पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति माध्यन्दिनीयायां वाजसनेयसंहितायां ऊनविंशोऽध्यायः ॥ १९ ॥

उ० तेजः पशूनाम् । तेजः पशूनामुपादाय हविश्च इन्द्रियवत् वीर्यवत् उपादाय । परिस्रुता हविर्भूतया । पयसा हविर्भूतेन सारघमिव मधु । अश्विभ्यां दुग्धम् । सरघाः भ्रमराः ते यथा अद्भ्यः ओषधीभ्यश्च रसमादाय दुहन्ति एवमेतेभ्यो द्रव्येभ्यः अश्विभ्यां दुग्धं सौत्रामणीलक्षणम् । कथंभूताभ्याम् । भिषजा भिषग्भ्याम् सरस्वत्या च । किंच सुता सुताभ्यां परिस्रुत्पयोभ्यां सकाशात् अमृतः सोमः इन्दुः दुग्धे। एवं यैः सौत्रामणी दृष्टा तेभ्यः ऋषिभ्यो नमोऽश्विभ्यां च सरस्वत्यै च । एवमियमृषिश्रुतिः ॥ ९५ ॥
इति उवटकृतौ मन्त्रभाष्ये एकोनविंशतितमोऽध्यायः ॥१९॥
म० भिषजा भिषग्भ्यामश्विभ्यां सरस्वत्या च इन्द्रियावत् इन्द्रियवत् वीर्यवत् पशूनां संबन्धि हविरादाय परिस्रुता पयसा च सह सारघं मधु चादाय इन्द्रार्थे तेजो दुग्धं स्रावितम् । सुतासुताभ्यां परिस्रुत्पयोभ्यां सकाशात् अमृतोऽमृतरूपः इन्दुरैश्वर्यप्रदः सोमश्च दुग्धः । एवं यैः सरस्वत्यश्विभिरिन्द्राय नानाद्रव्येभ्यो नानारसानादायोपकारः कृतः तेभ्यः सौत्रामणीद्रष्टृभ्यो नमः ॥ ९५ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
सुगदीन्द्राभिषेकान्तोऽध्यायो नवदशोऽगमत् ॥ १९ ॥

विंशोऽध्यायः।
तत्र प्रथमा।
क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑रसि । मा त्वा॑ हिᳪसी॒न्मा मा॑ हिᳪसीः ।। १ ।।
उ० क्षत्रस्य योनिरसि । गायत्री । आसन्दीवेद्योरुपदधाति अर्धर्चेन । क्षत्रस्य त्वं योनिरुत्पत्तिस्थानमसि । आसन्द्यामभिषिक्तो हि गुणधर्मानर्हति राजेत्येतदभिप्रायं योनित्वम् । क्षत्रस्य नाभिश्च नहनं त्वमसि । कृष्णाजिनमस्यामास्तृणाति । मा त्वा हिंसीत् । कृष्णाजिनमुच्यते। मा त्वामियमासन्दी हिंसीत् । मा च त्वं मां हिंसीः। यज्ञाध्यासोऽत्र कृष्णाजिनस्य । 'यज्ञो वै कृष्णाजिनं यज्ञस्य चैवात्मनश्च हिंसायाः' इति श्रुतिः ॥ १॥
म० 'सोमासन्दीवदासन्दीं जानुमात्रपदीं वेद्योर्निदधाति क्षत्रस्य योनिरिति' ( का० १९ । ४ । ८) । जानुप्रमाणपादामासन्दीं वेद्योर्मध्ये निदधाति सोमासन्दीवदिति मुञ्जरज्जुव्युताम्। आसन्द्या द्वौ पादौ दक्षिणवेदौ द्वावुत्तरवेदौ यथा तथेति सूत्रार्थः । आसन्दीदेवताका द्विपदा गायत्री। हे आसन्दि, त्वं क्षत्रस्य योनिरुत्पत्तिस्थानमसि । आसन्द्यामभिषिक्तो गुणधर्मानर्हति राजेति भावः । क्षत्रस्य नाभिर्नहनं बन्धनं चासि 'कृष्णाजिनमस्यामास्तृणाति मा त्वेति' ( का० १९ । ४ । ८)। अस्यामासन्द्यां कृष्णाजिनं छादयेदित्यर्थः । यजुः कृष्णाजिनदेवत्यम् । प्राजापत्या गायत्री । यज्ञाध्यासेन कृष्णाजिनं प्रार्थ्यते । हे कृष्णाजिन, आसन्दी त्वा त्वां मा हिंसीः । त्वं च मा मां मा हिंसीः मा जहि । 'यज्ञो वै कृष्णाजिनं यज्ञस्य चैवात्मनश्च हिंसायै' (१२ । ८ । ३ । ९) इति श्रुतेः ॥ १॥

द्वितीया।
निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्यास्वा । साम्रा॑ज्याय सु॒क्रतु॑: । मृ॒त्योः पा॑हि वि॒द्योत्पा॑हि ।। २ ।।
उ० आसन्द्यामुपविशति । निषसादेति व्याख्यातम् । पादयो रुक्ममुपन्यस्यति । मृत्योः पाहि गोपाय । मृत्युशब्देनात्राशनिरुच्यते । विद्योत्पाहि विद्युतः पाहि ॥२॥
म० तस्मिन्नास्ते यजमानो निषसादेति' (का० १९ । ४।९) । यजमानः कृष्णाजिने उपविशेत् । व्याख्याता (अ० १० क. २७) । 'पादयो रुक्ममुपन्यस्यति राजतᳪ सव्ये मृत्योरिति सौवर्णᳪ शिरस्येके विद्योदिति' ( का० १९ । ४।१०-११)। आसन्द्युपविष्टयजमानस्य पादयोरधो रुक्मौ मण्डलाकारौ भूषणविशेषौ न्यस्यति राजतं सव्ये मृत्योरिति मन्त्रेण सौवर्णं दधे विद्योदिति सौवर्णं रुक्मं शिरसीत्येके ऊचुरिति सूत्रार्थः । रुक्मदेवत्ये यजुषी दैव्यौ बृहत्यौ । हे रुक्म, मृत्योः अकालमरणान्मां पाहि रक्ष । हे सौवर्ण रुक्म विद्योत् विद्योतत इति विद्योत् । विच्प्रत्यये गुणः । विद्युत्पाताद्रक्षेत्यर्थः ॥२॥

तृतीया।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
अ॒श्विनोर्भैष॑ज्येन॒ तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि॒ सर॑स्वत्यै॒ भैष॑ज्येन वी॒र्या॒या॒न्नाद्या॑या॒भि षि॑ञ्चा॒मीन्द्र॑स्येन्द्रि॒येण॒ बला॑य श्रियै॒ यश॑से॒ऽभिषि॑ञ्चामि ।। ३ ।।
उ० अभिषिञ्चति । देवस्य त्वेति व्याख्यातम् । अश्विनोर्भैषज्येन । भिषजः कर्म भैषज्यम् । भिषग्वैद्यः । तेन भैषज्येनाभिषिञ्चामीति संबन्धः । किमर्थमित्यत आह । तेजसे ब्रह्मवर्चसाय च । सरस्वत्यै भैषज्येन वीर्याय अन्नाद्याय अभिषिञ्चामि । सरस्वत्यै इति षष्ठ्यर्थे चतुर्थी । इन्द्रस्य इन्द्रियेण वीर्येण । बलाय श्रियै यशसे च सर्वार्थायाभिषिञ्चामि ॥ ३॥
म० 'सर्वसुरभ्युन्मृदितᳪ शेषैरभिषिञ्चत्या मुखादवस्रावयन् प्रतिदिशᳪ सर्वत्र सावित्रमश्विनोः सरस्वत्या इन्द्रस्येति