पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अतस्त्वां ब्रवीमि । तेजो मयि धेहि । यो हि मदात्मकः स तत्र नियोगमर्हति । वीर्यमसि वीर्यं मयि धेहि । बलमसि बलं मयि धेहि । तुल्यव्याख्यानानि । सुराग्रहान् श्रीणाति । ओजोऽसि ओजो मयि धेहि । मन्युरसि मन्युं मयि धेहि । सहोऽसि सहो मयि धेहि । तेजः प्रज्वलनमात्मनः । मन्युः कोपः । सहो बलम् ॥ ९॥
म०. 'गोधूमकुवलचूर्णानि चावपति तेजोऽसीति' (का. १९ । २। १६ )। आश्विनग्रहणानन्तरं सादनात्प्राक् द्वे दर्भतृणे प्रागग्रे पात्रोपरि कृत्वा गोधूमकुवलयोश्चूर्णानि सहैव पयसि क्षिपति । कुवलं स्थूलं बदरीफलमित्यर्थः । त्रीणि यजूंषि पयोदेवत्यानि । आद्यं यजुर्बृहती । पयः, त्वं तेजोऽसि अतो मयि तेजो धेहि स्थापय । 'यो यदात्मकः स तत्र नियुज्यत' इति न्यायात् । 'उपवाकबदरचूर्णानि च वीर्यमसीति' (का. १९ । २। १७)। उपवाका इन्द्रयवाः । बदरं सूक्ष्मबदरीफलम् । तयोश्चूर्णानि सारस्वते पयोग्रहे निर्वपेदित्यर्थः । यजुः पङ्क्तिः । हे ग्रह, त्वं वीर्यमसि अतो मयि वीर्यं सामर्थ्यं धेहि । 'यवकर्कन्धुचूर्णानि च बलमसीति' ( का० १९ । २ । १९) । यवाः प्रसिद्धाः कर्कन्धुः अतिस्थूलं बदरम् तयोश्चूर्णान्यैन्द्रे पयोग्रहे क्षिपेदित्यर्थः । यजुः पङ्क्तिः । हे ग्रह, त्वं बलमसि अतो मयि विषये बलं धेहि । 'सुराग्रहाञ्श्रीणात्योजोऽसीति वृकव्याघ्रसिᳪहलोमभिः प्रतिमन्त्रं मिश्रैरेके यथासंख्यम्' (का. १९ । २॥ २२-२३ ) । वृकादीनां मिश्रैः केशैरोजोऽसीति प्रतिमन्त्रं सुराग्रहान्मिश्रयेत् ओजोऽसीत्याश्विनं मन्युरसीति सारस्वतं सहोऽसीत्यैन्द्रम् । एके वृकादिकेशैर्यथासंख्यं ग्रहं मिश्रयन्ति वृककेशैराश्विनं वैयाघ्रैः सारस्वतं सैंहरैन्द्रमिति सूत्रार्थः । त्रीणि यजूंषि सुरादेवत्यानि । हे सुरे, त्वमोजः असि अतो मयि विषये ओजः कान्तिं धेहि स्थापय । त्वं मन्युर्मानसं प्रज्वलनं कोपोऽसि मयि मन्युं धेहि । सहोऽसि मयि सहो बलं धेहि ॥९॥

दशमी।
या व्या॒घ्रं विषू॑चिकोभौ॒ वृकं॑ च॒ रक्ष॑ति । श्ये॒नं प॑त॒त्रिण॑ᳪ सि॒ᳪहᳪ सेमं पा॒त्वᳪह॑सः ।। १० ।।
उ० श्येनपत्राभ्यां पावयतो यजमानम् । या व्याघ्रम् । अनुष्टुप् । विषूचिकास्तुतिः । विपु निपातो नानावचनः । अञ्चतिर्गत्यर्थः । अन्तर्व्यापत्तिर्नानाञ्चना विषूचिकेत्युच्यते । विषूचिका व्याधिविशेषः । या विषूचिका व्याघ्रं वृकं चोभावपि रक्षति । नहि तयोरपरिणामजनिता व्यापत्तिः । किमेतावेव यो रक्षति नेत्याह । श्येनं पतत्रिणं पतनशीलम् । स हि वधजीवनः प्राणिनो गृहीतुमवश्यं पतति । सिंहं च सा इमं यजमानं पातु अंहसः पापात् । पापसमूहव्याप्तेः व्याधीनामधिष्ठात्र्यो देवताः सन्ति ताः प्रार्थ्यन्ते ॥ १० ॥
म०. 'दीक्षावत्पावयतोऽन्तःपात्ये श्येनपत्राभ्यां या व्याघ्रमिति' ( का० १९ । २ । २६)। अध्वर्युप्रतिप्रस्थातारौ सहैवान्तःपात्येऽवस्थितं प्राङ्मुखं यजमानं श्येनपिच्छाभ्यां पावयतः दीक्षावदित्येकेन नाभेरूर्ध्वं प्रदक्षिणं द्वितीयेन सकृदवाङ् यद्वोभाभ्यां नाभेरूर्ध्वमधश्च द्विरिति सूत्रार्थः । हैमवर्चिदृष्टा विषूचिकादेवत्यानुष्टुप् । व्याध्यधिष्ठात्री देवतास्ति सा प्रार्थ्यते । विषु सर्वत्र अञ्चति गच्छति विषूची सैव विषूचिका रोगविशेषः । 'केऽणः' (पा० ७ । ४ । १३) इति ङीपो ह्रस्वः । या विषूचिका व्याघ्रं वृकमेनावुभौ द्वौ परिरक्षति पाति तथा श्येनं पतत्रिणं पक्षिणं सिंहं चोभौ रक्षति । नहि तेषामन्नपरिणामजनितो दोषः । सा विषूचिका इमं यजमानमंहसः व्याधिहेतुभूतात्पापात्पातु रक्षतु ॥ १० ॥

एकादशी।
यदा॑ पि॒पेष॑ मा॒तरं॑ पु॒त्रः प्रमु॑दितो॒ धय॑न् । ए॒तत्तद॑ग्ने अनृ॒णो भ॑वा॒म्यह॑तौ पि॒तरौ॒ मया॑ ।
स॒म्पृच॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त वि॒पृच॑ स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त ।। ११ ।।
उ० अग्निं प्रेक्षयति । यदा पिपेष । आग्नेयी बृहती। पिपेषेति लिट उत्तमपुरुषैकवचनम् । यदहम् आपिपेष आपिष्टवान् पद्भ्याम् । मातरं पुत्रः प्रमुदितः प्रहृष्टः सन् । धयन्पिबन्स्तनम् । तदेतत् तव समक्षम् हे अग्ने, अनृणः ऋणत्रयरहितः कृतकृत्यो भवामि । यत एवमतो ब्रवीमि उत्क्षिप्य भुजम् । अहतौ अहिंसितौ पितरौ । 'पिता मात्रा' इत्येकशेषः । मया यो हि प्रत्युपकर्तुमसमर्थः तेनैव मातापितरौ हिंसितौ भवत इत्यभिप्रायः । पयोग्रहान्संमृशति । संपृचस्थ 'पृची संपर्के' । संपृचन्तीति संपृचः स्थ स्वया क्रियया व्यपदिश्यन्ते । ये दास्यन्ते संपृच स्थ तानहं ब्रवीमि संमा भद्रेण पृङ्क्त संसृजत मां भद्रेण भन्दनीयेन कल्याणेन । सुराग्रहान् संमृशति । विपृच स्थ ये यूयं विपृचः वियोगकारिणः स्थ तानहं ब्रवीमि । पाप्मना विपृङ्क्त विगतसंसर्गं पाप्मना मां कुरुत ॥ ११ ॥
म० 'अग्निं प्रेक्षयति यदाऽऽपिपेषेति' (का० १९ । २ । २७) । अग्निं प्रेक्षस्वेति प्रैषेणाध्वर्युर्यजमानमग्निं दर्शयति स प्रैषित औत्तरवेदिकमग्निमीक्षत इत्यर्थः । अग्निदेवत्या बृहती। पुत्रोऽहं प्रमुदितः प्रहृष्टो धयन् स्तनपानं कुर्वन्सन् यत् मातरं जननीमापिपेष पिष्टवान् पद्भ्यां पीडितवान् । पिषेर्लिट् उत्तमैकवचनम् । हे अग्ने, तत् एतत् त्वत्समक्षमहमनृणो भवामि ऋणत्रयरहितोऽस्मि । अतएव ब्रवीमि मया पितरौ मातापितरौ अहतौ न पीडितौ । यः पुत्रः प्रत्युपकर्तुमशक्तः स एव पित्रोर्हन्तेति भावः । ‘पयोग्रहसंमर्शनᳪ संपृच स्थेति' ( का० १९ । २ । २८ ) यजमानः सहैव पयोग्रहाणां स्पर्शं करोतीत्यर्थः । पयोग्रहदेवत्यं यजुस्त्रिष्टुप् । हे पयोग्रहाः, यूयं संपृचः स्थ संपृञ्चन्ति संयोजयन्तीति संपृचः स्वत एव संयोजका