पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पठितस्तथाप्यत्र ऋत्विग्वाचकः । 'महिषा नमोभिरित्यृत्विजो वै महिषाः' ( १२ । ८।१।२) इति श्रुतेः ॥ ३२॥

त्रयस्त्रिंशी।
यस्ते॒ रस॒: सम्भृ॑त॒ ओष॑धीषु॒ सोम॑स्य॒ शुष्म॒: सुर॑या सु॒तस्य॑ । तेन॑ जिन्व॒ यज॑मानं॒ मदे॑न॒ सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम् ।। ३३ ।।
उ० सुराग्रहाञ्जुहोति । यस्ते रसः उक्ता देवता छन्दश्चाधस्तनया । हे सुरे, यस्तव रसः संभृतः एकीकृतः ओषधीषु वर्तमानः । सोमस्य च यः शुष्मः यद्बलम् । सुरया सह अभिषुतस्य तेनोभयेन रसेन बलेन च जिन्वन् प्रीणीहि यजमानं मदेन सुरोत्थेन सरस्वतीं च । अश्विनौ च इन्द्रं च अग्निं च ॥ ३३ ॥
म० 'पालाशैः सौरान्नमृण्मयमाहुतिमानशे' ( का० १९ । ३।९) इति श्रुतेर्यस्त इति प्रतिप्रस्थाता पालाशोलूखलैः सुराग्रहान्दक्षिणेऽग्नौ यजति । मृण्मयपात्रमाहुतिं न व्याप्नोतीत्यर्थः । हे सुरे, ओषधीषु वर्तमानो यस्ते तव रसः संभृत एकीकृतः 'अपां वा एष ओषधीनां च रसो यत्सुरा' (१२ । ८।१।४) इति श्रुतेः । सुरया सह सुतस्य सोमस्य च यः शुष्मः यद्बलम् । मदयतीति मदस्तेन मदेन मदजनकेन तेन सुरारसेन सोमशुष्मेण च यजमानं सरस्वतीमश्विनौ इन्द्रमग्निं च जिन्व प्रीणीहि ॥ ३३ ॥

चतुस्त्रिंशी।
यम॒श्विना॒ नमु॑चेरासु॒रादधि॒ सर॑स्व॒त्यसु॑नोदिन्द्रि॒याय॑ ।
इ॒मं तᳪ शु॒क्रं मधु॑मन्त॒मिन्दु॒ᳪ सोम॒ᳪ राजा॑नमि॒ह भ॑क्षयामि ।। ३४ ।।
उ० पयोग्रहान् भक्षयन्ति द्वाभ्यां त्रिष्टुब्भ्यामृत्विग्यजमानाः । यमश्विना नमुचिरसुर इन्द्रस्य इन्द्रियं वीर्यमपिबत् तस्य शिरसि छिन्ने लोहितमिश्रः सोम उदतिष्ठत् तदुत्पूयापिबन्त तदभिवादिनी एषा ऋक् । यत् अश्विना अश्विनौ । नमुचेरासुरात् असुरपुत्रात् अधि सकाशादाहृत्य । सरस्वती च असुनोत् अभ्यषुणोत् । इन्द्रियाय वीर्याय इन्द्रभैषज्याय वा । इमं तं शुक्रम् शुक्लम् असंसृष्टलोहितम् । मधुमन्तं रसवन्तम् । इन्दुम् । 'इदि परमैश्वर्ये' परमेश्वरम् । सोमं राजानम् इह भक्षयामि ॥ ३४ ॥
म० 'अध्वर्युः प्रतिप्रस्थाताग्नीद्यमश्विनेत्याश्विनं भक्षयन्ति द्विर्द्विरावर्तᳪ होतृब्रह्ममैत्रावरुणाः सारस्वतमाश्विनवदैन्द्रं यजमानः' ( का० १९ । ३ । १०-१३) । त्रय आवृत्याश्विनं पयोग्रहं क्रमेण द्विर्द्विर्भक्षयन्ति सकृन्मन्त्रः । होत्रादयः सारस्वतं पयोग्रहमदन्ति यजमान ऐन्द्रं पयोग्रहमत्तीति सूत्रार्थः । नमुचिनेन्द्रस्य वीर्यं पीतम् तस्मिन् हते रुधिरमिश्रः सोमो जातस्तं देवाः पपुस्तदभिवादिन्येषा ऋक् । असुरस्यापत्यमासुरस्तस्मादसुरपुत्रान्नमुचेरधि सकाशाद् यं सोममाहरतामिति शेषः । 'अश्विनौ ह्येनं नमुचेरध्याहरताम्' ( १२ । ८ । १ । ३) इति श्रुतेः । सरस्वती च यं सोममश्विभ्यामानीतमसुनोदभ्यषुणोत् । किमर्थम् । इन्द्रियाय इन्द्रस्य वीर्याय भैषज्याय वा। तमश्व्याहृतं सरस्वतीसुतमिमं राजानमिह यज्ञेऽहं भक्षयामि । कीदृशं सोमम् । शुक्रं शुद्धं लोहितासंसृष्टमतएव मधुमन्तं रसवन्तमिन्दुम् । 'इदि परमैश्वर्ये' परमैश्वर्यप्रदम् ॥ ३४ ॥

पञ्चत्रिंशी।
यदत्र॑ रि॒प्तᳪ र॒सिन॑: सु॒तस्य॒ यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः ।
अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॒ सोम॒ᳪ राजा॑नमि॒ह भ॑क्षयामि ।। ३५ ।।
उ०. यदत्र । यत् अत्र अस्यां सुरायाम् रिप्तं लिप्तं लग्नम् । रसिनः रसवतः सुतस्य अभिषुतस्य सोमस्य । यच्च इन्द्रः अपिबत्पीतवान् । इन्द्रदेवत्यो हि सोमः । शचीभिः कर्मभिः । अहं तत् । यत्तदिति सुविज्ञाते नपुंसकलिङ्गता । अस्य मनसा शिवेन सोमं राजानमिति षष्ठ्या विपरिणामः । सोमस्य राज्ञः इह भक्षयामि ॥ ३५ ॥
म० 'यदत्रेति सौरान्भक्षयन्ति यथाभक्षितं प्राचीनावीतिनो दक्षिणतः' ( का० १९ । ३ । १४ ) । अध्वर्य्वादय आश्विनं होत्रादयः सारस्वतं यजमान ऐन्द्रं सुराग्रहं यदत्रेति मन्त्रेण विहारदक्षिणे स्थिताः प्राचीनावीतिनो भक्षयन्ति आघ्राणमन्येन मूल्येन भक्षणमित्यर्थः । रसोऽस्त्यस्मिन्निति रसी तस्य रसिनो रसवतः सुतस्याभिषुतस्य सोमस्य यत् । सामान्ये नपुंसकत्वम् । यो भागः अत्र सुरायां रिप्तं लिप्तं सोमसंबन्धि यत् सुरायां लग्नम् । यच्च सुरालग्नं सोमांशं शचीभिः कर्मभिः शुद्धं कृत्वा इन्द्रः अपिबत् । सोमं राजानमिति द्वितीये षष्ठ्यर्थे अस्य विशेषणवात् । अस्य सोमस्य राज्ञः तत् तं सुरानिर्गतं सोमं शिवेन शुद्धेन मनसा इह यज्ञेऽहं भक्षयामि सुरासकाशाच्छुद्धं कृत्वा भक्षयामि । तथाच श्रुतिः 'अहं तदस्य मनसा शिवेनेत्यशिव इव वा एष भक्षो यत्सुरा ब्राह्मणस्य शिवमेवैनमेतत्कृत्वात्मन्धत्ते' (१२। ८ । १।५) इति ॥ ३५॥

षट्त्रिंशी।
पि॒तृभ्य॑: स्वधा॒यिभ्य॑: स्व॒धा नम॑: पिताम॒हेभ्य॑: स्वधा॒यिभ्य॑: स्व॒धा नम॒: प्रपि॑तामहेभ्यः स्वधा॒यिभ्य॑: स्व॒धा नम॑: । अक्ष॑न् पि॒तरो ऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तर॒: पित॑र॒: शुन्ध॑ध्वम् ।। ३६ ।।
उ० अङ्गारेषु बर्हिप्परिधिषु सुरां जुहोति । पितृभ्यः पैत्राणि यजूंष्यस्यां कण्डिकायाम् । पितृभ्यः स्वधायिभ्यः