पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वयं वाजमन्नमभि अश्याम समन्तात् प्राप्नुयाम । हे अजर, नास्ति जरा यस्य सोऽजरः हे जरारहित, अजरमक्षीणं ते तव द्युम्नं यशो वयमश्याम । सर्वदा यशस्विनो भवामेत्यर्थः ॥ ७४ ॥

पञ्चसप्ततितमी।
व॒यं ते॑ अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ ।
यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ अग्ने ।। ७५ ।।
उ० वयं ते । हिशब्दो यस्मादर्थे । हि यस्माद्वयं ते तुभ्यम् अद्य ररिम । 'रा दाने' । ददिम । कामं पुरस्कृत्य हविः कामप्राप्त्यर्थं वा हविः कामशब्देनोच्यते । उत्तानहस्ताः त्यक्तकृपणभावाः । अबद्धमुष्टिकाः असंवृताङ्गुलय इति यावत् नमसा नमस्कारेण प्रणिपातेन उपसद्य उपसंगम्य निषदनं कृत्वा । अतः यजिष्ठेन यष्टृतमेन मनसा यक्षि यज देवान् । अस्रेधता अनन्यगतेन देवताया याथात्म्यचिन्तनसंतानैकरसेन । मन्मनाः मननेन विप्रः सन् मेधावी सन् । हे अग्ने ॥ ७५॥
म० उत्कीलदृष्टाग्नेयी त्रिष्टुप् । हे अग्ने, हि यस्मात्कारणात् वयं ते तुभ्यमद्यास्मिन् दिने कामं हविः ररिम दद्मः । काम्यत इष्यत इति कामं हविः ररिम । 'रा दाने' लिट् 'अन्येषामपि दृश्यते' इति (पा० ६।३। १३७ ) ररिमेत्यस्य संहितायां दीर्घः । किं कृता । नमसा उपसद्य नमस्कारेणोपसङ्गम्य । नमस्कृत्य निकटमागत्य हविर्दद्म इत्यर्थः । कीदृशा वयम् । उत्तानहस्ताः उत्ताना हस्ता येषां ते अबद्धमुष्टिकाः त्यक्तकार्पण्या इत्यर्थः । तथा मनसा उपलक्षिताः सावधाना इत्यर्थः । कीदृशेन मनसा । यजिष्ठेन यजतीति यष्टृ अतिशयेन यष्टृ यजिष्ठं तेन । 'तुरिष्ठेमेयःसु' (पा. ६ । ४ । १५४ ) इति तृचो लोपः । यागतत्परेणेत्यर्थः । तथा अस्रेधता 'स्रिध गतौ' स्रेधति अन्यत्र गच्छति स्रेधत् न स्रेधदस्रेधत् तेन अनन्यगतेनेत्यर्थः । मन्मना मन्यते देवमहिमानं जानातीति मन्म तेन । मन्यतेर्मन् प्रत्ययः । देवतायाथात्म्यज्ञेनेत्यर्थः । यत एतादृशेन मनसा वयं हविः ररिम अतो हे अग्ने, विप्रो मेधावी त्वं देवान् यक्षि यज । मद्दत्तेन हविषा देवांस्तर्पयेत्यर्थः । यजतेः 'बहुलं छन्दसि' (पा० २ । ४ । ७३ ) इति शपि लुप्ते मध्यमैकवचने षत्वे ष्टुत्वे यक्षीति रूपम् । विप्रो अग्ने इत्यत्र 'प्रकृत्यान्तःपादमव्यपर' (पा० ६।१।१०५) इति प्रकृतिभावः ॥ ७५ ॥

षट्सप्ततितमी।
धा॒म॒च्छद॒ग्निरिन्द्रो॑ ब्र॒ह्मा दे॒वो बृह॒स्पति॑: । सचे॑तसो॒ विश्वे॑दे॒वा य॒ज्ञं प्राव॑न्तु नः शु॒भे ।। ७६ ।।
उ० धामच्छत् । वैश्वदेव्यनुष्टुप् । धामच्छत् । धामशब्दः स्थानवचनः । स्थानानि न्यूनानि पूरयति अतिरिक्तानि समीकरोति यः स धामच्छत् एवं धामच्छब्दः देवशब्दश्च सर्वत्र संबध्यते । योऽग्निर्देवो धामच्छत् यश्चेन्द्रः यश्च ब्रह्मा यश्च बृहस्पतिः । एते सर्वे सचेतसः समानचेतसः । चेत:शब्दः प्रकारवचनः । यज्ञं प्रावन्तु अन्यूनातिरिक्तं कुर्वन्तु । नः अस्माकम् शुभे स्विष्टे च ॥ ७६ ॥
म०. विश्वदेवदेवत्यानुष्टुप् । एते देवा नोऽस्माकं यज्ञं प्रावन्तु प्रकर्षेण रक्षन्तु । अन्यूनातिरिक्तं कुर्वन्वित्यर्थः । अन्यूनातिरेक एव कर्मणो रक्षणम् । शुमे इष्टे स्थाने स्वर्गे च यज्ञं स्थापयन्त्विति शेषः । यद्वा शुभे स्थाने यज्ञ प्रावन्तु । एते के । अग्निः देव इति सर्वत्र संबन्धनीयम् । इन्द्रः । ब्रह्मा चतुर्मुखः । बृहस्पतिर्जीवः । विश्वे देवाश्च । धामानि स्थानानि छादयति आच्छादयति धामच्छत् । छादयतेः क्विपि णिलोपे धातोर्ह्रस्वः । धाम्नां छदनं न्यूनानां पूरणमतिरिक्तानां समीकरणम् । इदं सर्वेषां विशेषणम् । तथा सचेतसः चेतसा प्रज्ञया सहिताः सचेतसः । समानं चेतो येषामिति वा समानज्ञाना अग्न्यादयो मद्यज्ञं रक्षन्त्वित्यर्थः ॥ ७६ ॥

सप्तसप्ततितमी।
त्वं य॑विष्ठ दा॒शुषो॒ नॄँ: पा॑हि शृणु॒धी गिर॑: । रक्षा॑ तो॒कमु॒त त्मना॑ ।। ७७ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां अष्टादशोऽध्यायः ॥ १८ ॥
उ० त्वं यविष्ठ इति व्याख्यातम् । नह्येषु प्रत्यक्षकृतमस्ति अनृषेरतपसो वेत्युपक्रम्य भूयोविद्यः प्रशस्यो भवतीति चाविधायाह । तस्माद्यदेव किंचानूचानो भवत्यार्षं तद्भवतीति अतोऽयमार्षेयो ग्रन्थ इति विद्वद्भिरादरणीयः ॥ ७७ ॥
इति उवटकृतौ मन्त्रभाष्येऽष्टादशोऽध्यायः ॥ १८ ॥
म०. ऋष्यादि प्रागुक्तम् । व्याख्याता च (अ० १३ । क. ५२)॥ ७७ ॥
महीधरकृते वेददीपेऽष्टादश ईरितः ।
वसोर्धारादिकोऽध्यायश्चित्युपस्थावसानकः ॥ १८ ॥

ऊनविंशोऽध्यायः।
तत्र प्रथमा।
स्वा॒द्वीं त्वा॑ स्वा॒दुना॑ ती॒व्रां ती॒व्रेणा॒मृता॑म॒मृते॑न । मधु॑मतीं॒ मधु॑मता सृ॒जामि॒ सᳪ सोमे॑न ।
सोमो॑ऽस्य॒श्विभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व ।। १ ।।
उ० अथ सौत्रामणी त्रिभिरध्यायैः प्रक्रियते अग्न्यङ्गत्वात् सौत्रामण्या अनन्तरमुपक्रमः । तत्र 'प्रजापतिर्यज्ञमसृ