पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० उत्तरति । उद्वयम् अनुष्टुप्सौरी । उदः अगन्म । आख्यातेन संबन्धः । उदगन्म उद्गताः स्म वयं तमसस्परि । तमसोधि तमोबहुलादस्माल्लोकात् । स्वः स्वर्गं लोकं पश्यन्तः । उत्तरम् उद्गततरमस्माल्लोकात् । ततोऽपि देवं सूर्यं देवत्रा देवेषु उदगन्म ज्योतिः । उत्तमं सर्वेभ्यो ज्योतिर्भ्यः ॥ २१ ॥
म० 'सोमवदुत्क्रमणमागमनं च' (का० १९ । ५। १७)। सोमवदिति उद्वयमिति मन्त्रेण जलान्निष्क्रमणम् । 'अपाम सोमममृता अभूम' इति जपतां सर्वेषां त्रिपशुदेशमागमनमिति सूत्रार्थः । सूर्यदेवत्यानुष्टुप् प्रस्कण्वदृष्टा । वयं तमसः परि तमसः सकाशात् तमोबहुलादस्माल्लोकात् उदगन्म उद्गता निर्गताः । गमेर्लङि शपि लुप्ते मस्य नः । कीदृशा वयम् । उत्तरमुत्कृष्टतरं स्वः स्वर्गं पश्यन्तः ईक्षमाणाः । किंच देवत्रा देवलोके सूर्यं देवं पश्यन्तः सन्त उत्तमं ज्योतिर्ब्रह्मरूपमुदगन्म प्राप्ताः ॥२१॥

द्वाविंशी।
अ॒पो अ॒द्यान्व॑चारिष॒ᳪ रसे॑न॒ सम॑सृक्ष्महि ।
पय॑स्वानग्न॒ आऽग॑मं॒ तं मा॒ सᳪ सृ॑ज॒ वर्च॑सा प्र॒जया॑ च॒ धने॑न च ।। २२ ।।
उ० आहवनीयमुपतिष्ठते । आपो अद्य पङ्क्तिराग्नेयी। योऽहम् आपः अद्यास्मिन्नहनि अन्वचारिषम् । अनुचरितवानस्मि अनेनावभृथकर्मणा । यश्चाहम् अब्जेन रसेन समसृक्ष्महि संसृष्टवानस्मि । यश्चाहं पयस्वान् उदकवान्सन् । हे अग्ने, आगमम् आगतवानस्मि । तं मामागतवन्तं सन्तम् संसृज वर्चसा प्रजया च धनेन च ॥ २२ ॥
म० 'आहवनीयमुपतिष्ठत आपो अद्येति' (का० १९ । ५।१८)। यजमान आहवनीयमुपतिष्ठते । अग्निदेवत्या पङ्क्तिः । हे अग्ने, तं मां वर्चसा ब्रह्मवर्चसेन प्रजया पुत्रादिकया धनेन सुवर्णादिकेन च त्वं संसृज संयोजय । योऽहमद्य अप अन्वचारिषम् अवभृथकर्मणा जलमनुचरितवानस्मि प्राप्तोऽस्मि । चरतेर्लुङ् । यश्चाहं रसेन जलेन समसृक्ष्महि संसृष्टोऽस्मि । सृजेर्लुङ् वचनव्यत्ययः । यश्चाहं पयस्वानुदकवान्सन् आगममागतवानस्मि । गमेर्लुङि 'पुषादि-' (पा० ३ । १। ५५) इति च्लेरङ् । तं मां वर्चआदिभिर्योजय ॥ २२ ॥

त्रयोविंशी।
एधो॑ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ।
स॒माव॑वर्ति पृथि॒वी समु॒षाः समु॒ सूर्य॑: । समु॒ विश्व॑मि॒दं जग॑त् ।
वै॒श्वा॒न॒रज्यो॑तिर्भूयासं वि॒भून् कामा॒न् व्य॒श्नवै॒ भूः स्वाहा॑ ।। २३ ।।
उ०. समिधमादत्ते । एधोऽसि एधः समिन्धनमस्यग्नेः । एवं चेत् अतस्त्वां समिन्धनमुपादाय एधिषीमहि । आदधाति समिदसि । यतश्च समिन्धनमस्यग्नेः तेजश्चासि अग्नेः । दाह्य संयोगेनाग्निर्ज्वलतीत्येतदभिप्रायम् । अतस्त्वां ब्रवीमि । तेजो मयि धेहि । जुहोति । समाववर्ति गायत्री । यस्मात्समावर्तते नश्वरत्वादियं पृथिवी । यस्माच्च समावर्तते उषाः । । यस्माच्च समावर्तते एवं सूर्यः । यस्माच्च समावर्तते एवं विश्वम् । इदं जगत् जङ्गमादि । अतो वैश्वानरस्य ज्योतिः भूयासम् । 'वैश्वानरः परं ब्रह्म' इत्याहुरौपनिषदिकाः । विभून् कामान् व्यश्नवै प्राप्नुयाम् । भूः भुवनमात्राभिसंबन्धेन सुहुतमस्तु ॥ २३ ॥
म० 'एधोऽसीति समिधमादायाहवनीयेऽभ्यादधाति समिदसीति' ( का० १९ । ५। १९) । यजमानः एधोऽसीति मन्त्रेण समिधं गृहीत्वा समिदसीति मन्त्रेणाग्नौ दधाति । समिद्देवत्ये यजुषी । हे समित्त्वमेधः, एधयति दीपयतीति एधः दीपिकासि । वयं त्वत्प्रसादादेधिषीमहि धनादिभिर्वृद्धिं व्याप्नुयाम । एधतेराशीर्लिङ् । हे समित् , त्वं समिदसि समिन्धयति दीपयतीति समित् तेजश्चासि तत्संयोगेनाग्नेर्ज्वलनात् । अतो मयि विषये तेजो धेहि धारय । 'जुहोति समाववर्तीति' (का० १९ । ५। २०)। यजमानः सकृद्गृहीतमाज्यं कण्डिकाशेषेण जुहोति । समाववर्ति आग्नेयी गायत्री । वैश्वानरज्योतिरिति यजुः आग्नेयम् । पृथिवी समाववर्ति सम्यगावर्तते। विकरणव्यत्ययेन वृतेः शपः श्लुः । नश्यतीत्यर्थः । उषाः दिवसोऽपि समाववर्ति सूर्यः समाववर्ति । उ एवार्थे । विश्वमिदं जगत् समाववर्ति । अतोऽहं वैश्वानरज्योतिः भूयासम् । विश्वेभ्यो नरेभ्यो हितो वैश्वानरः परमात्मा तद्रूपं ज्योतिर्ब्रह्मैव भूयासम् । विभून्महतोऽपि कामान्मनोरथान् व्यश्नवै प्राप्नुयाम् । भूः स्वाहा भुवनं भूः सत्तामात्रं ब्रह्म तस्मै स्वाहा सुहुतमस्तु भूरित्यव्ययम् ॥ २३ ॥

चतुर्विंशी।
अ॒भ्या द॑धामि स॒मिध॒मग्ने॑ व्रतपते॒ त्वयि॑ ।
व्र॒तं च॑ श्र॒द्धां चोपै॑मी॒न्धे त्वा॑ दीक्षि॒तो अ॒हम् ।। २४ ।।
उ० सौत्रामण्यारम्भे यजमान आहवनीये तिस्रः समिधोऽभ्यादधाति तिसृभिरनुष्टुब्भिराग्नेयीभिः। प्रथमा व्रतग्रहणीया । यामेताम् अभ्यादधामि समिधम् हे अग्ने व्रतपते, त्वयि अनया व्रतं च श्रद्धां च उपगच्छामि । ततः इन्धे त्वाम् अहं दीक्षितः सन् ॥ २४ ॥
म० 'अभ्यादधामीति प्रत्युचमाहवनीये तिस्रः समिधोऽभ्यादधाति' ( का० १९ । १ । १२)। सौत्रामण्यादावादि त्येष्टिं समाप्य त्रिपश्वर्थमाहवनीयदक्षिणाग्नी विहृत्याग्न्यन्वाधानं ब्रह्मवरणं च कृत्वाहवनीये यजमानस्तिस्रः समिधः प्रत्यृचमादधाति । अग्निदेवत्यास्तिस्रोऽनुष्टुभः आश्वतराश्विदृष्टाः । हे अग्ने, व्रतपते व्रतस्य कर्मणः पालक, अहं समिधं त्वयि अभ्या