पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० बाहू मे । बाहू मे बलमिन्द्रियं च वर्तते । हस्तौ मे कर्म च वीर्यं वर्तते । आत्मा अन्तरात्मा क्षत्रं वर्तते उरश्च मम ॥ ७॥
म० मे बाहू बलमस्तु बलवन्तौ स्तामित्यर्थः । इन्द्रियं च बलं स्वकार्यक्षममस्तु । मे हस्तौ कर्म चास्तु सत्कर्मकुशलौ सामर्थ्यवन्तौ च स्तामित्यर्थः । मम आत्मा अन्तरात्मा उरो हृदयं च क्षत्रं क्षतात्त्राणकरमस्तु ॥ ७ ॥

अष्टमी।
पृ॒ष्ठीर्मे॑ रा॒ष्ट्रमु॒दर॒मᳪसौ॑ ग्री॒वाश्च॒ श्रोणी॑ । ऊ॒रू अ॑र॒त्नी जानु॑नी॒ विशो॒ मेऽङ्गा॑नि स॒र्वत॑: ।। ८ ।।
उ० पृष्टीर्मे पृष्ठदेशो मे राष्ट्रं वर्तते । उदरं च अंसौ ग्रीवा च श्रोणी च ऊरू च अरत्नी च जानुनी च विशो मे वर्तते । अन्यान्यप्यङ्गानि यानि सर्वतः ॥ ८॥
म० मे मम पृष्टीः पृष्ठप्रदेशो राष्ट्रं देशो देशवत्सर्वाधारमस्तु । मे मम उदरमंसौ स्कन्धौ ग्रीवाः कण्ठदेशाः श्रोणी कटिदेशौ ऊरू सक्थिनी अरत्नी हस्तदेशौ जानुनी च सर्वतोऽन्यान्यङ्गानि च विशः प्रजाः सन्तु प्रजावत् पोष्याः सन्तु ॥८॥

नवमी।
नाभि॑र्मे चि॒त्तं वि॒ज्ञानं॑ पा॒युर्मेऽप॑चितिर्भ॒सत् । आ॒न॒न्द॒न॒न्दावा॒ण्डौ मे॒ भग॒: सौभा॑ग्यं॒ पस॑: ।
जङ्घा॑भ्यां प॒द्भ्यां धर्मो॑ऽस्मि वि॒शि राजा॒ प्रति॑ष्ठितः ।।९ ।।
उ० नाभिर्मे । नाभिर्मे चित्तं विज्ञानं च वर्तते । चित्तविज्ञानयोः को विशेष इति चेत् । विज्ञानं विज्ञप्तिः तज्जः संस्कारश्चित्तम् । पायुर्मे अपचितिर्भसच्च वर्तते । पायुर्गुदप्रदेशः । अपचितिः पूजा । भसत्शब्देन स्त्रीप्रजननं गौडा आहुः । नच यजमानस्यैतद्भवति । अतः पत्नीविषयमेतत् । आनन्दनन्दौ आण्डौ मे वर्तेते । भगः सौभाग्यं पसो मे वर्तते । भगः महदैश्वर्यम् । 'पसः पसतेः स्पृशतिकर्मणः' इति शिश्नमुच्यते । जङ्घाभ्यां पद्भ्यां च धर्मोऽस्मि । धर्मंप्रति हि राजा भवति । विशि प्रतिष्ठितोऽस्मि ॥ ९॥
म० मे नाभिः चित्तं ज्ञानरूपमस्तु । पायुर्मे गुदेन्द्रियं विज्ञानं ज्ञानजनितसंस्काराधारमस्तु । भसत् स्त्रीप्रजननमपचितिः प्रजारूपमस्तु सुभगमस्तु । यजमानपत्नीविषयमेतत् । मे आण्डौ वृषणौ आनन्दनन्दौ स्तामानन्देन संभोगजनितसुखेन नन्दतस्तौ । तत्सुखभोक्तारौ भवतामित्यर्थः । 'पसः पसतेः। स्पृशतिकर्मणः' इति यास्कोक्तेः पसो लिङ्गं भगः सौभाग्यं चास्तु । भग ऐश्वर्यं सौभाग्यं संपत्तिः । सर्वदा भोगासक्तमस्त्वित्यर्थः । जङ्घाभ्यां पद्भ्यां चाहं धर्मोऽस्मि । उपलक्षणमेतत् सर्वाङ्गैर्धर्मरूपोऽस्मि । धर्मरूपत्वादेव विशि प्रजायां राजा प्रतिष्ठितोऽस्मि । धर्मप्रतिष्ठितो हि राजा भवति ॥ ९ ॥

दशमी।
प्रति॑ क्ष॒त्रे प्रति॑ तिष्ठामि रा॒ष्ट्रे प्रत्यश्वे॑षु॒ प्रति॑ तिष्ठामि॒ गोषु॑ ।
प्रत्यङ्गे॑षु॒ प्रति॑ तिष्ठाम्या॒त्मन् प्रति॑ प्रा॒णेषु॒ प्रति॑तिष्ठामि पु॒ष्टे प्रति॒ द्यावा॑पृथि॒व्योः प्रति॑ तिष्ठामि य॒ज्ञे।। १ ०।।

उ० कृष्णाजिनेऽवरोहति प्रतिक्षत्रमिति यजुषा । प्रतितिष्ठामि क्षत्रे प्रतितिष्ठामि राष्ट्रे प्रतितिष्ठामि च अश्वेषु प्रतितिष्ठामि गोषु प्रतितिष्ठामि च । अङ्गेषु प्रतितिष्ठामि च आत्मनि प्रतितिष्ठामि च प्राणेषु प्रतितिष्ठामि च पुष्टे प्रतितिष्ठामि च द्यावापृथिव्योः प्रतितिष्ठामि च यज्ञे ॥ १० ॥
म० 'कृष्णाजिनेऽवरोहति प्रति क्षत्र इति' ( का० १९ । ४ । २३ )। आसन्दीतो यजमानः कृष्णाजिनेऽवतरति । विश्वदेवदेवत्यं यजुः अतिशक्करी । अहं क्षत्रे प्रतितिष्ठामि क्षत्रियजातौ प्रतिष्ठायुक्तो भवामि । राष्ट्रे देशे अश्वेषु गोषु अङ्गेषु करपादाद्यवयवेषु आत्मन् आत्मनि चित्ते प्राणेषु पञ्चसु पुष्टे पुष्टौ समृद्धौ द्यावापृथिव्योः स्वर्गेहलोकयोः यज्ञे ज्योतिष्टोमादौ च प्रतितिष्ठामि । क्रियापदावृत्तिः फलातिशयद्योतनार्था । क्षत्रियदेशयोः प्रतिष्ठा वशीकरणम् गोऽश्वप्रतिष्ठा तत्प्राप्तिः प्राणाङ्गप्रतिष्ठा नीरोगत्वम् आत्मप्रतिष्ठा निराधित्वम् पुष्टप्रतिष्ठा धनसमृद्धिः द्यावापृथिव्योः प्रतिष्ठोभयलोककीर्तिः यज्ञे प्रतिष्ठा यज्ञकरणम् । वश्यविश्वः पशुमान्निराधिव्याधिः श्रीमान् यज्ञकर्ता च भवेयमिति भावः ॥ १० ॥

एकादशी।
त्र॒या दे॒वा एका॑दश त्रयस्त्रि॒ᳪशाः सु॒राध॑सः ।
बृह॒स्पति॑पुरोहिता दे॒वस्य॑ सवि॒तुः स॒वे । दे॒वा दे॒वैर॑वन्तु मा ।। ११ ।।
उ० या देवा इति अस्त्रान्ते जुहोति । पङ्क्त्या त्र्यवसानया दैव्या । परेण यजुषा स्वाहाकारान्तेन च । व्यवहितपदप्रायः । ये एकदेशदेवाः त्रयः त्रिप्रकाराः येच एकीकृताः त्रयस्त्रिंशाः त्रयस्त्रिंशत्संपद्यन्ते । सुराधसः शोभनधनाः । राधइति धननाम । राध्नुवन्त्यनेन । येच बृहस्पतिपुरोहिताः ते देवस्य सवितुः सवे प्रसवे वर्तमानाः । देवा देवैर्वक्ष्यमाणैः सह अवन्तु पालयन्तु माम् ॥ ११ ॥
म० 'त्रया देवा इति शस्त्रान्ते जुहोति' (का० १९ । ५। ८)। शस्त्रसमाप्तौ वषट्कृते त्रया इति कण्डिकाद्वयात्मकेन मन्त्रेण त्रयस्त्रिंशं वसाग्रहं जुहोति । त्र्यवसाना विश्वदेवदेवत्या पङ्क्तिः । एकादश देवा देवैः वक्ष्यमाणैः सह मा मामवन्तु रक्षन्तु । कीदृशाः । त्रयाः त्रयोऽवयवा येषां ते 'संख्याया अवयवे तयप्' (पा० ५। २। ४२) 'द्वित्रिभ्यां तयस्यायज्वा' (पा० ५। २ । ४३) इत्ययजादेशः । एकादश