पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ग्रहाभ्यां सारस्वताभ्यां क्रियते । सरस्वती च उपवाकैः व्यानं जजान जनयति । नस्यानि नासिकाप्रभवाणि च बहिः बदरैः जनयति ॥ ९० ॥
म० अविः सारस्वतो मेषश्च नसि इन्द्रस्य नासिकायां वीर्यायावस्थितः ग्रहाभ्यां सारस्वताभ्यां प्राणस्य प्राणवायोः पन्था मार्गोऽमृतः अनश्वरः क्रियते । सरस्वती उपवाकैर्यवाङ्कुरैः कृत्वा व्यानमिन्द्रस्य व्यानवायुं जजान जनयति । बर्हिर्बदरैः सह नस्यानि नासिकाभवानि लोमानि जजान ॥ ९० ॥

एकनवतितमी।
इन्द्र॑स्य रू॒पमृ॑ष॒भो बला॑य॒ कर्णा॑भ्या॒ᳪ श्रोत्र॑म॒मृतं॒ ग्रहा॑भ्याम् ।
यवा॒ न ब॒र्हिर्भ्रु॒वि केस॑राणि क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घं मुखा॑त् ।। ९१ ।।
उ० इन्द्रस्य रूपम् । इन्द्रस्य रूपं संस्करोति ऋषभः बलायावतिष्ठते । कर्णाभ्यां श्रोत्रम् अतीतानागतवर्तमानशब्दग्राहि । अमृतम् ग्रहाभ्यामैन्द्राभ्यां स्थापितम् । यवाश्च बर्हिश्च । भ्रुवि केसराणि भ्रुवोः लोमानि अभवन् । कर्कन्धु च यज्ञे मधु सारघम् मुखात् कर्कन्धु बदरम् यज्ञे स्वयमेव यज्ञे इन्द्रस्य मुखात् । मधु लालाश्लेष्मादि मधुशब्देनोच्यते सादृश्यात् । सारघम् । सरघाः भ्रमराः । यथा सारघम् मधु इतश्चेतश्चाहृतं भवति । एवं लालादि सर्वस्मादङ्गाद्भवति ॥ ९१ ॥
म० ऋषभः बलाय सामर्थ्यायेन्द्रस्य रूपं चक्रे । ग्रहाभ्यामैन्द्राभ्याममृतं भूतभविष्यद्वर्तमानशब्दग्राहि श्रोत्रं श्रोत्रेन्द्रियं कर्णाभ्यामिन्द्रस्य कर्णयोश्चक्रे । कर्णशष्कुल्योः श्रोत्रेन्द्रियं स्थापितमित्यर्थः । यवा बर्हिश्च भ्रुवि भ्रुवोः केसराणि लोमान्यभवन् कर्कन्धु बदरं मुखात् सारघं मधु तत्तुल्यं लालाश्लेष्मादि जज्ञे । सरघा मधुमक्षिका तत्संबन्धि सारघम् । यथा मधु नानातरुभ्य आनीयते एवं लालादि सर्वाङ्गेभ्यो भवति इति लालादीनां मधुसाम्यम् ॥ ९१ ॥ .. .

द्विनवतितमी।।
आ॒त्मन्नु॒पस्थे॒ न वृक॑स्य॒ लोम॒ मुखे॒ श्मश्रू॑णि॒ न व्या॑घ्रलो॒म ।
केशा॒ न शी॒र्षन्यश॑से श्रियै॒ शिखा॑ सि॒ᳪहस्य॒ लोम॒ त्विषि॑रिन्द्रि॒याणि॑ ।। ९२ ।।
उ० आत्मन्नुपस्थे । आत्मनि उपस्थे च यानि लोमानि तानि वृकस्य लोमानि । लोमेति जातावेकवचनम् । मुखे श्मशूणि च यानि तानि व्याघ्रस्य लोमानि । केशा न शीर्षन ये च केशाः शिरसि यशसे निहिताः या च श्रियै शिखा निहिता या च त्विषिः दीप्तिः यानि चेन्द्रियाणि तदेतत्सिंहस्य लोम ॥ ९२ ॥
म० आत्मन् आत्मनि शरीरे उपस्थे गुह्ये च यानि लोमानि तानि वृकस्य लोमानि । लोमेति जातावेकवचनम् । मुखे यानि श्मश्रूणि तानि च व्याघ्रलोम । शीर्षन् शीर्ष्णि शिरसि च यशसे यशोर्थं ये केशाः या च श्रियै शोभायै शिखा या च त्विषिः कान्तिः यानि चेन्द्रियाणि तत्सर्वं सिंहस्य लोम ॥ ९२ ॥

त्रिनवतितमी।
अङ्गा॑न्या॒त्मन् भि॒षजा॒ तद॒श्विना॒त्मान॒मङ्गै॒: सम॑धा॒त् सर॑स्वती ।
इन्द्र॑स्य रू॒पᳪ श॒तमा॑न॒मायु॑श्च॒न्द्रेण॒ ज्योति॑र॒मृतं॒ दधा॑नाः ।। ९३ ।।
उ० अङ्गान्यात्मन् । अङ्गानि यस्मिन्नात्मनि भिषजौ वैद्यौ अश्विनौ समधाताम् तदात्मानम् । अङ्गैः समधात्सरस्वती । एवमिन्द्रस्य रूपं शतमानं बहुप्रतिमानम् । अश्विनौ सरस्वती च । चक्षुः चन्द्रेण हिरण्मयेन ज्योतिः अमृतं च दधानाः ॥ ९३ ॥
म० भिषजा भिषजौ अश्विना अश्विनौ आत्मन् आत्मनि अङ्गान्यवयवान् समधातां समयोजयताम् । सरस्वती तन्त्रमात्मानमङ्गैः समधात्संदधे । कीदृशा अश्व्यादयः । इन्द्रस्य रूपमायुश्च चन्द्रेणाह्लादकेन ज्योतिर्ज्योतिषा सहामृतमनश्वरं दधानाः संपादयन्तः । कीदृशं रूपम् । शतमानं शतानामनेकेषां प्राणिनां मानं पूजा यस्मिन् तज्जगत्पूज्यमित्यर्थः ॥ ९३ ॥

चतुर्नवतितमी। ।
सर॑स्वती॒ योन्यां॒ गर्भ॑म॒न्तर॒श्विभ्यां॒ पत्नी॒ सुकृ॑तं बिभर्ति ।
अ॒पाᳪ रसे॑न॒ वरु॑णो॒ न साम्नेन्द्र॑ᳪ श्रि॒यै ज॒नय॑न्न॒प्सु राजा॑ ।। ९४ ।।
उ० सरस्वती योन्याम् । व्यवहितपदप्रायः । सरस्वतीयं योन्याम् इन्द्रलक्षणं गर्भम् अन्तर्मध्ये अश्विभ्यां पत्नीभूत्वा सुकृतं शोभनीकृतं बिभर्ति धारयति । तमेवेन्द्रं जनयन् श्रियै विभूत्यै वरुणश्च अप्सु राजा अपां रसेन साम्ना च बिभर्ति ॥ ९४ ॥
म० सरस्वती अश्विभ्यां पत्नी अश्विनोः पत्नी भूत्वा योन्यामन्तर्योनिमध्ये गर्भमिन्द्रलक्षणं सुकृतं यथा तथा शोभनं कृतं बिभर्ति । अप्सु राजा अपामीश्वरो वरुणः अपां रसेन साम्ना उदकरसभूतेन साम्ना इन्द्रं श्रियै जनयन्सन् बिभर्तीत्यनुषङ्गः । नश्चार्थः ॥ ९४ ॥

पश्चनवतितमी।
तेज॑: पशू॒नाᳪ ह॒विरि॑न्द्रि॒याव॑त् परि॒स्रुता॒ पय॑सा सार॒घं मधु॑ ।
अ॒श्विभ्यां॑ दु॒ग्धं भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्या॑म॒मृत॒: सोम॒ इन्दु॑: ।। ९५ ।।