पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पितरः सुप्तं मनुष्यकिल्बिषाञ्चैवैनं पितृकिल्बिषाच्च मुञ्चतु' इति ॥ १६ ॥
म० यदि जाग्रत् । सप्तम्या लुक् । यदि जाग्रति जाग्रदवस्थायाम् यदि स्वप्ने स्वप्नावस्थायामेनांसि वयं चक्रम सूर्यस्तस्मादेनसः विश्वादंहसश्च मां मुञ्चतु । श्रुत्या त्वन्यथा व्याख्यातम् । जाग्रति मनुष्ये यत्पापं कृतं स्वप्ने पितृषु यत्पापं कृतम् तस्मान्मा मुञ्चतु । 'मनुष्या वै जागरितं पितरः सुप्तं मनुष्यकिल्बिषाच्चैवैनं पितृकिल्बिषाच्च मुञ्चन्ति' ( १२ । ९ । २ । २) इति श्रुतेः ॥ १६ ॥ .

सप्तदशी। .
यद्ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॒ये ।
यच्छू॒द्रे यदर्ये॒ यदेन॑श्चकृ॒मा व॒यं यदेक॒स्याधि॒ धर्म॑णि॒ तस्या॑व॒यज॑नमसि ।। १७ ।।
उ० यद्ग्रामे यदरण्ये यत्सभायां यत् इन्द्रिये इन्द्रियविषये । 'देवविषये' इति श्रुतिः । यत् शूद्रे यत् अर्ये । 'अर्यः स्वामिवैश्ययोः' । यच्च एतद्व्यतिरिक्तमेनः चकृम वयम् । यच्च एकस्य आवयोः पत्नीयजमानयोः अधिधर्मणि एनः तस्य एनसः अवयजनमसि । अवपूर्वो यजतिर्नाशने वर्तते । नाशनमसि ॥ १७ ॥
म० लिङ्गोक्तदेवतं यजुः । ग्रामे अरण्ये वने सभायां पक्षपातादि यदेनः इन्द्रिये इन्द्रियविषये परापवादपरनारीदर्शनादि यत् देवविषये वा शूद्रे अर्ये वैश्ये। 'अर्यः स्वामिवैश्ययोः' (पा० ३ । १ । १०३) इति निपातः । यत् पापं वयं चकृम । आवयोः पत्नीयजमानयोरेकस्य अधिधर्मणि कर्मणि अधिकर्मविषये यदेनो धर्मलोपलक्षणम् । तस्यैनसः पापस्यावयजनं नाशनं त्वमसि । नाशकोऽसीत्यर्थः । कुम्भं प्रति वचनम् । अवपूर्वो यजिर्नाशनार्थः ॥ १७ ॥

अष्टादशी।
यदापो॑ अ॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च । अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः ।
अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽय॒क्ष्यव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि ।। १८ ।।
उ० यदापः व्याख्यातः। अवभृथनिचुम्पुण व्याख्यातः। इयांस्तु विशेषः । अयक्षीति यजतेरिह रूपम् । पूर्ववच्च क्रतुयागे अयाजिषमिति ॥ १८ ॥
म० यदापः । व्याख्यातम् (अ० ६।क० २२ ) 'पूर्ववन्मज्जनम्' ( का. १९ । ५। १४)। पूर्ववदिति अवभृथेत्यादि ओषधीरुताप इत्यन्तेन (१९) सुराकुम्भस्य जले मज्जनम् । अवभृथ । व्याख्यातम् ( अ० ३ । क० ४८ । अ० ८ । क. २५) इयान्विशेषः । अयक्षि अवायक्षि नाशितवानस्मि यजेर्लुङ्गि तङि उत्तमैकवचने रूपम् । पूर्वत्र अयासिषमिति । सुमित्रिया न इत्यपोऽञ्जलिदानाय दुर्मित्रिया इति
द्वेष्यं परिषिञ्चति द्वौ विक्रमा उदङ्गत्वा' ( का. १९ । ५। । १५)। यजमानोऽवभृथप्रदेशात् द्वौ विक्रमौ उदीच्यां गत्वा सुमित्रिया इति जलाञ्जलिमादाय यस्यां दिशि रिपुस्तां प्रति सिञ्चतीति सूत्रार्थः । सुमित्रिया नः । व्याख्यातम् ( अ० ६ । क० २२ ) ॥ १८ ॥ १९ ॥

एकोनविंशी। ।
स॑मु॒द्रे ते॒ हृद॑यम॒प्स्वन्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताप॑: ।
सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ।। १९ ।।
उ० समुद्रे ते । द्विपदा विराट् । सुमित्रिया न इत्यपोऽञ्जलिना आदाय दुर्मित्रिया इति द्वेष्यंप्रति सिञ्चति ॥ १९॥

विंशी।
द्रु॒प॒दादि॑व मुमुचा॒नः स्वि॒न्नः स्ना॒तो मला॑दिव । पू॒तं प॒वित्रे॑णे॒वाज्य॒माप॑: शुन्धन्तु मैन॑सः ।। २० ।।
उ० द्रुपदादिव । अनुष्टुप् अब्देवत्या वा सोपप्लवनीया । द्रुममयः पदः द्रुपदः पादुका उच्यन्ते । तथाच यास्कः 'कनीनकेव विद्रधे नवे द्रुपदे' इति । मुमुचानः यथा द्रुममयात्पादात् मुच्यमानः पुरुषः तज्जैर्दोषैः असंबध्यमानः पृथग्भवेत् । यथाच स्विन्नः प्रस्विन्नः पुरुषः स्नातः मलात्पृथग्भवेत् । प्रस्विन्नस्य हि कृत्स्नो मल उपैति । यथाच पूतं पवित्रेण कम्बलमयेन आज्यं घृतं पृथग्भवेत् कीटिकातः एवमापः शुन्धन्तु पृथक्कुर्वन्तु मामेनसः पापात्सकाशात् ॥२०॥
म० 'अवभृथवत्स्नात्वा वा सोपासनं द्रुपदादिवेति' ( का. १९ । ५। १६)। जलस्थावेव जायापती सौमिकावभृथवत् स्नात्वा कर्मकाले धृतं वासोऽप्सु क्षिपतः अब्देवत्यानुष्टुप् । आपो जलानि एनसः पापात् मा मां शुन्धन्तु पुनन्तु पापात् पृथक् कुर्वन्तु । तत्र दृष्टान्तत्रयमाह द्रुपदादिवेति 'पलाशीद्रुद्रुमागमाः' इत्यभिधानोक्तेः ( अम० २ । ४ । ५) दुस्तरुः | तन्मयं पदं द्रुपदं पादुका तस्मान्मुमुचानः पृथग्भवन् यथा पादुकादोषैरसंबद्धो भवति । मुचेर्विकरणव्यत्ययेन शानचि जुहोत्यादित्वाद्द्वित्वे मुमुचान इति रूपम् । यथाच स्विन्नः स्वेदयुक्तः स्नातः सन् मलात् पृथग्भवति । आज्यमिव यथा पवित्रेण कम्बलमयेन पूतं गालितमाज्यं घृतं कीटेभ्यः पृथग्भवति । तथापो मां शुन्धन्तु ॥ २० ॥

एकविंशी ।
उद्व॒यं तम॑स॒स्परि॒ स्व: पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ।। २१ ।।