पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यत् परिषिच्यते तत् क्रीतस्य सोमस्य रूपं ज्ञातव्यम् । 'एकस्याः पयसापाकृतेनाश्विनेन परिषिञ्चति सारस्वतेन द्वयोः प्रातः ऐन्द्रेणोत्तमे तिसृणामिति' ( १९ । १ । २३ । २५ । २७) कात्यायनेन निर्दिष्टत्वादश्विभ्यां सरस्वत्या च दुग्धमिति निर्देशः ॥ १५॥

षोडशी।
आ॒स॒न्दी रू॒पᳪ रा॑जासन्द्यै॒ वेद्यै॑ कु॒म्भी सु॑रा॒धानी॑ । अन्त॑र उत्तरवे॒द्या रू॒पं का॑रोत॒रो भि॒षक् ।। १६ ।।
उ० आसन्दी रूपम् । यजमानाभिषेकासन्दीरूपम् । राजासन्द्यै सोमासन्द्याः । वेद्यै कुम्भी सुराधानी सोमिक्या वेदेः रूपम् । वेद्योः अन्तरः मध्यम् उत्तरवेद्यारूपम् । कारोतरः सुरापावनम् भिषगिन्द्रस्य यजमानस्य च ॥ १६॥
म० राज्ञः सोमस्यासन्दी राजासन्दी तस्यै । चतुर्थी षष्ठ्यर्थे । आसन्दी यजमानाभिषेकायासन्दी मञ्चिका राजासन्द्याः सोमासन्द्या रूपं तत्त्वेन ध्येया । सुराधानी सुरा धीयते स्थाप्यते यस्यां सा सुराधानी कुम्भी वेद्यै वेद्याः सौमिक्या वेदेः रूपम् । अन्तरः वेदिद्वयमध्यभाग उत्तरवेद्याः रूपम् । कारोतरः सुरापावनचालनी इन्द्रस्य यजमानस्य च भिषक् ज्ञेयः ॥ १६ ॥

सप्तदशी।।
वेद्या॒ वेदि॒: समा॑प्यते ब॒र्हिषा॑ ब॒र्हिरि॑न्द्रि॒यम् । यूपे॑न॒ यूप॑ आप्यते॒ प्रणी॑तो अ॒ग्निर॒ग्निना॑ ।। १७ ।।
उ० अनया वेद्या वेदिः सौमिकी समाप्यते । बर्हिषा च बर्हिः समाप्यते । इन्द्रियं वीर्यम् । यूपेन दृश्येन च यूप आप्यते । प्रणीतश्चाग्निः अग्निनाप्यते ॥ १७ ॥
म०. वेद्यात्र वर्तमानया वेदिः सौमिकी समाप्यते सम्यक् प्राप्यते । तद्रूपा ध्येयेत्यर्थः । बर्हिषात्रत्येन बर्हिः सौमिकं समाप्यते । इन्द्रियं वीर्यं चेन्द्रियेणेति शेषः । समाप्यते । फलादाने सामर्थ्यं उभयोरप्यस्तीत्यर्थः । यूपेनात्रत्येन यूप आप्यते । अग्निनात्रत्येन प्रणीतोऽग्निः सौमिक आप्यते प्राप्यते ॥ १७ ॥

अष्टादशी।
ह॒वि॒र्धानं॒ यद॒श्विनाऽऽग्नी॑ध्रं॒ यत्सर॑स्वती । इन्द्रा॑यै॒न्द्रᳪ सद॑स्कृ॒तं प॑त्नी॒शालं॒ गार्ह॑पत्यः ।। १८ ।।

उ० हविर्धानं यदश्विना । यदाश्विनदैवतं तेन हविर्धानमाप्यते । यत्सरस्वतीदैवतं तेनाग्नीध्रमाप्यते । यदिन्द्राय हविः तेन इन्द्रसदः कृतमाप्यते । पत्नीशालं च गार्हपत्यस्य आप्यते ॥ १८॥
म० अत्र सौत्रामण्यां यत् अश्विना अश्विनौ देवते वर्तेते तेनाश्विसद्भावेन हविर्धानं सौमिकमाप्यत इत्यनुषङ्गः । अत्र यत्सरस्वती देवतास्ति तेन सरस्वतीसद्भावेन आग्नीध्रं सौमिकमाप्यते । सोमे ऐन्द्रमिन्द्रदेवत्यं सदः कृतमस्ति । ऐन्द्रं सदः । पत्न्याः शाला पत्नीशालम् ‘विभाषा सेनत्सुरा-' (पा. २।४ । २५) इत्यादिना क्लीबत्वम् । गार्हपत्यश्चेति त्रयमिन्द्राय यद्धविः क्रियते तेनाप्यते । सौत्रामण्यामिन्द्राय यद्धविस्तत्सौमिकसदा पत्नीशालगार्हपत्यरूपेण ध्येयमित्यर्थः ॥१८॥

एकोनविंशी।
प्रै॒षेभि॑: प्रै॒षाना॑प्नोत्या॒प्रीभि॑रा॒प्रीर्य॒ज्ञस्य॑ । प्र॒या॒जेभि॑रनुया॒जान् व॑षट्का॒रेभि॒राहु॑तीः ।। १९ ।।
उ० प्रैषेभिः प्रैषान् । प्रैषैः प्रैषानाप्नोति आप्रीभिः आप्रीः यज्ञस्य सोमयज्ञस्य प्रियाः प्रयाजयाज्याः । प्रयाजेऽभिरनुयाजान् प्रयाजैः प्रयाजानाप्नोति । अनुयाजैरनुयाजानाप्नोति । वषट्कारेभिराहुतीः । वषट्कारैर्वषट्कारानाप्नोति । प्रयाजेभिरित्यादिचतुर्णां वाक्यानामर्धलोपः ॥ १९ ॥ |
म० प्रैषेभिः प्रैषैः प्रैषानाप्नोति । आप्रीभिः प्रयाजयाज्याभिर्यक्षस्याप्रीराप्नोति । प्रयाजेभिरित्यादिवाक्यचतुष्टयस्योत्तरपदलोपश्छान्दसः । प्रयाजेभिः प्रयाजैः प्रयाजानाप्नोति
अनुयाजैरनुयाजानाप्नोति । वषट्कारेभिर्वषट्कारानाप्नोति । | आहुतिभिराहुतीराप्नोति । प्रैषादीनामुभयत्र सद्भावात् ॥१९॥

विंशी।
प॒शुभि॑: प॒शूना॑प्नोति पुरो॒डाशै॑र्ह॒वीᳪष्या । छन्दो॑भिः सामिधे॒नीर्या॒ज्या॒भिर्वषट्का॒रान् ।। २० ।।
उ० पशुभिः पशून् । पशुभिः पशूनाप्नोति । पुरोडाशैः हवींषि आप्नोति । छन्दोभिः छन्दांसि सामिधेनीभिः सामिधेनीः याज्याभिर्याज्याः । वषट्कारैर्वषट्कारानाप्नोति ॥ २० ॥
म० पशुभिः कृत्वा पशूनाप्नोति । पुरोडाशैः पुरोडाशानापेनोति । हविर्भिरन्यैर्हवींषि आप्नोति। छन्दोभिश्छन्दांसि आप्नोति। सामिधेनीभिः सामिधेनीराप्नोति । याज्याभिर्याज्या आप्नोति । वषट्कारैर्वषट्कारानाप्नोति । पश्वादीनामुभयत्र सद्भावात् अत्राप्युत्तरार्धलोपः पूर्ववत् ॥ २० ॥

एकविंशी।
धा॒नाः क॑र॒म्भः सक्त॑वः परीवा॒पः पयो॒ दधि॑ । सोम॑स्य रू॒पᳪ ह॒विष॑ आ॒मिक्षा॒ वाजि॑नं॒ मधु॑ ।। २१ ।।
उ० धानाः करम्भः । उदकमन्थः करम्भः । सक्तवः परीवापः हविष्पङ्क्तिः । दधि पयः । दधि सोमस्य रूपम्। हविषश्चात्र रूपम् । आमिक्षा पयस्या । वाजिनं मधु । मधुशब्दो वाजिनस्य विशेषणम् आनन्तर्यात् सोमसंस्तवश्व ॥ २१ ॥
म० धानादयः सोमस्य रूपं ध्येयाः । धानाः भृष्टधान्यम् । | करम्भः उदमन्थः । सक्तवः प्रसिद्धाः । परीवापः हविष्पङ्क्तिः ।