पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

च तोक्मभिः विरूढयवैर्बहुधा संदधुर्लाजा न लाजाश्चास्य मांसं समभवत् । अध्यायसमाप्तिपर्यन्तं नकाराः सर्वे चकारार्थाः ॥ ८१ ॥

द्व्यशीतितमी।
तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी॒ सर॑स्वती वयति॒ पेशो॒ अन्त॑रम् ।
अस्थि॑ म॒ज्जानं॒ मास॑रैः कारोत॒रेण॒ दध॑तो॒ गवां॑ त्व॒चि ।। ८२ ।।
उ० तदश्विना तत् पेशः रूपम् इन्द्रस्य । अश्विनौ भिषजौ । रुद्रवर्तनी । रुद्रस्येव वर्तनिर्मार्गो ययोस्तौ रुद्रवर्तनी रुग्णवर्तनी वा । रोरूयमाणौ वर्तेते इति वा । सरस्वती च । वयति वयन्ति । बहुवचनमेकवचनस्य । संबध्नन्ति अन्तरमभ्यन्तरम् । किं वयन्ति । अस्थि च मज्जानं च तावत् मासरैश्च कारोतरेण च यथाक्रमं वयन्ति । किं कुर्वाणाः । दधतः स्थापयन्तः । गवां त्वचि चर्मणि सुराम् ॥ ८२ ॥
म० रुद्रवत् वर्तनिर्मार्गो ययोस्तौ रुद्रवर्तनी रुग्णवर्तनी वा। भिषजा भिषजौ वैद्यौ अश्विना अश्विनौ सरस्वती च तदन्तरं शरीरान्तर्वर्ति पेश इन्द्रस्य रूपम् वयति वयन्ति संबध्नन्ति वचनव्यत्ययः । तदेवाह । मासरैः शष्पादिचूर्णचरुनिःस्रावैः । अस्थि संबध्नन्ति । कारोतरेण गलनवाससा मज्जानं वयन्ति । कीदृशास्ते । गवां त्वचि चर्मणि दधतः सुरां स्थापयन्तः ॥ ८२॥

त्र्यशीतितमी। .
सर॑स्वती॒ मन॑सा पेश॒लं वसु॒ नास॑त्याभ्यां वयति दर्श॒तं वपु॑: ।
रसं॑ परि॒स्रुता॒ न रोहि॑तं न॒ग्नहु॒र्धीर॒स्तस॑रं॒ न वेम॑ ।। ८३ ।।
उ. सरस्वती मनसा । सरस्वती मनसा पर्यालोच्य । पेशलम् । पेश इति हिरण्यनाम रूपनाम च । हिरण्यवद्वा रूपवद्वा । वसु नासत्याभ्यां च सहिता वयति पटमिव सृजति । दर्शतं वपुः दर्शनीयं वपुः शरीरम् इन्द्रस्य । रसं परिस्रुता न रोहितम् । सरं च परिस्रुता सरस्वती नासत्याभ्यामश्विभ्यां सहिता वयति । वपुषो रञ्जनार्थम् । अतो रोहित इन्द्रो वेदेषु पठ्यते । अथ तदा नग्नहुः किण्वः धीरः धीमान् । तसरं न वेम तसरं च वेम च संपद्यते । नग्नहोः कर्तृत्वमात्रं विवक्षितम् । विवक्षातः कारकाणि भवन्ति । तसरं वेम च कुविन्दानां प्रसिद्धम् । तसरं वयनसाधनम् ॥ ८३ ॥
म०. नासत्याभ्यामश्विभ्यां सहिता सरस्वती वसु धनं दर्शतं दर्शनीयं वपुश्च वयति पटमिव सृजति । इन्द्रस्येति शेषः । कीदृशं वसु । पेशलं पेश इति हिरण्यरूपयोर्नाम । पेशं लाति गृह्णाति पेशलं हिरण्यवद्रूपवद्वा । मनसा विचार्येति शेषः । परिस्रुता परिस्रुतः सुरायाः रोहितं लोहितं रसं न रसं च वयति इन्द्रवपुषो रञ्जनाय । अतएव वेदेषु रोहित इन्द्रः पठ्यते । अथ तदा नग्नहुः किण्वः सुराकन्दः पूर्वोक्तः तसरं वयनसाधनं वेम न वेमा च भवति । तसरवेमानौ कुविन्दानां प्रसिद्धौ । कीदृशो नग्नहुः । धीरः धियमीरयति प्रेरयतीति धीरः । मादक इत्यर्थः । विवक्षातः कारकाणि भवन्तीति वचनान्नग्नहोः कर्तृत्वं विवक्षितम् ॥ ८३ ॥

चतुरशीतितमी।
पय॑सा शु॒क्रम॒मृतं॑ ज॒नित्र॒ᳪ सुर॑या॒ मूत्रा॑ज्जनयन्त॒ रेत॑: ।
अपाम॑तिं दुर्म॒तिं बाध॑माना॒ ऊव॑ध्यं॒ वात॑ᳪ स॒ब्वं तदा॒रात् ।। ८४ ।।
उ० पयसा शुक्रम् । पयसा दुग्धेन कारणभूतेन शुक्रं च अमृतं च जनित्रम् आजन्म जनयन्तः अश्विनौ सरस्वती च प्रकृतत्वात् इन्द्रस्तु भैषज्यः । सुरया च मूत्रात् मूत्रमिति साधु । मूत्रं च रेतश्च जनयन्त । किंच । अपामतिं दुर्मतिं बाधमानाः । अपबाधमानाः अमतिममननं वध्यभावं दुर्मतिं च । ऊवध्यम् आमाशयगतमन्नं वा तम् तत्सहचरितं सर्वं पक्वाशयगतमशुचिः । तदारात् तदेतत् सुरया जनयन्त । आरात् सुरासंनिकर्षात् । संनिकर्षों हि गन्धादिभिः ॥ ८४ ॥
म० प्रकृतत्वादश्विनौ सरस्वती च पयसा दुग्धेन रेतो वीर्यं जनयन्त उदपादयन् । अडभाव आर्षः । इन्द्रस्येति शेषः। कीदृशं रेतः । शुक्रं शुक्लम् अमृतमनश्यत् । जनित्रं जनयतीति जनित्रं जयनशीलम् । आरात् समीपे स्थित्वा तत्प्रसिद्धमूवध्यं वातं नाडीगतं सब्वं च सुरया कृत्वा मूत्रात् मूत्रं चाजनयन्त । आमाशयगतमन्नमूवध्यम् पक्वाशयगतमन्नं सब्वम् । । कीदृशास्ते । अमतिं वध्यभावं दुर्मतिं दुर्बुद्धिं च बाधमाना निवर्तर्यन्तः सद्बुद्धिं ददत इत्यर्थः ॥ ८४ ॥

पञ्चाशीतितमी ।
इन्द्र॑: सु॒त्रामा॒ हृद॑येन स॒त्यं पु॑रो॒डाशे॑न सवि॒ता ज॑जान ।
यकृ॑त् क्लो॒मानं॒ वरु॑णो भिष॒ज्यन् मत॑स्ने वाय॒व्यैर्न मि॑नाति पि॒त्तम् ।। ८५ ।।

उ० इन्द्रः सुत्रामा । पुरोडाशदेवता इन्द्रं भिषज्यन्ति । | इन्द्रः सुत्रामा हृदयेन । हृदयमिति विभक्तिव्यत्ययः । इन्द्रस्य जजान जनयति । सत्यम् इन्द्रस्य पुरोडाशेन सविता जनयति । यकृच्च क्लोमानं च जनयति । वरुणः इन्द्रस्य भिषज्यन्मतस्ने च पित्तं च वायव्यैः ऊर्ध्वपात्रैः ऊर्ध्वपात्राणां सौमिकानां वायव्यानीति उक्तम् । मिनाति निर्मिमीते मृजति ॥ ८५ ॥
म०. सुष्ठु त्रायते रक्षति सुत्रामा इन्द्रः पुरोडाशदेवता । इन्द्रस्य हृदयेन हृदयं जजान जनयति । सविता च पुरोडाशेनेन्द्रस्य सत्यं जजान । वरुणो भिषज्यन् इन्द्रस्य चिकित्सां