पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्वधांप्रति गमनशीलाः स्वधायिनः 'सुप्यजातौ णिनिस्ताच्छील्ये' । स्वधानमः अन्नमस्तु । बहुवचनं पितृव्यसव्यपेक्षं पूजार्थं वा । पितामहेभ्यः उक्तोदर्कम् । प्रक्षालनेनोपसिञ्चति । अक्षन् अत्तवन्तः भक्षितवन्तः पितरः। अमीमदन्त मादिताः पितरः। अतीतृपन्त तर्पिताः पितरः। जपति पितरः पितरः शुंधध्वम् पाणिप्रक्षालनं कुरुध्वम् ॥ ३६॥
म० 'अङ्गारेषु वा बहिष्परिधि दक्षिणतो जुहोत्याश्विनमुत्तरे मध्यमे सारस्वतमैन्द्रं दक्षिणे पितृभ्य इति प्रतिमन्त्रं' (का० १९ । ३ । १७) सुराग्रहाणां भक्षणम् घ्राणम् अन्येन मूल्येन भूपालपानमिति पक्षत्रयमुक्तम् । चतुर्थमाह यद्वाहवनीयस्याङ्गारेषु परिधेर्बहिर्दक्षिणदिक्स्थेषु होमशेषान्सुराग्रहान्पितृभ्य इति प्रतिमन्त्रं जुहोति तदेवाह । उत्तरेऽङ्गारे आश्विनम् मध्यमे सारस्वतम् दक्षिणे ऐन्द्रं सुराग्रहं जुहोतीति सूत्रार्थः । अपसव्येन कर्म । सप्त यजूंषि पितृदेवत्यानि । पितृभ्यः स्वधासंज्ञकं नमोऽन्नमस्तु 'स्वधा वै पितॄणामन्नम्' इति श्रुतेः । यद्वा पितृभ्यः स्वधान्नमस्तु । तेभ्यो नमो नमस्कारश्चास्तु । कीदृशेभ्यः । स्वधायिभ्यः स्वधामन्नं प्रति यन्ति गच्छन्तीत्येवंशीलाः स्वधायिनस्तेभ्यः । 'इण् गतौ' इति धातोः 'सुप्यजातौ णिनिस्ताच्छील्ये (पा० ३ । २ । ७८) इति णिनिप्रत्ययः। पितृभ्य इति बहुवचनं पितृव्याद्यपेक्षं पूजार्थं वा । एवं पितामहेभ्यः प्रपितामहेभ्य इति मन्त्रौ व्याख्येयौ । 'अक्षन्पितर इति प्रक्षालनेनोपसिञ्चति' ( का० १९ । ३ । १८) । सौरग्रहहोमपात्रक्षालनजलेन यथास्वमङ्गारान्सिञ्चति प्रतिमन्त्रम् । पितरः अक्षन्भक्षितवन्तः । 'घस्लृ अदने' लङि रूपम् । पितरोऽमीमदन्त 'मद तृप्तौ तृप्ताः । अतीतृपन्त तर्पिता अस्माभिः पितरः । यद्वास्मानतीतृपन्त तर्पयन्ति तृप्ताः सन्तोऽभीष्टदानेन । 'पितरः शुन्धध्वमिति जपति' ( का० १९ । ३ । १९ ) हे पितरः, शुन्धध्वं शुद्धाः पाणिप्रक्षालनेन शुद्धा यूयं भवत ॥ ३६ ॥

सप्तत्रिंशी।
पु॒नन्तु॑ मा पि॒तर॑: सो॒म्यास॑: पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा ।
पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा॒ विश्व॒मायु॒र्व्य॒श्नवै ।। ३७ ।।
उ० नवर्चं वाचयति पावमानं पुनन्तु मा । द्वे पित्र्यावनुष्टुभौ । पुनन्तु मां पितरः सोम्यासः सोमसंपादिनः । पुनन्तु मां पितामहाः । पुनन्तु प्रपितामहाः । पावनं च पापापनोदः । शुद्धिः फलग्रहणयोग्यता । केन पुनन्तु । पवित्रेण । कथंभूतेन । शतायुषा । येन पूतः शतायुर्भवति तत्पवित्रं तत्साधनत्वाच्छतायुरेव । पुनन्तु मां पितामहाः पुनन्तु प्रपितामहाः पवित्रेण शतायुषा । आदरार्थोऽभ्यासः विशेषार्थो वा । तथा मां पितृपितामहाः प्रपितामहाः पुनन्तु यथा विश्वं सर्वमायुः अहं व्यश्नवै व्यश्नुयाँ प्राप्नुयाम् ॥ ३७॥
म० 'कुम्भीमासज्य कुम्भवच्छतवितृष्णां वालपवित्रहिरण्यानन्तर्धाय नवर्चं वाचयति पुनन्तु मेति' ( का० १९ । ३ । २०)। दक्षिणाहवनीयपार्श्वयोः स्तम्भद्वयोपरि दक्षिणाग्रं वंशं निधाय तत्रस्थे शिक्ये शतच्छिद्रां कुम्भीं निधाय कुम्भीतले वालादीनि निधाय तत्र सुराशेषं सिक्त्वाग्नेरुपरि स्रवन्त्यां सुरायां नवर्चं यजमानं वाचयेत् । वालो गोऽश्ववालकृतं सुरागलनम् । पवित्रमजाविलोमकृतं पयोगलनम् । हिरण्यं शतमानमितम् । प्रत्यृचं वाचनमिति सूत्रार्थः । द्वे पितृदेवत्येऽनुष्टुभौ । पितरो मा मां पुनन्तु शोधयन्तु । केन । पवित्रेण गोऽश्ववालकृतेन । कीदृशेन पवित्रेण । शतायुषा शतं शतवर्षमितमायुर्यस्मात्तच्छतायुस्तेन । येन पूतः शतायुर्भवतीत्यर्थः । पितामहाश्च मां पुनन्तु प्रपितामहाश्च मां पुनन्तु । कीदृशाः पित्रादयः । सोम्यासः सोम्याः सोमं संपादयन्ति सोम्याः । आदरार्थं पुनर्वचनम् । पितामहाः प्रपितामहाश्च मां पुनन्तु शतायुषा पवित्रेण । एवं पित्रादिभिः पूतोऽहं विश्वं सर्वमायुः व्यश्नवै व्याप्नवै प्राप्नुयाम् 'अशूङ् व्याप्तौ' लोट् ॥ ३७ ॥

अष्टत्रिंशी।
अग्न॒ आयू॑ ᳪषि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना॑म् ।। ३८ ।।
उ० अग्न आयूंषि । आग्नेयी गायत्री । हे अग्ने, यतस्त्वम् आयूंषि पवसे आयुःप्रापकाणि कर्माणि चेष्टयसे स्वभावतएव अतस्त्वां प्रार्थये। आसुव अभ्यनुजानीहि । उर्जं दधि उपसेचनम् । इषं च व्रीह्यादि नः अस्माकम् । एतद्धि जीवनहेत्वित्यभिप्रायः । किंच आरे दूरे एवावस्थितं सन्तं बाधस्व तैस्तैरुपायैः । दुच्छुनां दुष्टं श्वानम् । शुना चात्र दुर्जनप्रभृतयो लक्ष्यन्ते । तैः रहितो हि पुरुषः परमायुः प्राप्नोति ॥ ३८॥
म० प्रजापतिदृष्टाग्निदेवत्या गायत्री । हे अग्ने, त्वमायूंषि पवसे स्वत एवायुःप्रापकाणि कर्माणि पावयसे चेष्टयसे । अन्तर्भूतण्यन्तः । अतएव नोऽस्मदर्थमिषं ब्रीह्यादिधान्यमूर्जं दध्यादि च आसुव ज्ञापय देहीत्यर्थः । जीवनहेतुत्वात् । किंच आरे दूरेऽपि स्थितानां दुच्छुनां दुष्टाश्च ते श्वानश्च दुच्छ्वानः तेषाम् । कर्मणि षष्ठी । दुष्टान् शुनः सारमेयप्रायान्दुर्जनान्बाधस्व नाशयसि दुर्जने जीवनाशक्तेः ॥ ३८॥

एकोनचत्वारिंशी।
पु॒नन्तु॑ मा देवज॒ना॑: पु॒नन्तु॒ मन॑सा॒ धिय॑: । पु॒नन्तु॒ विश्वा॑ भू॒तानि॒ जात॑वेदः पुनी॒हि मा॑ ।। ३९ ।।
उ० पुनन्तु मा । लिङ्गोक्तदेवतानुष्टुप् । पुनन्तु मा देवजनाः देवानुगामिनः । पुनन्तु मनसा संयुक्ताः । धियः