पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भिषुतं सोमं परिस्रुद्रूपं परिषिञ्चत यूयम् । परि इतः सिञ्चतेति पदेषु सत्सु 'ओकारमितः सिञ्चतौ सोपध' (प्रातिशा० ३ । ३।९) इति सूत्रेण सविसर्गस्य तकारस्थाकारस्य ओकारः 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७ ) इति सिञ्चतपदस्य संहितायां दीर्घः । तं कम् । यः सोम उत्तमं हविः सर्वेषां श्रेष्ठम् । यश्च नर्यः नरेभ्यो हितः सन् दधन्वान् यजमानं धारितवान् । 'धन शब्दे' क्वसुप्रत्ययः । अप्सु जलेषु अन्तर्मध्ये वर्तमानं यं सोममद्रिभिः ग्रावभिरध्वर्युः आसुषाव अभिषुतवान् । तं सोमं सुरारूपमापन्नं पयसा सिञ्चतेति संबन्धः ॥ २॥

तृतीया ।
वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्क्सोमो॒ अति॑द्रुतः । इन्द्र॑स्य॒ युज्य॒: सखा॑ ।। ३ ।।
उ० तिसृभिर्गायत्रीभिः परिस्रुतं पुनाति । वायोः पूतः । योऽयं वायोः पवित्रेण उदरान्तरवर्तिना पूतः सन् प्रत्यङ् अधोमुखः सोमः अतिद्रुतः सः इन्द्रस्य युज्यः । इन्द्रेण सह योगमर्हति । सखा सहायः । सुक्रीडनक: अगर्ह्यः । सोमवामिनः पुनाति वायोः पवित्रेण हृदयान्तर्वर्तिना पूतः प्राङ् प्रागञ्चनः मुखतः सोमः अतिद्रुतः यः स इन्द्रस्य युज्यः योगार्हः सखा ॥ ३ ॥
म० 'सते पुनाति गोऽश्ववालवालेन पुनाति ते परिस्रुतमिति वायोः पूत इति सोमातिपूतस्य प्राङिति तद्वामिनः' ( का० १९ । २ । ७-९)। वायोः पूत इति कण्डिकायां द्वे ऋचौ पुनाति त इति तृतीया तासां व्युत्क्रमेण विनियोगमाह । पूतां सुरामादाय गोऽश्वकेशनिर्मितेन वालेन पवित्रेण सते पलाशपात्रे पुनाति पुनाति त इति मन्त्रेण सतं वारणमिति केचित् । मुखेतरच्छिद्रसोमवामिनो यजमानस्य सौत्रामण्यां वायोः पूतः पवित्रेण प्रत्यङ्ङिति मन्त्रेण सते सुरां पुनाति मुखेन सोमवामिनस्तु वायोः पूतः पवित्रेण प्राङिति मन्त्रेण सते सुरां पुनातीत्यर्थः । ऋक्त्रयमाभूतिदृष्टं सोमदेवत्यं गायत्रम् । प्रत्यञ्चति अधो गच्छति प्रत्यङ् अधोमुखोऽतिद्रुतो गुदद्वारा गतः सोमः वायोः पवित्रेण उदरान्तर्वर्तिना पूतः शुद्धः । कीदृशः । इन्द्रस्य युज्यः सखा योगार्होऽगर्ह्यः सहायः । प्राञ्चत्यूर्ध्वं गच्छति प्राङ् मुखतोऽतिद्रुतो निर्गतः सोमो वायोः पवित्रेण हृदयान्तर्वर्तिना पूतः य इन्द्रस्य युज्यः योग्यः सखा ॥३॥

चतुर्थी।
पु॒नाति॑ ते परि॒स्रुत॒ᳪ सोम॒ᳪ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना॑ ।। ४ ।।
उ० समृद्धिकामस्य पुनाति ते । यजमानस्याचष्टेऽध्वर्युः । पुनाति तव परिस्रुतं सुरां सोमं च सूर्यस्य दुहिता । यद्वा लुप्तोपमानमेतत् पुनाति ते परिस्रुतं सोममेवेति । यद्वा पुनाति तव परिस्रुतं सोमरूपापन्ना सूर्यस्य दुहिता । 'श्रद्धा वै सूर्यस्य दुहिता वारेण गोऽश्ववालवालेन । शश्वता शाश्वतिकेन । तना । तनेति धननाम । धनोत्पत्तिनिमित्तभूतेन ॥४॥
म० अध्वर्युर्यजमानं प्रत्याचष्टे हे यजमान, सूर्यस्य दुहिता पुत्री श्रद्धा ते तव परिस्रुतं सुरां सोमं च पुनाति शोधयति । 'श्रद्धा वै सूर्यस्य दुहिता' इति श्रुतिः । यद्वा लुप्तोपमानम् । ते तव परिस्रुतं सोममिव पुनाति सोमवत् पवित्रं करोति । यद्वा सोमं सोमरूपापन्नां परिस्रुतं श्रद्धा पुनाति । केन । वारेण वालेन रलयोरैक्यम् । गोऽश्ववालवालेन । कीदृशेन वारेण । शश्वता शाश्वतिकेन अनादिना । तथा तना । तनेति धननाम । तनेन धनेन धनरूपेण धनोत्पत्तिनिमित्तभूतेनेत्यर्थः ॥ ४ ॥

पञ्चमी।
ब्रह्म॑ क्ष॒त्रं प॑वते॒ तेज॑ इन्द्रि॒यᳪ सुर॑या॒ सोम॑: सु॒त आसु॑तो॒ मदा॑य ।
शु॒क्रेण॑ देव दे॒वता॑: पिपृग्धि॒ रसे॒नान्नं॒ यज॑मानाय धेहि ।। ५ ।।
उ० अजाविलोमपवित्रेण पयः पुनाति ब्रह्म क्षत्रम् । व्यवहितपदप्रायः प्रथमोऽर्धर्चः । यस्मात्कारणात् सोमः सुतः अभिषुतः ब्रह्म क्षत्रं पवते । तेज इन्द्रियं च । पवतिर्जननार्थः । ब्रह्म जनयति क्षत्रं च तेजश्च इन्द्रियं च । यस्मात्त्वं सुरया सुतः सुरया तीव्रः कृतः मदाय भवसि मदजनको भवसि । अतः कारणात् शुक्रेण शोचिष्मता दीप्तिमता रूपेण मन्त्रजनितेन । हे देव, देवताः पिपृग्धि प्रीणीहि । रसेन चान्नं यजमानाय धेहि देहि ॥५॥
म० 'उत्तरस्यां पयो वैतसेऽजाविलोमपवित्रेण ब्रह्म क्षत्रमिति' ( का० १९ । २ । १०) । अजमेषलोमकृतपवित्रेण वेतसपात्रे उत्तरदिशि पयः पुनाति ब्रह्म क्षत्रमिति मन्त्रेणेत्यर्थः। सुरासोमदेवत्या त्रिष्टुप् । आद्यो द्वादशकः द्वितीयत्रयोदशार्णः अन्यावेकादशार्णौ तेन त्र्यधिका । हे देव सोम, शुक्रेण . शुद्धेन वीर्येण त्वं देवताः अग्न्याद्याः पिपृग्धि प्रणीहि । पुनः रसेन घृतादिना सहितमन्नं यजमानाय धेहि देहि । यतः सोमो भवान् सुतोऽभिषुतः सन् ब्रह्म ब्राह्मणं क्षत्रं क्षत्रियं तेजः कान्तिमिन्द्रियसामर्थ्यं पवते जनयति । पवतिर्जननार्थः यज्ञादेव सर्वोत्पत्तेः सोमे उपचर्यते । आसुतः सुरया तीव्रीकृतः सन् भवान् मदाय च भवति । ईदृशसामर्थ्ययुक्तस्त्वं देवान् यजमानं चाभीष्टेन प्रीणीहीत्यर्थः ॥५॥

षष्ठी ।
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ ।
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ उक्तिं॒ यज॑न्ति ।
उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्ण॑ ए॒ष ते॒ योनि॒स्तेज॑से त्वा वी॒र्या॒य त्वा॒ बला॑य त्वा ।। ६ ।।