पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

'परिवापो जलस्थाने पर्युप्तपरिवारयोः' इति कोशः । पयोदधनी प्रसिद्धे । एतानि सोमरूपम् । आमिक्षा पयस्या । मधु मधुरम् । वाजिनं च हविषो रूपम् । उष्णे दुग्धे दध्नि क्षिप्ते घनभाग आमिक्षा । शिष्टं वाजिनम् ॥ २१ ॥

द्वाविंशी।
धा॒नाना॑ᳪ रू॒पं कुव॑लं परीवा॒पस्य॑ गो॒धूमा॑: । सक्तू॑नाᳪ रू॒पं बद॑रमुप॒वाका॑: कर॒म्भस्य॑ ।। २२ ।।

उ. धानानां रूपम् । अधस्तनमन्त्रोक्तानां सामहविषां सोमस्य च संपत्तिं सौत्रामणीद्रव्येष्वाह । धानानां रूपं कुवलं कोमलबदरम् । परीवापस्य गोधूमाः । सक्तूनां रूपं बदरम् । उपवाकाः करम्भस्य रूपम् । उपवाका यवकाः ॥ २२ ॥
म० नन्वधस्तनमन्त्रे धानादीनां सोमरूपत्वमुक्तम् तेऽत्र कुत्र सन्तीति धानादिसोमहविषां सोमस्य संपत्तिं सौत्रामणीद्रव्यैराह । कुवलं कोमलं बदरीफलं धानानां पूर्वोक्तानां रूपं ध्येयम् । 'कुवलं बदरीफले । मुक्ताफलोत्पलयोश्च' इति कोशः। गोधूमाः परीवापस्य रूपम् । बदरं सर्वं बदरीफलं सक्तूनां रूपम् । उपवाका यवाः करम्भस्य रूपं ज्ञेयम् ॥ २२ ॥

त्रयोविंशी।
पय॑सो रू॒पं यद्यवा॑ द॒ध्नो रू॒पं क॒र्कन्धू॑नि । सोम॑स्य रू॒पं वाजि॑नᳪ सौ॒म्यस्य॑ रू॒पमा॒मिक्षा॑ ।। २३ ।।
उ० पयसो रूपम् । पयसो रूपं यत् यवाः । दध्नः रूपं कर्कन्धूनि । कर्कन्धुर्बदरविशेषः सोमस्य रूपम् । वाजिनं सोमस्य च रूपमामिक्षा पयस्या ॥ २३ ॥
म० यत् ये यवाः ते पयसो रूपम् । कर्कन्धूनि स्थूलबदराणि दध्नो रूपम् । वाजिनं सोमस्य रूपम् । आमिक्षा पयस्या सौम्यस्य चरोः रूपं ज्ञेयम् ॥ २३ ॥

चतुर्विंशी ।
आ श्रा॑व॒येति॑ स्तो॒त्रिया॑: प्रत्याश्रा॒वो अनु॑रूपः । यजेति॑ धाय्यारू॒पं प्र॑गा॒था ये॑यजाम॒हाः ।। २४ ।।

उ० आश्रावय । इदानीं शस्त्रसंपत्तिः क्रियते । आश्रा३वय । इतिशब्दः प्रदर्शनार्थः । स्तोत्रियारूपः प्रत्याश्रावः अस्तु श्रौ३षट् । अनुरूपः यज इति । धाय्यारूपम् निष्केवल्ये स्तोत्रियानुरूपयोरनन्तरम् धाय्या शस्यन्ते । प्रगाथा येयजामहाः येयजामहे इति प्रगाथाः ॥ २४ ॥
म० शस्त्रसंपत्तिमाह । आश्रावयेति शब्दः स्तोत्रियारूपो ज्ञेयः । स्तोत्रे प्रथमस्तृचोऽनुवाकः स्तोत्रियः । प्रत्याश्रावः अस्तु औषडिति शब्दः । अनुरूपः उत्तरस्तृचः तद्रूपः । यजेति शब्दो धाय्याया रूपम् । निष्केवल्ये स्तोत्रियानुरूपयोरनन्तरं धाय्या शस्यते सा यजेति शब्दो ज्ञेयः । येयजामहाः येयजामह इति शब्दः प्रगाथाः प्रगाथरूपत्वेन ध्येयः ॥ २४ ॥

पञ्चविंशी।
अ॒र्ध॒ऋ॒चैरु॒क्थाना॑ᳪ रू॒पं प॒दैरा॑प्नोति नि॒विद॑: । प्र॒ण॒वै: श॒स्त्राणा॑ᳪ रू॒पं पय॑सा॒ सोम॑ आप्यते ।। २५ ।।
उ० अर्धऋचैः उक्थानां रूपमाप्नोति । पदैः आप्नोति निविदः । निविदो न्यूङ्खा उच्यन्ते । प्रणवैः ओंकारैः शस्त्राणां रूपम् । पयसा सोम आप्यते ॥ २५॥
म० ऋचामर्धानि अर्धऋचास्तैः 'अर्धर्चादयः पुंसि च' (पा० ७।४।३१) इति पुंस्त्वम् 'ऋत्यकः' (पा० ६ । १ । १२८) इति ऋकारस्य सन्ध्यभावः । अत्रत्यैरर्धर्चैरुक्थानां शस्त्रविशेषाणां रूपमाप्यते प्राप्यते । पदैर्निविदो न्यूङ्खानाप्नोति । प्रणवैः ओङ्कारैः शस्त्राणां रूपमाप्यते । पयसा दुग्धेन सोम आप्यते। अर्धर्चादय उक्थादयो ध्येयाः ॥ २५ ॥

षड्विंशी।
अ॒श्विभ्यां॑ प्रातः सव॒नमिन्द्रे॑णै॒न्द्रं माध्यं॑न्दिनम् । वै॒श्व॒दे॒वᳪ सर॑स्वत्या तृ॒तीय॑मा॒प्तᳪ सव॑नम् ।। २६ ।।
उ०अश्विभ्यां प्रातःसवनमाप्तम्। इन्द्रेण ऐन्द्रं माध्यन्दिनं सवनमाप्तम् । वैश्वदेवं तृतीयं सवनं सरस्वत्या आप्तम् ॥२६॥
म० सवनसंपत्तिमाह । अश्विभ्यां देवाभ्यां प्रातःसवनमाप्तं प्राप्तम् । इन्द्रेण देवेन ऐन्द्रमिन्द्रदेवत्यं माध्यन्दिनं सवनं प्राप्तम् । सरस्वत्या देवतया कृत्वा वैश्वदेवं विश्वदेवदेवत्यं तृतीयं सवनं प्राप्तम् ॥ २६ ॥

सप्तविंशी।
वा॒य॒व्यै॒र्वाय॒व्या॒न्याप्नोति॒ सते॑न द्रोणकल॒शम् । कु॒म्भीभ्या॑मम्भृ॒णौ सु॒ते स्था॒लीभि॑ स्था॒लीरा॑प्नोति ।। २७ ।।
उ. वायव्यैः। सर्वेषां सोमपात्राणां वायव्यानीति संज्ञा । वायव्यैः वायव्यानि पात्राण्याप्नोति । सतेन द्रोणकलशम् । वैतसं पात्रं सत इत्युच्यते । कुम्भीभ्यां सुराधानीभ्यां शतच्छिद्राभ्याम् अम्भृणौ । अम्भृणौ पूतभृदाधवनीयावुच्येते । सुते अभिषुते सोमे यौ भवतः तौ आप्नोति । स्थालीभिः स्थालीः आप्नोति । उभयत्र हि स्थाल्यो भवन्ति ॥ २७ ॥
म० वायव्यानि सोमपात्राणि वायव्यैर्वायव्यानि पात्राणि आप्नोति । वैतसं पात्रं सतः तेन द्रोणकलशमाप्नोति । कुम्भी सुराधानी तद्द्वयमस्ति कुम्भीभ्यां शतच्छिद्राभ्यां सुराधानीभ्यामम्भृणौ पूतभृदाधवनीयौ सुतेऽभिषुते सोमे यौ स्तस्तावाप्नोति । स्थालीभिः कृत्वा स्थालीराप्नोति उभयत्र स्थालीसद्भावात् ॥ २७॥

अष्टाविंशी।
यजु॑र्भिराप्यन्ते॒ ग्रहा॒ ग्रहैः॒ स्तोमा॑श्च॒ विष्टु॑तीः । छन्दो॑भिरुक्थाश॒स्त्राणि॒ साम्ना॑वभृ॒थ आ॑प्यते ।। २८ ।।