पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पृथिव्यां भवं पार्थिवं रजो ज्योतिरग्निः तस्मिन्ना निषत्ताः आभिमुख्ये निषण्णाः 'नसत्तनिषत्त-' (पा. ८ । २ । ६१) इत्यादिना निष्ठायां निपातः । ये वा । वा समुच्चयार्थः । ये च नूनं निश्चितं विक्षु प्रजासु यजमानलक्षणासु निषण्णाः । कीशीषु विक्षु । सुवृजनासु शोभनं वृजनं बलं यासां ताः सुवृजनास्तासु धर्मरूपबलयुक्तासु । अद्यास्मिन् दिने तेभ्यश्चतुर्विधेभ्यः स्वर्गब्रह्माग्नियजमानस्थेभ्यः इदं नमोऽन्नमस्तु ॥ ६८ ॥

एकोनसप्ततितमी।
अधा॒ यथा॑ नः पि॒तर॒: परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः ।
शुचीद॑य॒न् दीधि॑तिमुक्थ॒शास॒: क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन् ।। ६९ ।।

उ० अधा यथा । अथैवं सति यथा येन प्रकारेण नः अस्माकं पितरः परासः पराएव परासः उत्कृष्टाः । प्रत्नासः । प्रत्नशब्दः पुराणवचनः । पुराणाः हे अग्ने, ऋतं यज्ञम् आशुषाणाः अश्नवानाः व्याप्नुवन्तः । शुचि अविभक्तिको निर्देशः । शुचिं दीप्तं भास्वरम् । इच्छब्द एवार्थे । अयन् आगताः प्राप्ताः दीधितिम् आदित्यरश्मिम् तत आदित्यमण्डलम् । एष हि देवयानः पन्थाः । उक्थशासः उक्थानि ये शंसन्ति यज्ञेषु ते उक्थशासः । पितॄणां विशेषणमेतत् । एवं वयमपि हे अग्ने, त्वत्प्रसादात् क्षामा भिन्दन्तः । क्षामा अविभक्तिको निर्देशः । क्षामां पृथिवीं भिन्दन्तः वेदिचात्वालयूपावटादिखननैः । यद्वा पृथिव्याश्रयाणि यज्ञे व्रीहिपशुयूपादीनि भिन्दन्तः यज्ञं सर्वोपकारकमनुतिष्ठन्त इत्यर्थः । अरुणीः आरोचनाः। रश्मीन् अपव्रन् अपवृणुमः । अप्रवृत्य च रश्मीन् देवपन्थानमनुतिष्ठाम इत्यर्थः ॥ ६९ ॥
म० हे अग्ने, नोऽस्माकं पितरः अध अथानन्तरं देहयात्रोत्तरकालं यथा येन प्रकारेण शुचि । सुपो लोपः । इदेवार्थे । शुचिं निर्मलं दीधितिं रविमण्डलमेव अयन् प्राप्ताः । 'अय गतौ' लङ् अडभाव आर्षः । कीदृशाः पितरः । परासः परा उत्कृष्टाः प्रत्नासः प्रत्नाः पुराणाः ऋतं यज्ञमाशुषाणाः अश्नुवाना व्याप्नुवन्तः । एवंभूताः पितरः यथा देवयानं पन्थानं प्राप्ताः तथा वयमपि अरुणीः अरुणवर्णाः सूर्यदीधितिमपव्रन् अपवृणुमः । सूर्यरश्मीनपवृत्य देवयानमार्ग प्राप्नुम इत्यर्थः । 'वृञ् वरणे' विकरणव्यत्ययेन शपि लुप्ते लङि रूपम् । अडभावः । पुरुषव्यत्ययश्छान्दसः। कीदृशा वयम् । उक्थशासः यज्ञेषु उक्थानि शस्त्राणि शंसन्ति वदन्ति ते उक्थशसः । क्विप् संहितायां दीर्घः । तथा क्षामा क्षामां भूमिं भिन्दन्तः वेदिचात्वालयूपावटोपरवादिखननैर्विदारयन्तः । सर्वोपकरणैर्यज्ञं कुर्वन्त इत्यर्थः ॥ ६९ ॥

सप्ततितमी।
उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्त॒: समि॑धीमहि । उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन् ह॒विषे॒ अत्त॑वे ।। ७० ।।
उ० उशन्तस्त्वा । 'वश कान्तौ' अस्य कृतसंप्रसारणस्यैतद्रूपम् । हे अग्ने, यतो वयमुशन्तः कामयमानाः त्वां निधीमहि स्थापयामहे । यतश्च उशन्तः कामयमाना एव समिधीमहि संदीपयामः । यतस्त्वमपि उशन्कामयमान एव । उशतः कामयमानानेव आवह पितॄन् । किमर्थमिति चेत् । हविषे अत्तवे हविषः अदनाय ॥ ७० ॥
म० अनुष्टुप् । हे अग्ने, उशन्तः कामयमाना वयं तं त्वा निधीमहि स्थापयामः । कामयमाना एव वयं त्वां समिधीमहि संदीपयामः । त्वं च उशन् कामयमानः सन् उशतः कामयमानान् पितॄनावह आनय । किं कर्तुम् । हविषे अत्तवे हविः अत्तुं भक्षयितुम् । तुमर्थे तवेप्रत्ययः विभक्तिव्यत्ययः ॥ ७० ॥

एकसप्ततितमी।
अ॒पां फेने॑न॒ नमु॑चे॒: शिर॑ इ॒न्द्रोद॑वर्तयः । विश्वा॒ यदज॑य॒ स्पृध॑: ।। ७१ ।।
उ० अथेन्द्रो मन्त्रः सोमो राजेत्यस्य निदानभूतः पठ्यते । अपां फेनेन । तृतीयपादप्रभृतिव्याख्यानं यच्छब्दयोगात् । विश्वाः सर्वाः । यत् यदा अजयः स्पृधः संग्रामान् । अथ तदा अपां फेनेन फेनपुञ्जेन नमुचेः असुरस्य शिरः हे इन्द्र, त्वमुदवर्तयः उद्वर्तितवानसि । उत्पूर्वो वृतिः छेदने वर्तते ॥ ७१ ॥
म० इन्द्रो गायत्री अग्रिमानुवाकनिदानभूता । हे इन्द्र, यत् यदा त्वं विश्वाः स्पृधः सर्वान् संग्रामानजयो जितवानसि तदा अपां फेनेन जलडिण्डीरेण नमुचेरसुरस्य शिरः उदवर्तयः छिन्नवानसि । उत्पूर्वो वृतिः छेदार्थः ॥ ७ ॥

द्विसप्ततितमी।।
सोमो॒ राजा॒मृत॑ᳪ सु॒त ऋ॑जी॒षेणा॑जहान्मृ॒त्युम् ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७२ ।।
उ० इदानीमेतं च मन्त्रं वक्ष्यमाणं चानुवाकं श्रुत्या संबध्नाति । 'तस्य शीर्षे छिन्ने लोहितमिश्रः सोमोऽतिष्ठत्तस्मात्तदबीभत्सत एतदन्धसो विपानमपश्यत्सोमो राजामृतं सुत इति तेनैनं स्वदयित्वात्मन्नदधत' इति । सोमो राजा । अष्टौ ग्रहोपस्थानमश्विसरस्वतीन्द्रा अपश्यन् । आद्यास्तिस्रो महाबृहत्यः पङ्क्तिश्चतुर्थी अन्ते अतिजगत्यौ शेषे अतिशक्वर्यौ । यथा एककारणानि वसूनि विविच्यमानानि दृश्यन्ते । यथा पृथग्भूतानि संसृज्यानि पुनर्विवेच्यमानानि दृश्यन्ते। एवमय