पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दधामि जुहोमि तेन समिदाधानेन दीक्षितः सन्नहं व्रतं कर्म श्रद्धां विश्वासं चोपैमि उपगच्छामि । त्वा त्वामिन्धे दीपयामि ॥ २४ ॥

पञ्चविंशी।
यत्र॒ ब्रह्म॑ च क्ष॒त्रं च॑ स॒म्यञ्चौ॒ चर॑तः स॒ह ।
तँल्लो॒कं पुण्यं॒ प्रज्ञे॑षं॒ यत्र॑ दे॒वाः स॒हाग्निना॑ ।। २५ ।।
उ० यत्र ब्रह्म । यत्र ब्रह्म च मूर्तिमत् क्षत्रं च । सम्यञ्चौ समीची इति प्राप्ते लिङ्गव्यत्ययः । चरतः सह अवियोगेन । तं लोकं पुण्यं प्रज्ञेषं प्रज्ञानं वा प्राप्ता भवन्तीत्यतः तल्लोकगमनं प्रार्थ्यते । यत्र देवाः सहाग्निना चरन्ति ॥ २५ ॥
म० पुण्यं पवित्रं लोकं प्रज्ञेषं जानीयाम् । लोकमप्राप्तानां तल्लोकज्ञानं न भवतीति स्वर्लोकगमनं प्रार्थ्यते । तं कम् । यत्र लोके ब्रह्म ब्राह्मणजातिः क्षत्रं क्षत्रियजातिश्च सहावियोगेन : चरतः तिष्ठत इत्यर्थः । कीदृशे ब्रह्मक्षत्रे । सम्यञ्चौ लिङ्गव्यत्ययः । समीची सम्यक् अञ्चतस्ते । तत्र चाग्निना सह देवाः संचरन्ति । सदा च विप्राः क्षत्रियाश्च यं गच्छन्ति तं देवलोकं प्राप्नुयामित्यर्थः ॥ २५ ॥

षड्विंशी।
यत्रेन्द्र॑श्च वा॒युश्च॑ स॒म्यञ्चौ॒ चर॑तः स॒ह । तँ लो॒कं पुण्यं॒ प्रज्ञे॑षं॒ यत्र॑ से॒दिर्न वि॒द्यते॑ ।। २६ ।।
उ० यत्रेन्द्रः । यत्र इन्द्रश्च वायुश्च सम्यञ्चौ संगतौ चरतः सह अवियुक्तौ । तं लोकं पुण्यं प्राप्नुयाम् । यत्र सेदिर्न विद्यते । अन्नलाभनिमित्तं सदनं कातर्यात्सेदिः ॥२६॥
म० यत्र लोके इन्द्रश्च वायुश्च सम्यञ्चों सह चरतः । यत्र च सेदिः सदनं सेदिः 'आदृगम-' (पा० ३।२। १७१) इति चात्किप्रत्ययः लिड्वत्त्वादेवाभ्यासलोपौ । अन्नाप्राप्तिजनितं : दुःखं सेदिः स यत्र न विद्यते तं लोकं पुण्यं पवित्रं प्रज्ञेषं प्रजानीयाम् । जानातेः 'सिब्बहुलं लेटि' (पा० ३ । १।। ३४) इति सिपीटि च रूपम् ॥ २६ ॥

सप्तविंशी।
अ॒ᳪशुना॑ ते अ॒ᳪशुः पृ॑च्यतां॒ परु॑षा॒ परु॑: । ग॒न्धस्ते॒ सोम॑मवतु॒ मदा॑य॒ रसो॒ अच्यु॑तः ।। २७ ।।
उ० अᳪशुना ते । द्वितीया सुरासन्धानेऽनुष्टुप् । सोमस्यांशुना ते तव हे सुरे, अंशुः पृच्यतां संपृच्यतां संमृज्यताम् । परुषा च परुः पर्वणा च पर्व संपृच्यताम् । एवं च कृत्वा गन्धस्तव सोममवतु संपृणक्तु समालिङ्गताम् । मदाय च रसः अच्युतः अनश्वरः आलिङ्गताम् ॥ २७ ॥
म० सुरादेवत्यानुष्टुप् सुरासंसर्जने विनियुक्ता । तत्सूत्रं सौत्रामण्यारम्भे (का० १९ । १) लिखितम् । हे सुरे, ते तव अंशुः भागः सोमस्यांशुना भागेन सह पृच्यतां संयुज्यताम्।। तव परुः पर्व सोमस्य परुषा पर्वणा सह पृच्यताम् । तव गन्धः अच्युतः अनश्वरो रसश्च सोममवतु आलिङ्गतु । किमर्थं । मदाय मत्ततायै । सुरायुक्तः सोमः पीतो मदजनको भवति अत उभयोर्योगोऽस्तु ॥२७॥

अष्टाविंशी।
सि॒ञ्चन्ति॒ परि॑ षिञ्च॒न्त्युत्सि॑ञ्चन्ति पु॒नन्ति॑ च । सुरा॑यै ब॒भ्र्वै॒ मदे॑ कि॒न्त्वो व॑दति कि॒न्त्वः ।। २८ ।।
उ० पूतामादत्ते । सिञ्चन्ति परि । अनुष्टुप् सौमी ऐन्द्री वा । सिञ्चन्ति याम् आचामभावमुपगताम् । आचामो भक्तमण्डः । परिषिञ्चन्ति पयःप्रभृतिभिः । उत्सिञ्चन्ति च ग्रहैः । पुनन्ति च यां गोवालपवित्र हिरण्यादिभिः । तस्यै सुरायै बभ्र्वै बभ्रुवर्णायै । षष्ठ्यर्थे चतुर्थ्यौ । मदेऽवस्थितः इन्द्रः । किंत्वो वदति किंत्वः किंत्वः इति वदति किं त्वं कस्य त्वं ब्रूहीति वदति ॥ २८ ॥
म०. सुरादेवत्येन्द्रदेवत्यावानुष्टुप् । पूतसुरादाने विनियोग उक्तः ( का० १९ । २ । ६)। बभ्र्वै बभ्रुवर्णायै तस्यै सुरायै । षष्ठ्यर्थे चतुर्थी । सुराया मदे स्थितः सुरया मत्तः इन्द्रः किंत्वः किंत्व इति वदति त्वं किम् कस्य त्वमित्याद्यन्यतिरस्कारकरं वचो वदति । यां सुरां सिञ्चन्ति पात्रे ऋत्विजः परिषिञ्चन्ति पयआदिभिः उत्सिञ्चन्ति । ग्रहैः गोवालपवित्र हिरण्यादिभिः पुनन्ति च ॥ २८॥

एकोनत्रिंशी ।
धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् । इन्द्र॑ प्रा॒तर्जु॑षस्व नः ।। २९ ।।
उ०. धानावन्तं करम्भिणम् । ऐन्द्री गायत्री प्रातःसवने पुरोडाशानां पुरोनुवाक्या । धानावन्तं धानाभिः संयुक्तं । करम्भिणं करम्भेण संयुक्तम् । अपूपवन्तं अपूपेन संयुक्तम् । उक्थिनं वचनवन्तं स्तुतिमन्तं भागम् हे इन्द्र, प्रातःसवने जुषस्व सेवस्व नः अस्माकम् ॥ २९ ॥
म० इन्द्रदेवत्या गायत्री विश्वामित्रदृष्टा स्मार्ते श्रवणाकर्मणि धानाहोमे विनियुक्ता प्रातःसवने पुरोडाशपुरोनुवाक्यापि । हे इन्द्र, त्वं प्रातःकाले नोऽस्माकं पुरोडाशं जुषस्व । कीदृशम् । धानावन्तं धाना विद्यन्ते यत्र तम् । करम्भिणं करम्भोऽस्यास्ति । अपूपवन्तमपूपाः सन्ति यत्र । उक्थिनमुक्थं शस्त्रं यत्र स्तुतियुक्तम् ॥ २९ ॥

त्रिंशी।
बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् । येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ।। ३० ।।
उ० बृहदिन्द्राय । ऐन्द्राबृहत्या गायतीति । साम्नइयं योनिः । बृहत्साम इन्द्राय गायत उपशब्दयत । हे मरुतः । ऋत्विजो वा मरुतः । वृत्रहन्तमम् वृत्रंप्रति अति