पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कुर्वन् सन् यकृत् कालखण्डं क्लोमानं गलनाडिकां च जजान । वायव्यैः सौमिकौरूर्ध्वपात्रैः मतस्ने हृदयोभयपार्श्वस्थे अस्थिनी पित्तं न पित्तं च मिनाति निर्मिमीते सृजतीत्यर्थः । सोमिकान्यौर्ध्वपात्राणि वायव्यसंज्ञानि ॥ ८५ ॥

षडशीतितमी।
आ॒न्त्राणि॑ स्था॒लीर्मधु॒ पिन्व॑माना॒ गुदा॒: पात्रा॑णि सु॒दुघा॒ न धे॒नुः ।
श्ये॒नस्य॒ पत्रं॒ न प्ली॒हा शची॑भिरास॒न्दी नाभि॑रु॒दरं॒ न मा॒ता ।। ८६ ।।
उ० आन्त्राणि स्थालीः । स्थाल्यः आन्त्राणि अभवन् । किं कुर्वाणाः । मधु पिन्वमानाः । पिन्वतिः सेचनार्थः । गुदाः पात्राणि अभवन् । सुदुघा च धेनुः दक्षिणा च आदित्यस्येष्टेः । गुदा एव अभवन् । श्येनस्य च पत्रं प्लीहा अभवत् । शचीभिः कर्मभिः । आसन्दी नाभिः इन्द्रस्य उदरं च माता च । आसन्दीस्थोऽभिषिच्यते अतस्ततो जायते ॥८६॥
म०. स्थालीः स्थाल्यः आन्त्राणि अभवन् । कीदृश्यः स्थाल्यः । मधु पिन्वमानाः सिञ्चन्त्यः । पात्राणि गुदा गुदस्थानान्यभवन् । सुदुघा न धेनुः शोभनं दुग्धे सा सुदुघा दोग्ध्री च धेनुः आदित्येष्टेर्दक्षिणारूपा गुदा एवाभवत् । श्येनस्य पत्रं च प्लीहा हृदयवामभागस्थः शिथिलमांसपिण्डः गुल्मसंज्ञोऽभवत् । आसन्दी शचीभिर्नाभिरुदरं चाभवत् । कीदृश्यासन्दी । माता जननीस्थानीया आसंद्यामभिषिच्यतेतऽस्ततो जायत एव । नाश्चार्थाः ॥ ८६ ॥

सप्ताशीतितमी।
कु॒म्भो व॑नि॒ष्ठुर्ज॑नि॒ता शची॑भि॒र्यस्मि॒न्नग्रे॒ योन्यां॒ गर्भो॑ अ॒न्तः ।
प्ला॒शिर्व्य॑क्तः श॒तधा॑र॒ उत्सो॑ दु॒हे न कु॒म्भी स्व॒धां पि॒तृभ्य॑: ।। ८७ ।।
उ० कुम्भो वनिष्ठुः । सुरासंधानकुम्भो वनिष्ठुः जनिता च जनकश्च । शचीभिः स्वकीयैरेव कर्मभिः । यस्मिन्कुम्भे अग्रे प्रथमं योन्यां गर्भः । अन्तर्मध्ये सुरालक्षण उषितः । किंच । प्लाशिर्व्यक्तः । स्पष्टः शतधार उत्सः कूपः बहुस्रोतत्वात् कूप उक्तः । दुहे न कुम्भी स्वधां पितृभ्यः ॥ ८७ ॥
म० कुम्भः सुराधानकुम्भः शचीमिः कर्मभिः कृत्वा वनिष्ठुः स्थूलान्त्रं जनिता जनयति । यस्मिन् कुम्भे योन्यां कुम्भरूपे योनौ स्थाने अग्रे प्रथममन्तर्मध्ये गर्भः सुरारूप उषितः । शतधार उत्सः कूपतुल्यः कुम्भः व्यक्तः स्पष्टः प्लाशिः शिश्नोऽभवत् । कुम्भी सुराधानी च पितृभ्यः स्वधां दुहे दुग्धे अन्नं पूरयति 'लोपस्त आत्मनेपदेषु' (पा० ७ । १। ४१) इति तलोपः ॥ ८७ ॥

अष्टाशीतितमी।
मुख॒ᳪ सद॑स्य॒ शिर॒ इत् सते॑न जि॒ह्वा प॒वित्र॑म॒श्विना॒सन्त्सर॑स्वती ।
चप्पं॒ न पा॒युर्भि॒षग॑स्य॒ वालो॑ व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी ।। ८८ ।।
उ० मुखं सत् । अस्येन्द्रस्य मुखं सत् । एकदेशलोपः सन्तमिति प्राप्ते । तथाच श्रुतिः 'मुखं सन्तमस्य जिह्वा । पवित्रं चप्यं न पायुर्वस्तिर्वालः' इति । शिर इत् सतेन जिह्वा पवित्रम् आसन् आस्येति च । चप्यं च पायुः भिषगस्य वालः वस्तिश्च शेपो हरसा तरस्वी । वालस्य त्रिधा परिणामः वैद्यः वस्तिः शेपश्च । कीदृशः शेपः । हरसा वीर्येण तरस्वी वेगवान् ॥ ८८॥ ।
म० अस्येन्द्रस्य सत् सतः पात्र विशेषो मुखमभूत् । सतशब्दस्यान्तलोपश्छान्दसः । सतेन इत् सतेनैवास्य शिरोऽभूत् । पवित्रं जिह्वाभवत्। अश्विना अश्विनौ सरस्वती च आसन् आस्येऽभवन् । चप्यं च पायुरिन्द्रियमभूत् । वालो सुरागलनवस्त्रमस्येन्द्रस्य भिषग्वैद्यो वस्तिर्गुदं शेपो लिङ्गं चाभूत् । वालेन त्रयं जातम् । कीदृशः शेपः । हरसा वीर्येण तरस्वी वेगवान् ॥ ८८ ॥

एकोननवतितमी।
अ॒श्विभ्यां॒ चक्षु॑र॒मृतं॒ ग्रहा॑भ्यां॒ छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑ ।
पक्ष्मा॑णि गो॒धूमै॒: कुव॑लैरु॒तानि॒ पेशो॒ न शु॒क्रमसि॑तं वसाते ।। ८९ ।।
उ०. अश्विभ्यां चक्षुः । अश्विभ्यामिन्द्रस्य चक्षुः संस्क्रियते । तदेवामृतम् । ग्रहाभ्यामश्विदेवत्याभ्याम् छागेन तेजः चक्षुषः क्रियते । कथंभूतेन छागेन । हविषा शृतेन । हविर्भूतेन पक्वेन अपरम् पक्ष्माणि चक्षुषः लोमानि गोधूमैः संस्क्रियते । कुवलैर्बदरविशेषैः उतानि निविष्टानि पक्ष्मसु रोमाणि संस्क्रियते । पेशो न शुक्रमसितं वसाते । पेशो न रूपं च चक्षुषः शुक्रं शुक्लम् असितं कृष्णं च वसाते आच्छादयेते प्रकृतत्वादश्विनौ ॥ ८९ ॥
म० अश्विभ्यामिन्द्रस्य चक्षुः क्रियते ग्रहाभ्यामश्विदेवत्याभ्यां चक्षुरेवामृतमनश्वरं क्रियते । शृतेन पक्वेन हविषा छागेन छागरूपेण पक्वहविषा तेजश्चक्षुःसंबन्धि क्रियते । गोधूमैः पक्ष्माणि नेत्रलोमानि क्रियन्ते । कुवलैर्बदरैः उतानि चक्षुर्निविष्टानि लोमानि क्रियन्ते । शुक्रं शुक्लमसितं कृष्णं च पेशः रूपं शुक्लकृष्णे नेत्रगते रूपे वसाते आच्छादयेते । कुर्वात इत्यर्थः । प्रकृतत्वादश्विनौ कर्तारौ ॥ ८९ ॥

नवतितमी । ।
अवि॒र्न मे॒षो न॒सि वी॒र्या॒य प्रा॒णस्य॒ पन्था॑ अ॒मृतो॒ ग्रहा॑भ्याम् ।
सर॑स्वत्युप॒वाकै॑र्व्या॒नं नस्या॑नि ब॒र्हिर्बद॑रैर्जजान ।। ९० ।।

उ० अविर्न । अविश्च मेषः सारस्वतः नसि नासिकायाम् वीर्याय अवस्थितः । प्राणस्य च पन्था मार्गः अमृतः