पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भवत । अतो मा मां भद्रेण कल्याणेन संपृङ्क्त संसृजत । कल्याणयुक्तं मां कुरुतेत्यर्थः । संपूर्वात्पृचेः क्विप् । पृचे रौधादिकाल्लोट् संपृङ्क्तः । 'विपृच स्थेति सौराणाम्' ( का० १९ । २। २९)। यजमानं सौरग्रहान्संमृशतीत्यर्थः । हे सुराग्रहाः, यूयं विपृचः स्थ विपृञ्चन्तीति विपृचः वियोजका भवत । अतो मा मां पाप्मना कल्मषेण विपृङ्क्त निष्पापं कुरुतेत्यर्थः ॥ ११॥

द्वादशी।
दे॒वा य॒ज्ञम॑तन्वत भेष॒जं भि॒षजा॒ऽश्विना॑ । वा॒चा सर॑स्वती भि॒षगिन्द्रा॑येन्द्रि॒याणि॒ दध॑तः ।। १२ ।।
उ० देवा यज्ञम् । विंशतिरनुष्टुभः सौत्रामण्यां सोमसंपद्दर्शनार्थः । निदानवतां मन्त्राणां पूर्वं निदानं वक्तव्यमर्थस्य सुखबोधाय । इन्द्रस्य किलानुपहितसोमपानाद्विस्रस्तस्य नमुचिरसुरोऽपिबत् । समस्तं वीर्यं तत्र देवेन्द्रस्य भेषजं कृतम् । तत्राश्विनौ भिषजौ सरस्वती च ओषधं सौत्रामणी। यद्देवा यज्ञमतन्वत विस्तारितवन्तः । भेषजं भेषजस्य कर्तारं सौत्रामण्याख्यं अथ तदा भेषजा भिषजौ वैद्यौ अश्विना अश्विनौ । इह चतुर्थः पादः संबध्यते द्विवचनत्वात् । इन्द्राय इन्द्रियाणि वीर्याणि दधतः । वाचा च त्रयीलक्षणया सरस्वती तदा भिषक् स्यात् ॥ १२ ॥
म० देवा यज्ञमित्यादिकण्डिका विंशतिब्राह्मणरूपातो विनियोगाभावः । ब्राह्मणानुवाको विंशतिरनुष्टुभः सौत्रामण्याः सोमसाम्यप्रतिपादिकाः । अत्रेतिहासः । अनुपहूतसोमपानाद्भ्रष्टस्येन्द्रस्य वीर्यं नमुचिरसुरोऽपिबत् तत्र देवैरिन्द्रस्य भैषज्यं कृतम् तत्राश्विनौ सरस्वती च भिषजः सौत्रामणी त्वौषधम् । तथाच श्रुतिः 'त्वष्टा हतपुत्रोऽभिचरणीयमपेन्द्रᳪ सोममाहरत्तस्येन्द्रो यज्ञवेशसं कृत्वा प्रसह्य सोममपिबत्स विष्वङ् व्यार्च्छत्तस्य मुखात्प्राणेभ्यः श्रीयशसान्यूर्ध्वान्युदक्रामंस्तानि पशून्प्राविशंस्तस्मात्पशवो यशो यशो ह भवति य एवं विद्वान्सौत्रामण्याभिषिच्यते ततोऽस्मा एतमश्विनौ च सरस्वती च यज्ञᳪ समभरन्सौत्रामणी भैषज्याय तयैनमभ्यषिञ्चंस्ततो वै स देवानाᳪ श्रेष्ठोऽभवच्छ्रेष्ठः स्वानां भवति य एतयाभिषिच्यते' (१२ । ८।३।१) इति । देवा यज्ञं सौत्रामण्याख्यं भेषजमिन्द्रस्यौषधरूपमतन्वत विस्तारयामासुः । तदा अश्विना अश्विनौ भिषजा भिषजौ वैद्यौ आस्तामिति शेषः । सरस्वती च वाचा त्रयीलक्षणया भिषगासीत् । कीदृशाः सरस्वत्यश्विनाः । इन्द्राय इन्द्रियाणि वीर्याणि दधतः । इन्द्राय सामर्थ्यं ददत इत्यर्थः ॥ १२॥

त्रयोदशी ।
दी॒क्षायै॑ रू॒पᳪ शष्पा॑णि प्राय॒णीय॑स्य॒ तोक्मा॑नि । क्र॒यस्य॑ रू॒पᳪ सोम॑स्य ला॒जाः सो॑मा॒ᳪशवो॒ मधु॑ ।। १३ ।।
उ० दीक्षायै रूपम् । शष्पाणि नवप्ररूढानि व्रीहयः । प्रायणीयस्य तोक्मानि । नवप्ररूढा यवास्तोक्मानि क्रयस्य रूपं सोमस्य । सोमक्रयस्येति समासप्राप्ते पदयोर्व्यत्ययो रूपशब्देन व्यवधानं च छान्दसम् । सोमक्रयरूपं लाजाः सोमांशवश्च लाजा एव मधुरस्वादाः ॥ १३ ॥
म० इदानीं सौत्रामण्याः सोमसंपत्तिं निरूपयति । शष्पाणि नवप्ररूढव्रीहिरूपाणि पूर्वोक्तानि दीक्षायै । षष्ठ्यर्थे चतुर्थी । दीक्षाया दीक्षणीयेष्टे रूपम् । शष्पाणि दीक्षणीयात्वेन ध्येयानि । एवमग्रेऽपि । तोक्मानि नवप्ररूढयवाः प्रायणीयस्य प्रायणीयेष्टे रूपं ध्येयम् । सोमस्य क्रस्य रूपं लाजाः सोमक्रयोऽस्ति सोमे अत्र लाजास्तस्य रूपम् । लाजाः सोमक्रयरूपेण ध्येया इत्यर्थः । सोमक्रयस्येति समासे युक्ते तदभावः सोमक्रयपदयोर्व्यत्ययो रूपपदेन व्यवधानं च छान्दसम् । मधु सोमांशवः सोमखण्डास्तद्रूपेण ध्येयम् । यद्वा मधु मधुरस्वादा लाजा एव सोमांशवो ध्येयाः ॥ १३ ॥

चतुर्दशी।
आ॒ति॒थ्य॒रू॒पं मास॑रं महावी॒रस्य॑ न॒ग्नहु॑: । रू॒पमु॑प॒सदा॑मे॒तत्ति॒स्रो रात्री॒: सुराऽऽसु॑ता ।। १४ ।।
उ० आतिथ्यरूपं मासरम् । व्रीहिश्यामाकौदनाचामचूर्णसंसर्गो मासरम् । महावीरस्य नग्नहुः । किण्वो नग्नहुः सौरिकाणां प्रसिद्धः । रूपमुपसदामेतत्क्रियते यस्मिंस्तिस्रो रात्रीः सुरा अभिषुता तिष्ठति ॥ १४ ॥
म० किंच मासरमातिथ्यरूपमातिथ्येष्टेः स्वरूपं ध्येयम् । व्रीहिश्यामाकौदनाचामयोः शष्पतोक्मलाजनग्नचूर्णैः संसर्गो मासरं पूर्वमुक्तम् । सर्जत्वगादिषड्विंशतिवस्तून्येकीकृतानि नग्नहुः पूर्वोक्तः स महावीरस्य घर्मस्य रूपं ध्येयम् । याः तिस्रो रात्रीः 'कालाध्वनोः-' (पा० २।३ । ५) इति द्वितीया । त्रिरात्रपर्यन्तं सुरा आसुता अभिषुता पूर्वोक्तं सर्वमेकपात्रे कृत्वा स्वाद्वीं त्वेति मन्त्रेण यद्गर्ते त्रिरात्रं स्थापनम् । एतदुपसदामुपसत्संज्ञानामिष्टीनां रूपम् ॥ १४ ॥

पञ्चदशी ।
सोम॑स्य रू॒पं क्री॒तस्य॑ परि॒स्रुत्परि॑षिच्यते । अ॒श्विभ्यां॑ दु॒ग्धं भे॑ष॒जमिन्द्रा॑यै॒न्द्रᳪ सर॑स्वत्या ।। १५ ।।
उ० सोमस्य रूपम् । सोमस्य क्रीतस्यैतद्रूपं यत्परिस्रुत्परिषिच्यते पयसा । केन पयसा यत् अश्विभ्यां दुग्धं भेषजं च इन्द्राय यच्च अश्विभ्यां दुग्धमिन्द्रायैव भेषजम् । यच्च सरस्वत्या दुग्धं पयः इन्द्राय भेषजम् ॥ १५॥
म० यत् अश्विभ्यां सरस्वत्या च ऐन्द्रमिन्द्रदेवत्यमिन्द्राय भेषजमिन्द्रार्थे औषधं दुग्धं पयः अश्विभ्यामपाकरोमीति दुग्धेनैकगोः पयसा सरस्वत्या अपाकरोमीति दुग्धेन गोद्वयपयसा इन्द्रायापाकरोमीति दुग्धेन गोत्रयपयसा दिनत्रये परिस्रुत् सुरा
-.