पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिगुणा इत्यर्थः । ते च कतीति स्वयमेवाह त्रयस्त्रिंशाः तिसृभिरधिका त्रिंशत्संख्या येषां ते । त्रयस्त्रिंशत्संख्या इत्यर्थः । सुराधसः शोभनं राधो येषां ते । राध इति धननाम । 'राध्नुवन्त्यनेन' ( नि. ४ । ४ ) इति यास्कोक्तेः । तथा बृहस्पतिपुरोहिताः बृहस्पतिः पुरोहितो येषां ते । तथा सवितुः देवस्य सवे आज्ञायां वर्तमानाः । देवाः दीप्यमानाः ॥ ११ ॥

द्वादशी।
प्र॒थ॒मा द्वि॒तीयै॑र्द्वि॒तीया॑स्तृ॒तीयै॑स्तृ॒तीया॑: स॒त्येन॑ स॒त्यं य॒ज्ञेन॑ य॒ज्ञो यजु॑र्भि॒र्यजू॑ᳪषि॒ साम॑भि॒: सामा॑न्यृ॒ग्भिर्ऋच॑: पुरोऽनुवा॒क्या॒भिः पुरोऽनुवा॒क्या॒ या॒ज्या॒भिर्या॒ज्या॒ वषट्का॒रैर्व॑षट्का॒रा आहु॑तिभि॒राहु॑तयो मे॒ कामा॒न्त्सम॑र्धयन्तु॒ भूः स्वाहा॑ ।। १२ ।।
उ० कथमवन्तु । प्रथमा देवाः द्वितीयैः सहिता अवन्तु । द्वितीयाः तृतीयैः तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिः यजूंषि सामभिः सामानि ऋग्भिः ऋचः पुरोनुवाक्याभिः पुरोनुवाक्या याज्याभिः याज्या वषट्कारैः वषट्कारा आहुतिभिः । एवमेकादशसंख्यैः त्रिप्रकारैर्देवैरुत्तरोत्तरपालिता आहुतयः मे कामान्समर्धयन्तु संवर्धयन्तु । भूयः सुहुतमस्तु ॥ १२ ॥
म० कथमवन्तु तत्राह । विश्वदेवदेवत्यमाशीर्लिङ्गं यजुः प्रकृतिश्छन्दः । प्रथमा देवा द्वितीयैः सहिता मामवन्तु द्वितीयास्तृतीयैः सहावन्तु तृतीयाः सत्येन सह सत्यं यज्ञेन सह यज्ञो यजुर्भिः सह यजूंषि सामभिः सह सामान्यृग्भिः सह ऋचः पुरोनुवाक्याभिः सह पुरोनुवाक्या याज्याभिः सह याज्या वषट्कारैः सह वषट्कारा आहुतिभिः सह एवं त्रिप्रकारैरेकादशसंख्यैर्देवैरुत्तरोत्तरं पालिता आहुतयो मे मम कामानभिलाषान् समर्धयन्तु पूरयन्तु । भूः भुवनं भूः हुतमिदं स्वाहा सुहुतमस्तु ॥ १२ ॥

त्रयोदशी ।
लोमा॑नि॒ प्रय॑ति॒र्मम॒ त्वङ्म॒ आन॑ति॒राग॑तिः । मा॒ᳪसं म॒ उप॑नति॒र्वस्वस्थि॑ म॒ज्जा म॒ आन॑तिः ।। १३ ।।
उ० यजमानो ग्रहान् भक्षयति । लोमानि प्रयतिः । अनुष्टुप् । मम यानि लोमानि तानि प्रयतिर्वर्तते । प्रयतिः प्रयत्नः । त्वक् मे आनतिर्वर्तते आनयनमानतिः । त्वगेव सर्वाणि भूतानि मम आनतानीत्यभिप्रायः । आगतिश्च द्रव्यादिर्मांसं मे उपनतिर्वर्तते । उपनमन्ते हि मम भूतानि । वसु धनानि अस्थि मम वर्तते । मज्जा मे आनतिः ॥ १३॥
म० 'प्रत्यक्षभक्षं यजमानो लोमानि प्रयतिरिति' ( का. १९ । ५। १०)। यजमानो ग्रहशेषं प्रत्यक्षमुपहवपूर्वकं भक्षयति । लोमत्वगादिदेवतानुष्टुप् । मम लोमानि प्रयतिः प्रयतनं प्रयतिः प्रयत्नो वर्तते तथोद्यामी (?) यथा लोमस्वपि प्रयत्नः। मे मम त्वङ् आनतिः आगतिश्च आनमन्ति भूतानि यस्यां सा आनतिः। आगच्छन्ति भूतानि यां प्रति सा आगतिः । मदीयां त्वचं दृष्ट्वा भूतान्यागच्छन्ति नमन्ति चेत्यर्थः । मे मम मांसमुपनतिः उपनमन्ति भूतानि यत्र । ममास्थि वसु धनं धनरूपमेव । मे मज्जा आनतिः आनमन्ति भूतानि यत्र उपलक्षणमेतत् । मम सप्त धातवो जगद्वशीकरणसमर्था इत्यर्थः ॥ १३ ॥

चतुर्दशी।
यद्दे॑वा देव॒हेड॑नं॒ देवा॑सश्चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वᳪह॑सः ।। १४ ।।
उ० इत उत्तरमवभृथः मासरकुम्भं प्लावयति । यद्देवाः तिस्रोऽनुष्टुभोऽग्निदेवत्याः । देवाः देवासः द्वे आमन्त्रिते त्रिस्थानानपि देवान् बोधयति । यत्किंचित् हे देवाः हे देवासः, देवहेडनं चकृम कृतवन्तो वयम् । अग्निर्मा माम् तस्मात् एनसः पापात् विश्वात्सर्वस्मात् मुञ्चतु । अंहसश्च पापात् ॥ १४ ॥
म० इत उत्तरमवभृथः । 'मासरकुम्भं प्लावयति यद्देवा इति' ( १९ । ५ । १३) । अवभृथेष्टिं कृत्वा यद्देवा इत्यादिना वरुण नो मुञ्चेत्यन्तेन (१८) सार्धकण्डिकाचतुष्कात्मकेन मन्त्रेण मासरकुम्भं जले तारयति । अग्निवायुसूर्यदेवत्यास्तिस्रोऽनुष्टुभः कूष्माण्डीसंज्ञाः । दीव्यन्तीति देवाः दीप्यमाना हे देवासो देवाः, वयं यद्देवहेडनं देवानां हेडनमपराधं चकृम कृतवन्तः । करोतेर्लिट् संहितायां छान्दसो दीर्घः । अग्निस्तस्मादेनसः पापात् मा मां मुञ्चतु पृथक्करोतु । विश्वात् विश्वस्मात्सर्वस्मात् अंहसः विघ्नाच्च मुञ्चतु । ङसेः स्मादभाव आर्षः ॥ १४ ॥

पञ्चदशी ।
यदि दिवा यदि नक्तमेनाᳪसि चकृमा वयम् ।
वायुर्मा तस्मादेनसो विश्वान्मुञ्चत्वᳪहसः ॥ १५ ॥
उ० यदि दिवा । यदि दिवा अहनि च रात्रौ एनांसि पापानि चकृम कृतवन्तो वयम् । वायुः मां तस्मात् एनसः विश्वात् मुञ्चतु अंहसः॥ १५॥
म० यदि चेत् दिवा अहनि यदि नक्तं रात्रौ वयमेनांसि पापानि चकृम । वायुः तस्मादेनसः विश्वस्मादंहसश्च मां मुञ्चतु ॥ १५॥

षोडशी।
यदि॒ जाग्र॒द्यदि॒ स्वप्न॒ एना॑ᳪसि चकृ॒मा व॒यम् । सूर्यो॑ मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वᳪह॑सः ।। १६ ।।
उ० यदि जाग्रत् । यदि जाग्रदवस्थायाम् यदि स्वप्नावस्थायाम् एनांसीति समानव्याख्यानम् । सूर्य इति विशेषः । श्रुतिस्तु लक्षणया व्याचष्टे । 'मनुष्या वै जागरितं