पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टपञ्चाशी।
आय॑न्तु नः पि॒तर॑: सो॒म्यासो॑ऽग्निष्वा॒त्ताः प॒थिभि॑र्देव॒यानै॑: ।
अ॒स्मिन्य॒ज्ञे स्व॒धया॒ मद॒न्तोऽधि॑ ब्रुवन्तु॒ ते॒ऽवन्त्व॒स्मान् ।। ५८ ।।
उ० आयन्तु नः । चतस्रोऽग्निष्वात्तेभ्यः । आयन्तु आगच्छन्तु नः अस्माकं पितरः । सोम्यासः सोमसंपादिनः । अग्निष्वात्ताः पुनः यान् अग्निरेव स्वदयति । नहि ते श्रौतस्मार्तकर्मकारिणः । पथिभिर्देवयानैः देवसहगमनैः । देवसहयायिनस्ते पितरो येषामेतत्कर्म क्रियते पुत्रपौत्रप्रपौत्रैः । उक्तं च 'पुत्रेण लोकं जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नयाप्नोति विष्टपम् इति। आगत्य च। अस्मिन्यज्ञे स्वधया अन्नेन । मदन्तः तृप्यन्तः । परिपुष्टा अधिब्रुवस्तु । तेऽवन्त्वस्मानिति व्याख्यातम् ॥ ५८ ॥
म० चतस्र ऋचोऽग्निष्वात्तानां पितॄणाम् । नोऽस्माकं पितरः देवयानैः पथिभिर्मागैः आयन्तु आगच्छन्तु । देवैः सह यान्ति पितरो येषु ते देवयाना मार्गाः तैः । कीदृशाः पितरः। सोम्यासः सोम्याः सोमपानार्हाः । अग्निष्वात्ताः अग्निना स्वात्ताः स्वादिताः अग्निर्यान् दहन् स्वादयति । श्रौतस्मार्तकर्मानुष्ठायिनः । येषां पुत्रादिभिरेतत्कर्मानुष्ठीयते । तदुक्तम् ‘पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम्' इति । किंच पितर आगत्यास्मिन् यज्ञे स्वधयान्नेन मदन्तः तृप्यन्तस्तुष्टाः सन्तो नोऽस्मानधिब्रुवन्तु अधिकान् वदन्तु । तद्वाक्यात्तथैव वयमधिकाः स्यामेत्यर्थः । ते पितरोऽस्मानवन्तु पालयन्तु ॥ ५८ ॥

एकोनषष्टी।
अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सद॑:सदः सदत सुप्रणीतयः ।
अ॒त्ता ह॒वीᳪषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिᳪ सर्व॑वीरं दधातन ।। ५९ ।।
उ० अग्निष्वात्ताः पितरः आ इह गच्छत आगच्छत इह । एत्य च सदःसदः गृहं गृहं प्रति सदत उपविशत । . हे सुप्रणीतयः साधुप्रणयनाः । ततः सुखोपविष्टाः अत्त भक्षयत । हवींषि प्रयतानि व्यपगतरागद्वेषमोहैरभिसंस्कृतानि शुचीनि । बर्हिषि अन्नानि । अथ तृप्ताः सन्तः रयिं धनं सर्ववीरं दधातन। नकार उपजनः।।५९।।
म० हे अग्निष्वात्ताः पितरः, इह यज्ञे यूयमागच्छत। आगत्य च सदःसदः प्रतिगृहं सदत उपविशत 'नित्यवीप्सयोः' (पा० ८।१।४) इति द्वित्वम् । कीदृशा यूयम् । सुप्रणीतयः शोभना प्रणीतिः प्रणयनं येषां ते । ततः सदस्युपविष्टाः सन्तः हवींषि अत्त भक्षयत । अत्तेर्लोट् संहितायां दीर्घः । कीदृशानि हवींषि । बर्हिषि दर्भे प्रयतानि नियमपूर्वकं स्थापितानि प्रकर्षेण यम्यन्ते नियम्यन्ते तानि प्रयतानि । अथानन्तरं तृप्ताः सन्तः सर्ववीरं रयिं दधातन स्थापयत सर्वे वीराः वा यत्र तम् । 'निपातस्य च' (पा० ६ । ३ । १३६) इति दीर्घोऽथशब्दस्य 'तप्तनव्' (पा. ७।१।४५) इति तनबादेशः ॥ ५९ ॥

षष्टी।
ये अ॑ग्निष्वा॒त्ता ये अन॑ग्निष्वात्ता॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते ।
तेभ्य॑: स्व॒राडसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं॒ कल्पयाति ।। ६० ।।
उ० ये अग्निष्वात्ताः ये पितरः अग्निष्वात्ता अग्निना आस्वादिताः ये च अनग्निष्वात्ताः श्मशानकर्माप्राप्ताः । मध्ये दिवः द्युलोकस्य स्वधया स्वकर्मफलोपभोगेन मादयन्ते सुखं संसेवन्ते । तेभ्यः । तेषामिति विभक्तिव्यत्ययः । स्वराट् स्वयमेव राजत इति स्वराट् । अकृतकैश्वर्यो यः स स्वराडुच्यते । असुनीतिम् एताम् आत्मनो द्वितीयं सहायं कृत्वा । असून् प्राणान्नयतीत्यसुनीतिः । एताम् एतमिति लिङ्गव्यत्ययः । यथाकामं यथारुचि तन्वं शरीरं कल्पयाति कल्पयतु ॥६०॥ -
म० ये पितरः अग्निष्वात्ताः अग्निना दग्धाः विधिवदौर्ध्वदेहिकं प्राप्ताः । ये चानग्निष्वात्ता न अग्निना खादिता अदग्धाः श्मशानकर्म न प्राप्ताः सन्तः दिवः स्वर्गस्य मध्ये स्वधयान्नेन स्वकर्मोपार्जितेन मादयन्ते तृप्यन्ति सुखं सेवन्ते । | स्वराट् स्वेनैव राजते स्वराट् यमः तेभ्यः पितृभ्योऽर्थे यथावशं वशोऽभिलाषः यथाकाममेतां मनुष्यसंबन्धिनीं तन्वं शरीरं कल्पयाति कल्पयतु । लेट् 'लेटोऽडाटौ' तेभ्यो नरशरीरं यमो ददात्वित्यर्थः । कीदृशीं तन्वम् । असुनीतिम् असून् प्राणान् नयति प्राप्नोत्यसुनीतिः प्राणयुक्ता चिरकालजीविनीत्यर्थः । ते यथा पुनः स्तम्भनं कुर्वन्ति ॥ ६० ॥

एकषष्टी।
अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे नाराश॒ᳪसे सो॑मपी॒थं य आ॒शुः ।
ते नो॒ विप्रा॑सः सु॒हवा॑ भवन्तु व॒यᳪ स्या॑म॒ पत॑यो रयी॒णाम् ।। ६१ ।।
उ० अग्निष्वात्तान् । अग्निष्वात्तान् पितॄन् ऋतुमतः ऋतुसंयुक्तान् हवामहे आह्वयामः । नाराशंसे सोमपीथं सोमपानम् ये आशुः प्राप्नुयुः । नाराशंसे चमसे पितॄणां भक्षः श्रूयते । 'अथ यदि नाराशंसेषु सन्न' इत्युपक्रम्य । 'पितृभ्यो नाराशᳪसेभ्यः' इति । ते चाहूयमानाः विप्रासः मेधाविनः सुहवाः स्वाह्वाना भवन्तु । एवं कृते वयं स्याम पतयो रयीणाम् ॥ ६१ ॥
म० अग्निष्वात्तान् पितॄन् वयं हवामहे आह्वयामः । कीदृशान् । ऋतुमतः ऋतवो विद्यन्ते येषु ते ऋतुमन्तः तानृतुयुक्तानाह्वयामः । ये पितरो नाराशंसे चमसे सोमपीथं सोमपानमाशुः अश्नन्ति स्म 'अश भोजने' लिट् । 'अथ यदि नाराशᳪ