पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सेषु सन्न' इत्युपक्रम्य 'पितृभ्यो नाराशᳪसेभ्यः स्वाहेति जुहुयात्' (१२। ६।१।३३ ) इति श्रुत्या नाराशंसे चमसे पितॄणां भक्षः प्रतिपादितः । ते पितरो नोऽस्माकं सुहवाः स्वाह्वाना भवन्तु । अस्मदाहूताः शीघ्रमायान्त्वित्यर्थः । एवं पितृष्वाहूतेषु वयं रयीणां धनानां पतयः स्वामिनः स्याम भवेम ॥ ६१॥

द्विषष्टी।
आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भिगृ॑णीत॒ विश्वे॑ ।
मा हि॑ᳪसिष्ट पितर॒: केन॑चिन्नो॒ यद्व॒ आग॑: पुरु॒षता॒ करा॑म ।। ६२ ।।
उ० आच्या जानु । दशर्चोऽनुवाकः । तत्र नव पित्र्या दशम्यैन्द्री गायत्री। द्वितीयातृतीये नवमी चानुष्टुभः । त्रिष्टुभ इतराः । पितर उच्यन्ते । आच्या जानु सव्यं जानु पातयित्वा । दक्षिणतो निषद्य दक्षिणतोऽवस्थानं कृत्वा । रूपतोयं निर्देशः । एवंस्वभावा होते । 'अथैनं पितरः प्राचीनावीतिनः सव्यं जान्वाच्योपासीत' इति श्रुतिः । इममस्मदीयं यज्ञम् अभिगृणीत अभिष्टुवत दक्षिणामन्त्रकालकर्तृहविर्यजमानोत्कर्षैः साध्वयं यज्ञ इति । विश्वे सर्वे सोमवन्तः बर्हिषदः अग्निष्वात्ताश्च । मा च हिंसिष्ट । माच हिंसां कुरुत । हे पितरः केनचिदपि नः अस्मान् यत् यद्यपि वः युष्माकम् आगः अपराधः। आगःशब्दः सान्तो नपुंसकलिङ्गोऽपराधवचनः । पुरुषता । विभक्तिलोपः पुरुषत्वेन चलचित्ततया । कराम कुर्मः ॥ ६२ ॥
म० कात्यायनेन आच्या जान्वित्यनुवाकस्य विनियोगो नोक्तः । उदीरतामित्यनुवाकद्वयस्य श्राद्धेऽश्नत्सु द्विजेषु जपे विनियोगः । दशर्चोऽनुवाकः । आद्या नव पितृदेवत्याः । द्वे त्रिष्टुभौ । हे पितरः, विश्वे सर्वे सोमवन्तो बर्हिषदोऽग्निष्वात्ताश्च यूयमिमं यज्ञं सौत्रामणीमभिगृणीत अभिष्टुत । दक्षिणामन्त्रकालकर्तृहविर्यजमानोत्कर्षैः साध्वयं यज्ञ इति स्तुतिं कुरुतेत्यर्थः । किं कृत्वा । जान्वाच्य वामजानु पातयित्वा । तथा दक्षिणतो निषद्य दक्षिणाभिमुखा उपविश्य । स हि तेषां स्वभावः । अथैनं पितरः प्राचीनावीतिनः सव्यं जान्वाच्योपासीदन्' इति श्रुतेः । किंच हे पितरः, केनचित् केनाप्यपराधेन नोऽस्मान् मा हिंसिष्ट हिंसां मा कुरुत । हिनस्तेर्लुङ् । यत् यस्मात् पुरुषता पुरुषस्य भावः पुरुषता विभक्तिलोपः । पुरुषभावेन चलचित्तत्वेन वो युष्माकमागोऽपराधं वयं कराम कुर्मः। करोतेः शपि लङि रूपम् अडभावः । यद्यप्यपराधिनो वयं तथापि मास्मान् वधिष्टेत्यर्थः ॥ ६२॥

त्रिषष्टी।
आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य ।
पु॒त्रेभ्य॑: पितर॒स्तस्य॒ वस्व॒: प्र य॑च्छत॒ त इ॒होर्जं॑ दधात ।। ६३ ।।

उ० आसीनासः ये यूयमासीनाः । अरुणीनाम् अरुणवर्णानां अरुणवर्णाहि ता ऊर्णा भवन्ति याभिः कुतपाः क्रियन्ते कुतपप्रियाश्च पितरः 'कुतपं चासने दद्यात्' इति स्मृतिः। यद्वा अरुणवर्णानां रश्मीनाम् उपस्थे उत्सङ्गे आसीना आदित्यलोकजितः पितर उच्यन्ते । रयिं धनम् धत्त दत्त । दाशुषे हवींषि दत्तवते यजमानाय मर्त्याय मनुष्याय । पुत्रेभ्यश्च हे पितरः, यजमानार्थं पुत्रवचनम् । सर्वे हि पितॄणां पुत्रा यजमानाः । तस्य यजमानस्य वस्वः प्रयच्छत दत्त । यदभिप्रेतं वसुनो धनस्य च इह अस्मदीये उर्जं दधात स्थापयत ॥ ६३ ॥
म०. हे पितरः, दाशुषे हविर्दत्तवते मर्त्याय मनुष्याय यजमानाय यूयं रयिं धनं धत्त दत्त । कीदृशा यूयम् । अरुणीनामरुणवर्णानामूर्णानामुपस्थे उपरिभागे आसीनासः आसीनाः उपविष्टाः । याभिः कुतपाः क्रियन्ते ता ऊर्णा अरुणा भवन्ति 'कुतपं चासने दद्यात्' इति स्मृतेः कुतपप्रियाः पितरः । यद्वा अरुणीनामरुणवर्णानां रश्मीनामुपस्थे उत्सङ्गे आसीनाः । आदित्यलोकस्था इत्यर्थः । किंच हे पितरः, पुत्रेभ्यो यजमानेभ्यः तस्य वस्वः वसुनो धनस्य प्रयच्छत दत्त । कर्मणि षष्ठी । यदभीष्टं धनं तद्दत्त । पितॄणां पुत्रा एव यजमानाः । ते यूयमिहास्मदीये यज्ञे ऊर्जं रसं दधात स्थापयत ॥ ६३॥

चतुःषष्टी।
यम॑ग्ने कव्यवाहन॒ त्वं चि॒न्मन्य॑से र॒यिम् । तन्नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म् ।। ६४ ।।
उ०. यमग्ने कव्यवाहन । स्विष्टकृदग्निरुच्यते चतसृभिर्ऋग्भिः । हे अग्ने कव्यवाहन, कव्यं वोढव्यमेत्ययमधिकारो यस्य स एवं संबोध्यते । यं रयिं हविर्लक्षणं धनम् त्वं चित् त्वमपि मन्यसे अवगच्छसि । साधु शक्यते तेन श्रेयःप्राप्तुमिति । तं हविर्लक्षणं रयिं धनम् नः अस्माकं स्वभूतम् गीर्भिः वाग्भिः पुरोनुवाक्यायाज्यावषट्कारलक्षणाभिः । श्रवाय्यम् हविर्विशेषणमेतत् । श्रवणीयम् देवत्रा देवेभ्यः पनय देहि । पनतिर्दानकर्मा । युजं यथायोगम् ॥ ६४ ॥
म०. द्वे अनुष्टुभौ । कव्यं पितृभ्यो देयमन्नं वहतीति कव्यवाहनः 'कव्यपुरीषपुरीष्येषु ञ्युट्' (पा० ३।२।६५) इति ञ्युट्प्रत्ययः । हे कव्यवाहन हे अग्ने, त्वं चित् त्वमपि यं रयिं हविर्लक्षणं धनं मन्यसे उत्तम जानासि नोऽस्माकं तं रयिं देवत्रा देवेषु पनय देहि । पनतिर्दानकर्मा । 'देवमनुष्यपुरुष' (पा० ५। ४ । ५६) इत्यादिना सप्तम्यर्थे देवात् त्राप्रत्ययः । कीदृशं रयिम् । गीर्भिः वाग्भिः पुरोनुवाक्यायाज्यावषट्कारलक्षणाभिः श्रवाय्यं श्रोतुं योग्यम् 'श्रुदक्षिस्पृहिगृहिदयिभ्य