पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मपि लोहितमिश्रः सोमः सोम एवेत्यनुवाकार्थः । सोमो राजा सोमः राजा सुतः अभिषुतः अमृतं संपद्यते रसीभावात् । स्थूलस्य हि सूक्ष्मताऽमृतीभावः । ऋजीषरूपेणचाजहात्त्यजति मृत्युं मूर्तत्वादृजीषभावस्य सत्यमेतत् । अनेन च ऋतेन सत्येन सत्यमेतत् ज्ञातम् इन्द्रियं वीर्यं विपानं विविक्तं लोहितात्सोमपानं पानयोग्यं वा विपानम् शुक्रं रजो हितम् अन्धसः अन्नात्संभूतं भूयात् । अथ इन्द्रस्य इदमिन्द्रियं पयः अमृतं मधु भवतु ॥ ७२ ॥
म० 'सोमो राजेत्यनुवाकेन ग्रहानुपतिष्ठते युगपत्' (का० १९ । २ । २४) अष्टर्चेनानुवाकेन समानकालमेव पयोग्रहान्सुराग्रहांश्चाध्वर्युरुपतिष्ठते । यद्वा चतुर्भिः पयोग्रहांश्चतुर्भिः सुराग्रहान् । ग्रहणानन्तरमेवोपस्थानं मन्त्रपाठक्रमादत्रालेखीत्यर्थः । अश्विसरस्वतीन्द्रदृष्टा अष्टौ ऋचः । आद्यास्तिस्रो महाबृहत्यः । यस्याश्चत्वारः पादा अष्टकाः पञ्चमो द्वादशकः सा महाबृहती। सोमो राजा सुतोऽभिषुतः सन् अमृतममृतरूपो रसरूपो भवति । स्थूलस्य सूक्ष्मतापादनममृतीभावः । यत ऋजीषेण ऋजीषं नीरसं सोमलताचूर्णम् तद्रूपेण मृत्युं स्थूलभावमजहाज्जहाति । ऋतेन अनेन सत्येन एतत् सत्यम् ज्ञातम् यत् अन्धसोऽन्नस्य सोमस्य विपानं विविच्य पानं शुक्रं शुक्लं शुद्धमतएव इन्द्रियं वीर्यप्रदं भूयात् पयश्चेन्द्रस्येदृशं भवतु ।। कीदृशं इन्द्रियम् । वीर्यवत् अमृतमजरामरत्वप्रदं मधु मधुरं च । अपां फेनेनेत्यस्य मन्त्रस्यास्यष्टर्चानुवाकस्य च श्रुत्या संबन्ध उक्तः । 'तस्य शीर्ष्णि छिन्ने लोहितमिश्रः सोमोऽतिष्ठत् तस्मादबीभत्सन्त त एतदन्धसो विपानमपश्यन् सोमो राजामृतᳪ सुत इति तेनैनᳪ स्वदयित्वात्मन्नदधत' इति । यथा एककारणानि वस्तूनि विविच्यमानानि दृश्यन्ते यथाच पृथग्भूतानि संमृष्टानि पुनर्विविच्यन्ते एवमयमपि लोहितमिश्रः सोमो विविक्तः सोम एवेति सर्वानुवाकार्थः ॥ ७२॥

त्रिसप्ततितमी।।।
अ॒द्भ्यः क्षी॒रं व्य॑पिब॒त् क्रुङ्ङा॑ङ्गिर॒सो धि॒या ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७३ ।।
उ० अद्भ्यः क्षीरम् । क्षीरोदकयोः संसृष्टयोः अद्भ्यः सकाशात् क्षीरं वियुत्य अपिबत् पीतवान् । क्रुङ् हंसः हंसजातिमास्थाय आङ्गिरसः प्राणः । सह्यङ्गानां रसः धिया प्रज्ञया । इत्थंभूता हि तस्य प्रज्ञा तस्यां जात्यामेव स्थितस्य भवति । सत्यमेतत् । अनेन ऋतेन सत्यमिन्द्रियं विपानं शुक्रं अन्धसः संभूतं भूयात् । अथ इन्द्रस्य इन्द्रियं विपानममृतं मधु भूयात् ॥ ७३ ॥
म० अङ्गिरसः अङ्गानां रसः प्राणो यथा क्रुङ् हंसो भूखा धिया प्रज्ञया अद्भ्यः सकाशात् क्षीरं दुग्धमपिबत् पिबति । संसृष्टाभ्यां क्षीरोदकाभ्यां क्षीरमेव हंसः पिबतीति जातिस्वभावः । अनेन सत्येनेदं सत्यं यदन्धसो विपानं शुक्रं भवतु । अथेन्द्रस्य पयो वीर्यममृतं भवतु ॥ ७३ ॥

चतुःसप्ततितमी।
सोम॑म॒द्भ्यो व्य॑पिब॒च्छन्द॑सा ह॒ᳪसः शु॑चि॒षत् ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७४ ।।
उ० सोममद्भ्यः । सोमोदकयोः संसृष्टयोः सोमं वियुत्यापिबत् अद्यःध सकाशात् । छन्दसा छन्दोनिबद्धेन वेदेन । हंस आदित्यः शुचिषत् । एतत्सत्यम् । ऋतेनेत्यादि समानम् ॥ ७४ ॥
म० हंसः आदित्यः अद्भ्यः सकाशात् छन्दसा वेदेन वेदरूपैः किरणैर्यथा सोमं व्यपिबत् पिबति सोमोदकाभ्यां रविः सोममेव पिबति । ऋतेनेत्युक्तम् । कीदृशो रविः । शुचिषत् शुचि निर्मले गगने सीदतीति शुचिषत् ॥ ७४ ॥

पञ्चसप्ततितमी।
अन्ना॑त्परि॒स्रुतो॒ रसं॒ ब्रह्म॑णा॒ व्य॑पिबत् क्ष॒त्रं पय॒: सोमं॑ प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७५ ।।
उ० अन्नात्परिस्रुतः । अन्नाद्धविर्लक्षणात् संपरिस्रुतश्च रसं ब्रह्मणा त्रयीलक्षणेन व्यपिबत् । क्षत्रं च व्यपिबत् । क्षत्रस्य पानं वशीकरणम् पयः सोमम् प्रजापतिः प्रथमशरीरी । सत्यमेतत् ऋतेन सत्यमिति समानम् ॥ ७५ ॥
म० अतिजगती द्वापञ्चाशदक्षरा । प्रजापतिः प्रथमशरीरी परिस्रुतोऽन्नात्सुरारूपादन्नात् रसं ब्रह्मणा गायत्रीलक्षणेन व्यपिबत् विविच्य पीतवान् । क्षत्रं च व्यपिबत् वशीचकार । क्षत्रियस्य पानं वशीकरणम् । पयः सोमं च व्यपिबत् । अनेन सत्येनेदं सत्यम् ॥ ७५ ॥

षट्सप्ततितमी।
रेतो॒ मूत्रं॒ वि ज॑हाति॒ योनिं॑ प्रवि॒शदि॑न्द्र॒यिम् । गर्भो॑ ज॒रायु॒णाऽऽवृ॑त॒ उल्बं॑ जहाति॒ जन्म॑ना ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७६ ।।
उ० रेतो मूत्रम् व्यवहितपदप्रायः । रेतः विजहाति त्यजति । योनिं स्त्रीप्रजननम् प्रविशत् इन्द्रियं शिश्नम् । योनिप्रवेशादन्यत्र मूत्रं विजहाति । तुल्यद्वारयोरपि मूत्ररेतसोर्मूत्रस्थानं हित्वान्यत्रावतिष्ठते रेतः । सत्यमेतत् ततः गर्भो जरायुणा आवृतः वेष्टितः । जरायुं च उल्बं च विजहाति त्यजति । जन्मना प्रसवेन । सत्यमेतत् । नानास्थानानामेकद्वाराणां प्रथममुदाहरणम् । एकस्थानानामनेकद्वाराणां द्वितीयम् । ऋतेनेति व्याख्यातम् ॥ ७६ ॥
म० अतिशक्कर्यौ द्वे षष्ठ्यक्षरातिशक्वरी । इन्द्रियं पुंप्रजननं शिश्नं योनिं स्त्रीप्रजननं प्रविशत् सत् रेतो वीर्यं विजहाति त्यजति । योनिप्रवेशादन्यत्र मूत्रं विजहाति । समानद्वारयोरपि रेतोमूत्रयोर्मूत्रस्थानादन्यत्र रेतोऽवतिष्ठते । जरायुणा गर्भवेष्टनेनावृतो गर्भः जन्मना कृत्वा उल्बं जरायुं जहाति । भिन्नस्था