पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मा 'शेषं यजमानो भक्षयतीदᳪ हविरिति' (का० १९।। ३ । २६) । उखास्थितं शेषं पयो यजमानो भक्षयतीत्यर्थः ।। यजमानाशीर्देवत्या त्र्यवसाना अष्टिः एको व्यूहः । इदं पयोरूपं हविर्मे मम स्वस्तये अविनाशायास्तु । कीदृशं हविः । प्रजननं प्रजनयतीति प्रजननं प्रजोत्पादकम् । दशवीरं दश वीराः प्राणा यत्र तत् । यत्र पीते दशानां प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनञ्जयसंज्ञानां प्राणानां स्वास्थ्यं भवतीत्यर्थः । 'प्राणा वै दशवीराः प्राणानेवात्मन्धत्ते' ( १२ । ८।१।२२) इति श्रुतेः । तथा सर्वगणं सर्वे गणा अङ्गानि यस्मिंस्तत् । यत्र पीतेऽङ्गानि स्वस्थानि स्युरित्यर्थः । 'अङ्गानि वै सर्वे गणा अङ्गान्येवात्मन्धत्ते' (१२।८।१।२२) इति श्रुतेः। आत्मसनि आत्मानं सनोति ददाति सनति संभजते वा 'षणु दाने' तुदादिः 'षण संभक्तौ' भ्वादिः । एवमग्रेऽपि । प्रजासनि पशुसनि 'आत्मानमेव सनोति पशून्सनोति' (१२। ८ । १। २२) इत्यादि श्रुतेः । लोकसनि लोकमैहिकं सनोति ऐहिकं सुखं ददातीत्यर्थः । 'लोकाय वै यजते तमेव जयति' (२२) इति श्रुतेः । अभयसनि अभयं स्वर्गं सनोति 'स्वर्गो वै लोकोऽभयᳪ स्वर्ग एव लोकेऽन्ततः प्रतितिष्ठति' (२२) इति श्रुतेः । एवं हविः प्रार्थ्याग्निं प्रार्थयते । अग्निमें मम प्रजां बहुलां प्रवृद्धां करोतु । एवमग्निमुक्त्वा ऋत्विज आह । हे ऋत्विजः, अस्मासु अन्नं व्रीह्यादि पयो दुग्धं रेतो वीर्यवत्तां यूयं धत्त स्थापयत । 'तद्य एवमेतेन याजयन्ति तानेतदाहैतम्मयि सर्वं धत्ते' ( २२) इति श्रुतेः ॥ ४८ ॥

एकोनपञ्चाशी।
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तर॑: सो॒म्यास॑: ।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ।। ४९ ।।
उ० उदीरताम् । त्रयोदश पैञ्यस्त्रिष्टुभः जगत्येकादशी। यजमानवाचनम् । उदीरताम् 'ईर गतौ' उद उपसर्गात्परः । ऊर्ध्वं क्रमतां ऊर्ध्वं गच्छन्तु । अवरे येस्मिन् लोके अवस्थिताः पितरः । उत्परासः पर एव परासः ये च परस्मिन् लोकेऽवस्थितास्तेऽपि उदीरताम् तस्मादपि स्थानाद्विशिष्टतरं स्थानं गच्छन्तु । उन्मध्यमाः । मध्ये भवा मध्यमाः । येऽपि मध्यमास्ते ततो विशिष्टतत्स्थानमुद्गच्छन्तु । पितरः सोम्यासः सोमसंपादिनः । असुं ये ईयुः येऽपि असुं प्राणं ईयुः समन्वियुः वातात्मानः अवृका अनमित्राः मध्यस्थत्वमास्थिताः । ऋतज्ञाः सत्यज्ञा वा यज्ञज्ञा वा स्वाध्यायनिष्ठा वा । तेपि ततो विशिष्टतरं स्थानमृच्छन्तु । एवं च स्वकीयेन कर्मणा अस्मदीयेन च ये उन्नतिं प्राप्ताः ते नः अस्मान् अवन्तु पालयन्तु पितरः हवेषु आह्वानेषु ॥ ४९ ॥
म० सोमवतां बर्हिषदाममग्निष्वात्तानां च' ( का० १९ ।।३ । २१)। उदीरतामित्यादित्रयोदशर्चोऽनुवाकः तत्र । उदीरताम् ( ४९ ) अङ्गिरसः (५०) ये नः (५१) इति ऋक्त्रयस्याग्निष्वात्ता (६१) नित्यन्त्यायाश्च विनियोगः कल्पकृतोक्तः। त्वं सोम (५२) इति तृचं सोमवताम् बर्हिषद (५५) इति तृचं बर्हिषदाम् आयन्तु न (५८) इति तृचमग्निष्वात्तानाम् पुनन्तु ( ३९) इति नवर्चवाचनानन्तरं त्वं सोमेत्यादि (६२) तन्वं कल्पयातीत्यन्तं नवर्चं प्रत्यृचमध्वर्युर्यजमानेन वाचयतीत्यर्थः । त्रयोदश शङ्खदृष्टाः पितृदेवत्याः । एकादशी अग्निष्वात्ताः पितरः (५९) इयं जगती अन्या द्वादश त्रिष्टुभः । अवरे अस्मिन् लोकेऽवस्थिताः पितरः उदीरताम् ऊर्ध्वं क्रमन्ताम् ऊर्ध्वलोकं गच्छन्तु । 'ईर कम्पने' अदादिः लोट् । परासः पराः परस्मिन् लोके स्थिताः पितर उदीरतां तस्मादपि स्थानात् परं स्थानं गच्छतु । उन्मध्यमाः मध्ये भवा मध्यमाः पितरः उदीरताम् । कीदृशाः पितरः । सोम्यासः सोमं संपादयन्ति ते सोम्याः। ये च असुं प्राणमीयुः वातात्मानो वातरूपं प्राप्तास्ते पितरो हवेषु आह्वानेषु नोऽस्मानवन्तु रक्षन्तु । कीदृशाः। अवृकाः नास्ति वृकः शत्रुर्येषां ते उदासीनाः ऋतज्ञाः सत्यज्ञा यज्ञज्ञा वा स्वाध्यायनिष्ठा वा ॥ ४९ ॥

पञ्चाशी।
अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यास॑: ।
तेषां॑ व॒यᳪ सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।। ५० ।।
उ० अङ्गिरसो नः । अङ्गिरा ऋषिस्तस्यापत्यानि बहूनि अङ्गिरसः नः अस्माकं पितरः नवग्वाः नवगतयः पुनःपुनरपुनरुक्त्या गच्छन्ति । नवनीया स्तोतव्या वा गतिर्येषां ते तथोक्ताः । ये च अथर्वाणः बहून्यपत्यानि अथर्वाणः । थर्वतिश्चरतिकर्मा तत्प्रतिषेधः । ये च भृगवः भृगोर्बहून्यपत्यानि । सोम्यासः सोमसंपादिनः । तेषां पितॄणां वयं सुमतौ स्याम । यज्ञियानां यज्ञसंपादिनाम् । अपिच भद्रे भन्दनीये सौमनसे कल्याणमनसे स्याम भवेम ॥५०॥
म० ये नोऽस्माकं पितरः तेषां सुमतौ शोभनबुद्धौ वयं स्याम भवेम । अस्तेर्लिङ् तेऽस्मासु सुमतिं कुर्वन्त्वित्यर्थः । तेषां भद्रे कल्याणकारिणि सौमनसे शोभनमनस्त्वेऽपि वयं स्याम । सुमनसो भावः सौमनसम् । अस्मासु कल्याणं मनः कुर्वन्त्वित्यर्थः । कीदृशानां तेषाम् । यज्ञियानां यज्ञे हिता यज्ञियाः यज्ञसंपादिनः । कीदृशाः पितरः । अङ्गिरसः अङ्गिरसो बहून्यपत्यानि अङ्गिरसः बहुत्वे तद्धितलोपः । नवा नूतना ग्वा गतिर्येषां ते नवा नवनीया स्तोतव्या ग्वा येषामिति वा । अथर्वाणः अथर्वणो मुनेर्बहून्यपत्यानि । भृगवः भृगोरपत्यानि । सोम्यासः | 'सोममर्हति यः' (पा० ४ । ४ । १३७ ) इति यः सोमसंपादिनः ॥५०॥