति वेद्यां सीदन्ति वेदिषदः तादृशा असुराः अपहता वेदिसकाशादपगताः । तथा रक्षांसि वेद्या अपहतानि । | असुरत्वं रक्षस्त्वं चेति जातिविशेषौ देवविरोधिनौ ॥ २९ ॥

त्रिंशी।
ये रू॒पाणि॑ प्रतिमु॒ञ्चमा॑ना॒ असु॑राः॒ सन्त॑: स्व॒धया॒ चर॑न्ति ।
प॒रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टाँल्लो॒कात्प्रणु॑दात्य॒स्मात् ।। ३० ।।
उ० उल्मुकं परस्तात्करोति । ये रूपाणीति त्रिष्टुबाग्नेयी। | ये रूपाणि प्रतिमुञ्चमानाः । ये पितृरूपाणि आत्मनि प्रतिमुञ्चमानाः । प्रतिपूर्वो मुञ्चतिर्बन्धने वर्तते। आत्मनि बध्नन्तः असुराः सन्तो भवन्तः स्वधया पित्र्येणान्नेन हेतुभूतेन अस्मा