पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जते'त्युपक्रम्य 'स एतं यज्ञक्रतुमपश्यत्सौत्रामणी'मिति सौत्रामण्याः प्रजापतिर्ऋषिः । अथापरम् इन्द्रभैषज्यार्थमश्विनौ सरस्वती च सौत्रामणी ददृशुः । सुरा संधीयते । स्वाद्वीं त्वा । सुरादेवत्यानुष्टुप् । स्वाद्वीं त्वा । स्वादुशब्दो मिष्टवचनः । स्वादुरसां त्वाम् । स्वादुना मृष्टेन तीव्राम् । तीव्रशब्दः पटुवचनः । पट्वीम् शीघ्रमदजनकाम् । तीव्रेण पटुरसेन अमृताम् । अमृतेन मधुमतीम् मधुरस्वादोपेताम् मधुना । चतुर्णां वाक्यानां शेष उच्यते । सृजामि सᳪ सोमेन । 'ते प्राग्धातोः' 'छन्दसि परेऽपि' इति उपसर्गसंसर्गात् संसृजामि स्वादुना सोमेनेति । एवमुत्तरत्रापि योज्यम्। यजूंष्युत्तराणि । सोमोऽसि । यस्त्वं मन्त्रेणोक्तः सोमसंसर्गात् तं त्वां ब्रवीमि । अश्विभ्यामर्थाय पच्यस्व । पाको विपरिणामः । सरस्वत्यै पच्यस्व इन्द्राय सुत्राम्णे पच्यस्व ॥ १ ॥
कृपानाथं रमाकान्तं नत्वा नृहरिमीश्वरम् ।
एकोनविंशे त्वध्याये मन्त्रदीपमथो ब्रुवे ॥
म० अथ सौत्रामणीमन्त्रास्त्रिभिरध्यायैः । ऋद्धिकामस्याग्निचितो मुखेतरच्छिद्रसोमवामिनो मुखेन सोमवामिनो राज्यच्युतनृपस्य पशुकामस्य च सौत्रामणीयागः । अन्तःपात्यस्थाने गोचर्मणि एतानि स्थापयेत् सोमसुराविक्रयिणः क्लीबाद्वा क्रीत्वा सीसेन शष्पं क्रीत्वा ऊर्णाभिस्तोक्मान् सूत्रेण लाजान् केनचिद्द्रव्येण नग्नहुम् । विरूढा व्रीहयः शष्पम् । विरूढा यवास्तोक्माः । भृष्टव्रीहयो लाजाः । सर्जत्वक्त्रिफलाशुण्ठीपुनर्नवाचतुर्जातकपिप्पलीगजपिप्पलीवंशावकाबृहच्छत्राचित्रकेन्द्रवारुण्यश्वगन्धाधान्यकयवानीजीरकद्वयहरिद्राद्वयविरूढयवव्रीहय एकीकृता नग्नहुः । शष्पतोक्मलाजनग्नहून्दक्षिणद्वारेणाग्निगृहं नीत्वा संचूर्ण्य दर्शपौर्णमासधर्मेण व्रीहिश्यामाकयोश्चरू बहुजले पक्त्वा शृतालम्भनानन्तरं तयोश्चर्वोर्निःस्रावमुष्णं पृथक् पात्रयोरादाय शष्पादिचतुर्णां चूर्णैः संसृज्य स्थापयेत् । द्वयं चूर्णाचामरूपं मासराख्यम् । 'ओदनौ चूर्णमासरैः सᳪसृज्य स्वाद्वीं त्वाᳪशुनेति त्रिरात्रं निदधाति' (का. १९ । १। २२ )। एवमाचामयोश्चूर्णसंसर्गे मासरत्वनिष्पादनानन्तरमोदनौ व्रीहिश्यामाकचरू चतुर्भिश्चूर्णैः संसृज्य स्वाद्वीं त्वेति मन्त्रेण अंशुनेति विंशाध्यायसप्तविंशया ऋचा चैकस्मिन्पात्रे चूर्णसंसृष्टावोदनौ मासराभ्यां संसृज्य त्रिरात्रं शालानैर्ऋतकोणे गर्तं कृत्वा तत्र स्थापयेत् । अयमर्थः । चरू उद्वास्य द्वयोः पृथगाचामग्रहणम् । ततः शष्पतोक्मलाजचूर्णानां पृथक् त्रिधा कृतानां तृतीयांशं द्वेधा कृत्वाचामयोः क्षिपेत् । ततो नग्नहुचूर्णं द्वेधा कृत्वैकमर्धं द्विधा विभज्याचामयोः क्षिपेत् । एवं चूर्णसंसृष्टाचामयोर्मासरसंज्ञा । ततः शष्पतोक्मलाजचूर्णानां द्वितीयं तृतीयांशं द्विधा कृत्वैकैकं भागमोदनयोः क्षिपेत् । नग्नहुचूर्णद्वितीयार्धं द्वेधा कृत्वौदनयोः क्षिपेत् । तत ओदनावेकपात्रे कृत्वा तत्राचामौ क्षिपेत् । ततः स्वाद्वीं त्वा अंशुनेति मन्त्राभ्यां चूर्णमासरैः सहौदनयोराड्वालनेन (?) संसर्गः कार्यः। ततस्त्रिरात्रनिधानम् । शष्पतोक्मलाजचूर्णतृतीयांशानां प्रतिदिनं सुरायां निवापार्थं रक्षणमिति सूत्रार्थः । स्वाद्वीं त्वा । सुरासोमदेवत्यानुष्टुप् । सुरारूपः सोमो देवता । सौत्रामणीमन्त्राणां प्रजापत्यश्विसरस्वत्य ऋषयः । अथ मन्त्रार्थः । हे सुरे, त्वा त्वां सोमेन संसृजामि संयोजयामि । 'छन्दसि परेऽपि' (पा. १।४। ८१) इति समुपसर्गस्य क्रियापदात्परप्रयोगः । कीदृशीं त्वाम् । स्वाद्वीं मिष्टां मिष्टरसाम् । तीव्रां तीव्रशब्दः कटुवचनः । कट्वीं शीघ्रमदजनिकामित्यर्थः । अमृताममृततुल्याम् । मधुमतीं मधुरस्वादोपेताम् । कीदृशेन सोमेन । स्वादुना मृष्टेन तीव्रेण कटुरसेन अमृतेन सुधातुल्येन । मधुमता मधुरस्वादेन । सोमोऽसि । चत्वारि यजूंषि सुरादेवत्यानि । पूर्व एव विनियोगः । सोमोऽसि दैव्युष्णिक अश्विभ्यां यजुर्गायत्री सरस्वत्यै यजुरुष्णिक् इन्द्राय यजुर्बृहती। हे सुरे, त्वं सोमसंसर्गात्सोमः असि अतस्त्वां वदामि अश्विभ्यामर्थाय पच्यस्व विपरिणम । पाको विपरिणामः । सरस्वत्यै सरस्वत्यर्थं पच्यस्व इन्द्राय च पच्यस्व । कीदृशायेन्द्राय । सुत्राम्णे सुष्ठु त्रायते रक्षतीति सुत्रामा तस्मै । त्रायतेः 'आतो मनिन्-' (पा० ३ । २ । ७४) इति मनिन् ॥ १॥

द्वितीया ।
परी॒तो षि॑ञ्च॒ता सु॒तᳪ सोमो॒ य उ॑त्त॒मᳪ ह॒विः ।
द॒ध॒न्वा यो नर्यो॑ अ॒प्स्वन्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ।। २ ।।
उ० एकस्याः पयसा कृतेनाश्विनेन परिषिंचति । परीतः। सौमी बृहती। द्वितीयपादप्रभृतिव्याख्यायते यच्छन्दयोगात्। यः सोमः उत्तमं हविः सर्वेषां हविषाम् । यश्च दधन्वान् धारितवान् यजमानम् । यश्च नर्यो नृभ्यो हितः । यश्च अध्वर्युः अप्सु अन्तर्व्यवस्थितं सन्तम् आसुषाव अभिषुतवान् सोमम् । अद्रिभिः ग्रावभिः तं परिषिञ्चत अभिषुतं सोमम् इतः गोरूधस उपादाय परिस्रुतम् ॥२॥
म०. 'एकस्याः पयस्यायाः कृतेनाश्विनेन परिषिञ्चति परीतो षिञ्चतेति शष्पचूर्णानि चावपति सारस्वतेन द्वयोः प्रातस्तोक्मचूर्णानि चैन्द्रेणोत्तमे तिसृणां लाजचूर्णानि च' ( का० १९ । १ । २३-२८) । सायंहोमान्तेऽश्विभ्यामपाकरोमीति करेण गां स्पृष्ट्वा एकां तां दुग्ध्वा तत्पयसाध्वर्युः सुरां सिञ्चति परीत इति मन्त्रेण । रक्षितं शष्पचूर्णानां तृतीयांशं सुराभाण्डे क्षिपेत् । द्वितीयेऽह्नि निशान्ते सरस्वत्या अपाकरोमीति गावौ स्पृष्ट्वा दोहितेन तयोर्दुग्धेन तेनैव मन्त्रेण सुरां सिञ्चति तोक्मचूर्णतृतीयांशक्षेपश्च । तृतीयेऽह्नि रात्रौ इन्द्राय सुत्राम्णेऽपाकरोमीति तिस्रो गाः स्पृष्ट्वा ता दुग्ध्वैकीकृततत्पयसा सुरां सिञ्चति तेनैव मन्त्रेण तत्र लाजचूर्णतृतीयांशक्षेपश्चेति सूत्रार्थः । भरद्वाजदृष्टा सोमदेवत्या बृहती । हे ऋत्विजः, इतो गोः सकाशाद्गृहीतेन दुग्धेनेति शेषः । सुतमि