पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानामेकद्वाराणामाद्यमुदाहरणम् । एकस्थानानामनेकद्वाराणां द्वितीयम् । ऋतेनेति व्याख्यातम् ॥ ७६ ॥ .

सप्तसप्ततितमी।
दृ॒ष्ट्वा रू॒पे व्याक॑रोत् सत्यानृ॒ते प्र॒जाप॑तिः । अश्र॑द्धा॒मनृ॒तेऽद॑धाच्छ्र॒द्धाᳪ स॒त्ये प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७७ ।।
उ०. दृष्ट्वा रूपे । दृष्ट्वा उपलभ्य रूपे सत्यानृतयोः । इदं सत्यमेवंरूपमिदमनृतमेवंरूपमिति व्याकरोत् । व्याकरणं पृथक्कार्यावस्थानम् । कथं व्याकरोत् । अश्रद्धाम् अनृते अदधात् अनृतनिमित्तत्वात् अश्रद्धायाः। श्रद्धामास्तिक्यम् सत्ये । कः अदधात् । प्रजापतिः सत्यमेतत् ऋतेनेति व्याख्यातम् ॥ ७७ ॥
म० प्रजापतिः रूपे रूपवती मूर्तिमती सत्यानृते दृष्ट्वा व्याकरोत् । व्याकरणं पृथक्त्वं कृतवान् इदं सत्यमिदमनृतमिति पृथगवास्थापयत् । तदेवाह । अनृते अश्रद्धां नास्तिक्यमदधात् अस्थापयत् अनृतस्याश्रद्धानिमित्तत्वात् । सत्ये श्रद्धामदधात् सत्यस्य श्रद्धानिमित्तत्वात् । श्रद्धास्तिक्यबुद्धिः । अनेन ऋतेनेत्युक्तम् ॥ ७७ ॥

अष्टसप्ततितमी।
वेदे॑न रू॒पे व्य॑पिबत् सुतासु॒तौ प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७८ ।।
उ० वेदेन रूपे । वेदेन परिज्ञानेन त्रय्या वा विद्यया । रूपे सुतासुतयोः व्यपिबत् । सुतः सोम उच्यते पयश्चासुतः परिस्रुत्प्रजापतिः सत्यमेतत् अनेन ऋतेनेति व्याख्यातम् ७८
म० महाबृहती । प्रजापतिः सुतासुतौ सुतासुतयोः रूपे वेदेन ज्ञानेन त्रय्या विद्यया वा व्यपिबत् विविच्य पीतवान् ।। सुतः सोमः असुतः पयः परिस्रुच्च । ऋतेनेत्युक्तम् ॥ ७८ ॥

एकोनाशीतितमी।
दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रस॑ᳪ शु॒क्रेण॑ शु॒क्रं व्य॑पिबत् पय॒: सोमं॑ प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७९ ।।
उ० दृष्ट्वा परिस्रुतः रसं शुक्रेण अमलेन शुक्रममलम् । वियुत्य अपिबत् पयश्च सोमं च द्वे प्रजापतिः । सत्यमेतत् । ऋतेनेति व्याख्यातम् ॥ ७९ ॥
म० अतिजगती । प्रजापतिः परिस्रुतः सुराया रसं दृष्ट्वा शुक्रेण शुद्धेन मन्त्रेण पयः सोमं च शुक्रं शुक्लं शुद्धं कृत्वा व्यपिबत् वियुज्य पीतवान् । ऋतेनेत्युक्तार्थम् ॥ ७९ ॥

अशीतितमी।
सीसे॑न॒ तन्त्रं॒ मन॑सा मनी॒षिण॑ ऊर्णासू॒त्रेण॑ क॒वयो॑ वयन्ति ।
अ॒श्विना॑ य॒ज्ञᳪ स॑वि॒ता सर॑स्व॒तीन्द्र॑स्य रू॒पं वरु॑णो भिष॒ज्यन् ।। ८० ।।
उ० खुरैर्वसाग्रहान्द्वात्रिंशतं जुहोति । सीसेनेति प्रत्यृचम् षोडश जगत्यः । यथेन्द्रस्य भैषज्यं क्रियते तथा आभिरुच्यते । यज्ञः पटेन रूप्यते प्रथमायामृचि । सीसेन ऊर्णासूत्रेण च तन्त्रमिव पूर्वापरैः सूत्रैर्दक्षिणोत्तरैश्च वयन्ति यज्ञम् । के वयन्ति । मनीषिणः मेधाविनः । कवयः क्रान्तदर्शनाः । मनसा पर्यालोच्य गुणत उक्त्वा अथेदानीं नामत आह । अश्विनौ सविता सरस्वती वरुणश्च । किमर्थं पुरस्कृत्य यज्ञं वयति इन्द्रस्य रूपं भिषज्यन् ॥ ८०॥
म० 'खुरैर्वसाग्रहान्द्वात्रिᳪशतं जुहोति सीसेनेति प्रत्यृचम्' | ( का० १९ । ४ । १२) । पञ्चपलो ग्रह इति परिशिष्टोक्तेः ऋषभखुराणां महत्त्वाच्चार्षभैः खुरैः पशूनां वसां गृहीत्वा सीसेनेति प्रतिमन्त्रं द्वात्रिंशत्संख्यान्सुराग्रहान् जुहोति । एकेन मन्त्रेण द्वयोर्होम इत्यर्थः । अश्विसरस्वतीन्द्रदेवत्याः षोडश जगत्यः । 'जगतीभिर्जुहोति' ( १२ । ८ । ३ । १३) इति श्रुतिबलाद्बह्वक्षरन्यूनानामपि कासांचिज्जगतीत्वमेव । दस्रादिभिर्यथा इन्द्रस्य भैषज्यं कृतं तदनेनानुवाकेन प्रतिपाद्यते । अश्विना अश्विनौ दस्रौ सविता सरस्वती वरुणश्च मनसा विचार्य यज्ञं सौत्रामणीं वयन्ति निष्पादयन्ति । केन । सीसेन ऊर्णासूत्रेण च सीसेन शष्पक्रयणादूर्णया तोक्मक्रयणात् ताभ्यां यज्ञनिष्पादनमित्यर्थः । तत्र दृष्टान्तः । सीसेन ऊर्णासूत्रेण च तन्त्रमिव यथा कश्चित्सीसेन धातुविशेषेण तन्त्रमङ्गदविशेषं वयति ऊर्णासूत्रेण च तन्त्रं पटं वयति तद्वत् 'तन्त्रं राष्ट्रे च सिद्धान्ते परच्छन्दाप्रधानयोः । अङ्गदे कुटुम्बकृते तन्तुवाने परिच्छदे' इति कोशात् । कीदृशा अश्व्यादयः । मनीषिणः | मेधाविनः । कवयः क्रान्तदर्शनाः । इन्द्रस्य रूपं भिषज्यन् भिषज्यन्तः 'भिषज् रुग्जये' कण्ड्वादित्वाद्यक् ततः शतृ प्रत्ययः । वचनव्यत्ययः । इन्द्रभैषज्याय यज्ञं वयन्तीत्यर्थः ॥ ८०॥ .

एकाशीतितमी।
तद॑स्य रू॒पम॒मृत॒ᳪ शची॑भिस्ति॒स्रो द॑धुर्दे॒वता॑: सᳪररा॒णाः ।
लोमा॑नि॒ शष्पै॑र्बहु॒धा न तोक्म॑भि॒स्त्वग॑स्य मा॒ᳪसम॑भव॒न्न ला॒जाः ।। ८१ ।।
उ० तदस्य । तत् अस्येन्द्रस्य रूपम् अमृतममरणधर्मि । शचीभिः कर्मभिः । तिस्रो देवताः संदधुः संरराणाः । अश्विनौ सरस्वती च । कथं संदधुः । लोमानि तावत् शष्पैः संदधुः । बहुधा न तोक्मभिस्त्वगस्य । नकारः समुच्चये । आअध्यायसमाप्तेः । त्वचमिति विभक्तिव्यत्ययः । बहुधा न तोक्मभिस्त्वचमस्येन्द्रस्य संदधुः। मांसम् अभवच्च लाजा:८१
म०. तिस्रो देवताः अश्विसरस्वत्यः संरराणाः सम्यक् रममाणाः सत्यः अस्येन्द्रस्य तदमृतममरणधर्मि रूपं शचीभिः कर्मभिः संदधुः कर्माङ्गैः संधानं चक्रुः । तदेवाह । लोमानि इन्द्ररोमाणि शष्पैर्विरूढव्रीहिभिः संदधुः । अस्येन्द्रस्य त्वक् त्वचं