पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आय्यः' ( उणा० ३ । ९५) इति शृणोतेराय्यप्रत्ययः । तथा युजं युज्यत इति युक् तम् 'क्विप् च' (पा० ३ । २ । ७६ ) इति क्विप्प्रत्ययः योग्यम् ॥ ६४ ॥

पञ्चषष्टी ।
यो अ॒ग्निः क॑व्य॒वाह॑नः पि॒तॄन् यक्ष॑दृता॒वृध॑: ।
प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ।। ६५ ।।
उ० यो अग्निः कव्यवाहनः कव्यं पितॄणां हविरुच्यते । यच्च हविः पितॄन् यक्षत् इष्टवान् ऋतावृधः सत्यवृधो वा यज्ञवृधो वा । द्वितीयाबहुवचनमेतत् । स इदानीं प्रेदु हव्यानि वोचति । प्रवोचति प्रब्रवीतु हव्यानि हवींषि । देवेभ्यश्च पितृभ्य आ । समुच्चयार्थीय आकारः । देवेभ्यश्च पितृभ्यश्च । इमानि देवेभ्य इमानि पितृभ्य इति ॥ ६५ ॥
म० यः कव्यवाहनोऽग्निः पितॄन्यक्षदिष्टवान् 'लेटोऽडाटौ' 'सिब्बहुलं लेटि' इतो लोपः । कीदृशान् पितॄन् । ऋतावृधः ऋतं सत्यं यज्ञं वा वर्धयन्ति ते ऋतावृधः । संहितायां दीर्घः। तान् । सोऽग्निरिदानीं देवेभ्यः पितृभ्यश्च हव्यानि हवींषि प्रवोचति प्रब्रवीतु । इमानि देवेभ्य इमानि पितृभ्य इति वदत्वित्यर्थः । इत् उ निपातौ पादपूरणौ । आकारः समुच्चयार्थः । व्यत्ययेन वचेः शपि 'वच उम्' (पा० ७ । ४ । २७) इति छान्दस उमागमः ॥ ६५ ॥

षट्षष्टी।
त्वम॑ग्न ईडि॒तः क॑व्यवाह॒नावा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी ।
प्रादा॑: पि॒तृभ्य॑: स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वीᳪषि॑ ।। ६६ ।।
उ० त्वमग्ने । यस्त्वं हे अग्ने, ईडितः अध्येषितः सन् कव्यवाहन अवाट् 'वह प्रापणे' इत्यस्यैतद्रूपम् । ऊढवानसि । हव्यानि हवींषि । सुरभीणि सुगन्धीनि । कृत्वी कृत्वा । कृत्वा हवींषि । प्रादाः प्रदत्तवानसि पितृभ्यः स्वधया पितृमन्त्रेण । ते च पितरः । अक्षन् अत्तवन्तो भक्षितवन्तः। अद्धि भक्षय त्वं हे देव । प्रयता प्रयतानि शुचीनि हवींषि ॥६६॥
म० चतस्रस्त्रिष्टुभः । हे कव्यवाहन, हे अग्ने, त्वं हव्यानि हवींषि सुरभीणि कृत्वी सुगन्धानि कृत्वा अवाट् वहसि स्म । वहेर्लुङि इडागमाभावे सिचो लोपे रूपमवाट् । 'स्नात्व्यादयश्च' ( पा० ७।१। ४९ ) इति कृत्वीति निपातः । कीदृशस्त्वम्। ईडितः स्तुतः देवैर्ऋत्विग्भिश्च । किंच हव्यानि ऊढ्वा स्वधया पितृमन्त्रेण पितृभ्यः त्वं प्रादाः दत्तवानसि । ददातेर्लुङि रूपम् । ते च पितरः अक्षन् भक्षयन्ति स्म । 'घस्लृ अदने' इत्यस्य रूपम् । हे देव, त्वमपि अद्धि हवींषि भक्षय । 'अद भक्षणे' लोट् । कीदृशानि हवींषि । प्रयता प्रयतानि शुद्धानि ॥६६॥

सप्तषष्टी ।
ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ२।। उ॑ च॒ न प्र॑वि॒द्म ।
त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञँᳪ सुकृ॑तं जुषस्व ।। ६७ ।।
उ० ये चेह । ये पितरः इहास्मिन्समीपे इह वा लोके आसते । ये च नेह । यान् च पितॄन् विद्म अवगच्छामः । यान् । उ इति निपातः पादपूरणः । च न प्रविद्मः न प्रजानीमः । त्वं वेत्थ यति ते जातवेदः । तेशब्दः आदौ क्रियते द्वितीयान्तो वाक्यस्य बलीयस्त्वात् । तान् त्वं वेत्थ वेत्सि जानासि । यति । अविभक्तिको निर्देशः । यतीन् शुचीन् नित्यनैमित्तिककर्मकरणान्निर्दग्धकल्मषान् । हे जातवेदः । अतएवमुच्यसे । स्वधाभिः पितृसंबद्धैर्हविर्भिः । यज्ञं पितृयज्ञम् । सुकृतं साधुकृतम् । जुषस्व सेवस्व ॥६७॥
म० ये पितर इह लोके वर्तन्ते ये च इह लोके न सन्ति यांश्च पितॄन् वयं विद्म जानीमः । उ पादपूरणः । यांश्च पितॄन् वयं न प्रविद्म न प्रकर्षेण जानीमः । हे जातवेदः, ते पितरो यति यावन्तो वर्तन्ते तान् त्वं वेत्थ जानासि । या संख्या येषां ते यति 'किमः संख्यापरिमाणे' (पा० ५।२। ४१) इत्यादिना सूत्रेण यत्तद्भ्यामपि डतिरिति वार्तिकेन यच्छब्दात् डतिप्रत्ययः 'डति च' (पा. १।१।२५) इति तस्य षट्संज्ञत्वात् 'षट्भ्यो लुक्' (पा० ७ । १ । २२) इति जसो लुक् । यद्वा यतीन् शुचीन् नित्यनैमित्तिकानुष्ठानैर्निष्पापान ते तान् त्वं वेत्थ । यति विभक्तिलोपः । ते इत्यत्र व्यत्ययेन जस् । किंच स्वधाभिः पितॄणामन्नैः सुकृतं शोभनं कृतं यज्ञं त्वं जुषस्व सेवस्व॥६७ ॥

अष्टषष्टी।
इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः ।
ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नᳪ सु॑वृ॒जना॑सु वि॒क्षु ।। ६८ ।।
उ० इदं पितृभ्यः । इदमिति प्रत्यक्षतो निर्देशः । पितृभ्यो नमः अन्नं हविर्लक्षणं अस्तु । अद्य अद्यतनम् ये पितरः पूर्वासः पूर्वमीयुः स्वर्गम् । ये च उपरासः उपरतव्यापाराः कृतकृत्याः परं ब्रह्म ईयुर्याताः । ये च पार्थिवे रजसि। पृथिव्यां भवं पार्थिवं रजः ज्योतिरग्निः तत्र आनिषत्ताः आभिमुख्येन निषण्णाः । अग्निलोकं प्राप्ता इत्यर्थः । ये वा ये च नूनं निश्चयेन । सुवृजनासु साधुवृत्तासु । विक्षु यजमानेषु निषण्णाः । तेभ्य इदं पितृभ्यो नमो अस्त्वद्येति संबन्धः ॥ ६८॥
म० ये पितरः पूर्वासः पूर्वे ईयुः स्वर्गं जग्मुः । ये च उपरासः उपराः उपरमन्ते विरमन्ति ते उपरा उपरतव्यापाराः कृतकृत्याः सन्त ईयुः परं ब्रह्म प्रापुः । ये च पार्थिवे रजसि