पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रतिमन्त्रम्' ( का० १९ । ४ । १४)। वेतसमात्रस्थापितैर्वसाग्रहशेषैः प्रतिदिशं स्थितोऽध्वर्युरा मुखादवस्रावयन्नासन्दीस्थं यजमानमभिषिञ्चति मन्त्रत्रयेण । कीदृशम् । सर्वैः सुरभिभिश्चन्दनकर्पूरकस्तूरीकेसरादिभिरुद्वर्तितम् । सावित्रं यजुर्देवस्य त्वेति सर्वत्र त्रिष्वपि मन्त्रेष्वन्वेति । चतुर्थोऽभिषेक उत्तरे स्थितस्त्रिभिर्मन्त्रैर्महाव्याहृतिभिरिन्द्रस्येति तृतीयमन्त्रेण वा. कुर्यादिति सूत्रार्थः । देवस्य त्वा । व्याख्यातम् । अश्विनोः । त्रीणि लिङ्गोक्तदेवतानि । आद्यं प्राजापत्या बृहती द्वे ऋग्गायत्र्यौ । हे यजमान, अश्विनोः भैषज्येन वैद्यकर्मणा त्वामभिषिञ्चामि । भिषजः कर्म भैषज्यम् । किमर्थं । तेजसे कान्त्यै ब्रह्मवर्चसाय । सर्वत्रास्खलितवेदवेदाङ्गजनिता कीर्तिर्ब्रह्मवर्चसम् । सरस्वत्यै भैषज्येन । षष्ठ्यर्थे चतुर्थी । सरस्वत्या भिषक्कर्मणा च भवन्तं देवमभिषिञ्चामि । किमर्थं । वीर्यायान्नाद्याय । वीर्यं सामर्थ्यं अन्नाद्यमन्नभक्षणसामर्थ्यं तस्मै । इन्द्रस्येन्द्रियेण इन्द्रियपाटवेन सामर्थ्येन च त्वामभिषिञ्चामि । किमर्थं बलाय सामर्थ्याय श्रियै सर्वसमृद्ध्यै यशसे कीर्त्यै ॥ ३ ॥

चतुर्थी।
को॑ऽसि कत॒मो॒ऽसि॒ कस्मै॑ त्वा॒ काय॑ त्वा । सुश्लो॑क॒ सुम॑ङ्गल॒ सत्य॑राजन् ।। ४ ।।
उ० यजमानमालभते । कोऽसि । गायत्री । कः प्रजापतिरसि । कतमः प्रजापतितमः असि । अतिशयार्थं तमउपादानम् । बहवो हि प्रजापतयः । कस्मै । प्रजापतिपदप्राप्तये त्वाममिषिक्तवानहं । यतः काय त्वा प्रजापतिभवाय त्वामहमभिषिक्तवानस्मि यतः । 'सुश्लोकेत्यलब्धो ह्वयति। हे कल्याणमङ्गल, हे सत्यराजन्, सत्यः अनश्वरः राजा यस्य ४
म० 'यजमानमालभते कोऽसीति । अध्वर्युर्यजमानं स्पृशति' (का० १९ । ४ । १९)। प्राजापत्या गायत्री उष्णिग्गर्भा षट्सप्तैकादशोष्णिग्गर्भेति वचनात् । हे यजमान, त्वं कः प्रजापतिः असि । अत्यन्तं कः कतमः श्रेष्ठः प्रजापतिरसि । प्रजापतयो बहवः तत्रोत्तमोऽसि । कस्मै प्रजापतिपदप्राप्तये त्वामहममिषिक्तवानिति शेषः । काय प्रजापतिभवाय चाभिषिक्तवान् । 'सुश्लोकेत्यालब्धो ह्वयति' (का० १९ । ४ । २०)। अध्वर्युणा स्पृष्टो यजमानः सुश्लोकादिसंज्ञान्नरानाह्वयति । हे.सुश्लोक, एहीति शेषः । शोभनः श्लोकः कीर्तिर्यस्य । शोभनं मङ्गलमुदयो यस्य स सुमङ्गलः । हे सुमङ्गल, त्वमेहि । हे सत्यराजन्, एहि सत्योऽविनाशी राजा प्रभुर्यस्य सः ॥ ४ ॥

पञ्चमी।
शिरो॑ मे॒ श्रीर्यशो॒ मुखं॒ त्विषि॒: केशा॑श्च॒ श्मश्रू॑णि । राजा॑ मे प्रा॒णो अ॒मृत॑ᳪ स॒म्राट् चक्षु॑र्वि॒राट् श्रोत्र॑म् ।। ५ ।।
उ० अङ्गानि चालभते यथालिङ्गम् । शिरो मे पञ्चभिः । तृतीया गायत्री अन्त्या महापङ्क्तिस्त्र्यवसाना अनुष्टुभोऽन्याः। इन्द्रोऽभिषक्त आत्मानं राष्ट्रीभूतं पश्यन्नाह । शिरो मे श्रीर्वर्तते । यशो मुखं वर्तते । त्विषिर्दीप्तिः केशाश्च श्मश्रूणि च वर्तन्ते । राजा प्राणः मे अमृतं वर्तते । संगतं राज्यंः यत्र स सम्राट् चक्षुर्वर्तते । विराट् श्रोत्रं वर्तते । विराट्प्रथमशरीरी ॥५॥
म० 'अङ्गानि चालभते यथालिङ्गᳪ शिरो म इति प्रतिमन्त्रम्' (का० १९ । ४ । २१)। यजमानो यथालिङ्गमङ्गान्यालभते । इन्द्रशरीरावयवदेवताकं पञ्चर्चम् । तत्र तृतीया गायत्री अन्त्या त्र्यवसाना महापङ्क्तिः तिस्रोऽनुष्टुभः । अभिषिक्तो यजमान इन्द्ररूप आत्मानं सर्वात्मकं पश्यन्नाह । हे मम शिरः, श्रीः शोभास्तु वर्तते वा । मे मुखं यशोऽस्तु । केशाः श्मश्रूणि मुखलोमानि च विषिर्दीप्तिरस्तु । राजा दीप्यमानो मे मम प्राणो मुखवायुरमृतमस्तु । चक्षुरिन्द्रियं सम्राट् अस्तु । सम्यक् राजते सम्राट् । श्रोत्रमिन्द्रियं विराट् विविधं राजमानमस्तु ॥५॥

षष्ठी।
जि॒ह्वा मे॑ भ॒द्रं वाङ्महो॒ मनो॑ म॒न्युः स्व॒राड् भाम॑: । मोदा॑: प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि मि॒त्रं मे॒ सह॑: ।। ६ ।।
उ० जिह्वा मे । जिह्वा मे भद्रं वर्तते । वाक् महः वर्तते पूजाकारिणी वर्तते । मनः मन्युर्वर्तते मनः क्रोधफलदायि वर्तते । भामः क्रोधः स्वराज्यक्षमो वर्तते। उक्तं च 'शक्तिरहितोऽपि कुप्यति मानं चोद्वहति सेवकजनोऽपि । अर्थरहितोऽपि कामी जानाति विधिं विडम्बयितुम्' इति । मोदाः प्रमोदा अङ्गुलयः अङ्गानि च मम वर्तन्ते । मित्रं मे सहः मित्रबलं च मे सहः शत्रूणामभिभवितृ वर्तते ॥ ६ ॥
म० मे जिह्वा रसनेन्द्रियं भद्रं कल्याणरूपमस्तु । वाक् वागिन्द्रियं महः मह्यते पूज्यते महः पूज्यमानास्तु । महतेरसुन्प्रत्ययः । मनो मन्युः क्रोधरूपमस्तु क्रोधफलं ददातु । भामः क्रोधः स्वराट् स्वेनैव राजमानोऽस्तु नतु कुतश्चित्प्रतिहन्यतामित्यर्थः । तदुक्तम् ‘शक्तिरहितोऽपि कुप्यति मानं चोद्वहति सेवकजनोऽपि । अर्थरहितोऽपि कामी जानाति विधिं विडम्बयितुम्' इति । अङ्गुलयो मोदाः आनन्दरूपाः सन्तु । मोदन्ते ते मोदाः पचाद्यच् । अङ्गानि प्रमोदाः प्रकृष्टहर्षाः सन्तु । मे मम मित्रं सहः अस्तु । सहते अभिभवति शत्रुमिति सहः रिपुनाशकमस्तु ॥ ६ ॥

सप्तमी।
बा॒हू मे॒ बल॑मिन्द्रि॒यᳪ हस्तौ॑ मे॒ कर्म॑ वी॒र्य॒म् । आ॒त्मा क्ष॒त्रमुरो॒ मम॑ ।। ७ ।।

.