पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भीमो भीषणः कुचरः कुत्सितचारी हिंस्रः प्राणिवधजीवनः। गिरिष्ठाः पर्वताश्रयः स यथा कांश्चिद्दैत्यप्राणिविशेषान्हन्ति तैरनभिभूयमानः एवं त्वं परावतः दूरप्रदेशादाहूयमानान् आजगन्थ आगच्छ । आगत्य च शृणु यत्प्रार्थ्यसेऽस्माभिः । सृकं शरणं वज्रं संशाय । 'शो तनूकरणे' तीक्ष्णीकृत्य । पविम् शत्रुकायेषु गन्तारम् हे इन्द्र, तिग्मम् तेजनम् उत्साहवन्तम् । ततो विशत्रून्ताढि वि ताढि । ताडयतेर्हिंसाकर्मण एतद्रूपम् । विमृधो नुदस्व प्रेरयस्व मृधः संग्रामादपुनरागमनाय ॥ ७१ ॥
म० जयदृष्टा त्रिष्टुप् हे इन्द्र, परस्याः परावतो दूरतराद्देशादाजगन्थ आगच्छ । परावच्छब्दो दूरवचनः । परस्या दूरदिशोऽपि परावतः दूरदेशादित्यर्थः । लोडर्थे लिट् । आगत्य च शत्रून् विताढि विशेषेण ताडय । मृधः संग्रामांश्च विनुदस्व विशेषेण प्रेरय दूरीकुरु । किं कृत्वा । पविं वज्रं संशाय तीक्ष्णीकृत्य 'शो तनूकरणे' ल्यप् । कीदृशं पविम् । सृकम् सरति शत्रुशरीरे गच्छतीति सृकः तम् । तिग्ममुत्साहवन्तम् 'तिग्मं तेजतेरुत्साहकर्मणः' ( निरु० १० । ६ ) इति यास्कः । क इव । मृगो न मृग इव । यथा मृगः सिंहो दूरादेत्य प्राणिनं हन्ति। कीदृशः । भीमः भयंकरः । कुचरः कुत्सितं चरति गच्छति कुचरः । गिरिष्ठाः गिरौ तिष्ठति गिरिष्ठाः पर्वताश्रयः । ताडयतिर्हिंसाकर्मा तस्य हौ परे 'छन्दस्युभयथा-' (पा० ३ ।। ४ । ११७ ) इत्यार्धधातुकत्वे णिचो लोपः हुझल्भ्यो हेर्धिः ष्टुत्वम् ताढि ॥ ७१ ॥

द्विसप्ततितमी।
वै॒श्वा॒न॒रो न॑ ऊ॒तय॒ आ प्र या॑तु परा॒वत॑: । अ॒ग्निर्न॑: सुष्टु॒तीरुप॑ ।। ७२ ।।
उ० वैश्वानरो नः । वैश्वानरदेवेत्ये गायत्रीत्रिष्टुभौ । वैश्वानरोऽग्निः नः अस्माकम् । ऊतये अवनाय तर्पणाय आ प्रयातु आगच्छतु परावतः । किंच सुष्टुतीरुप अस्माकं च शोभनाः स्तुतीः उप श्रोतुम् आप्रयातु आगच्छतु ॥ ७२ ॥
म० वैश्वानरदेवत्या गायत्री । वैश्वानरः अग्निर्नोऽस्माकं सुष्टुतीः शोभनाः स्तुतीरुप उपश्रोतुं परावतो दूरदेशादा प्रयातु आगच्छतु । किमर्थम् । नोऽस्माकमूतये रक्षणाय । अस्मान् रक्षितुमित्यर्थः ॥ ७२ ॥

त्रिसप्ततितमी।
पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश ।
वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षस्पा॑तु॒ नक्त॑म् ।। ७३ ।।
उ० पृष्टो दिवि । योऽग्निर्वैश्वानरः पृष्टः कोऽयमिति । दिवि आदित्यात्मना व्यवस्थितो मुमुक्षुभिः । तत्र ह्येवं श्रूयते । 'यमेतमादित्ये पुरुषं वेदयन्ते स इन्द्रः स प्रजापतिः स ब्रह्म' इति । यश्च वैश्वानरोऽग्निर्विद्युदात्मना - प्रावृषि स्थितः पृथिव्याम् अन्तरिक्षे लोके । पृथिवीत्यन्तरिक्षनामसु पठितम् । उदकार्थिभिः कोयं नाम द्विपदचतुष्पदजीवनहेतुः । यश्चाग्निर्वैश्वानरोऽस्मिन् लोके व्यवस्थितः पृष्टोऽग्निहोतृभिर्होतृपर्यन्तैः कोयं तापपाकप्रकाशैरुपकृत्य विश्वा ओषधीराविवेश आविष्टः । यश्च वैश्वानरोऽग्निः सहसा बलेन मथ्यमानोऽध्वर्युणा कोऽयं निर्ममन्थ इति पृष्टो दिदृक्षुभिः । स नः सोऽस्मान् दिवा अहनि पातु रक्षतु । सच नक्तं रात्रौ पातु रिषः विनाशात् । रिषतिर्हिंसाकर्मा । दिवानक्तमिति सन्ततार्थं वचनम् ॥ ७३ ॥
म० वैश्वानरदेवत्या त्रिष्टुप् कुत्सदृष्टा । वैश्वानरः सर्वनरेभ्यो हितोऽग्निर्दिवा दिवसे नोऽस्मान् पातु रक्षतु । स च नक्तं रात्रौ नः पातु सर्वदास्मान् रक्षत्वित्यर्थः । स कः । योऽग्निर्दिवि द्युलोके पृष्टः कोऽयमादित्यात्मना तपतीति मुमुक्षुभिः पृष्टः अन्तरिक्षे 'यमेतमादित्ये पुरुषं वेदयन्ते स इन्द्रः स प्रजापतिस्तद्ब्रह्म' इति श्रुतेः । यश्चाग्निः पृथिव्यामन्तरिक्षलोके पृष्टः कोऽयं विद्युदात्मना स्थित इति जलार्थिभिः पृष्टः । अन्तरिक्षनामसु पृथिवीति पठितम् । यश्च विश्वा ओषधीः सर्वा व्रीह्याद्योषधीः आविवेश प्रविष्टः सन् पृष्टः कोऽयं प्रजानां जीवनहेतुस्तापपाकप्रकाशैरुपकरोति यश्च सहसा बलेनाध्वर्युणा मध्यमानः सन् पृष्टः जनैः कोऽयं मथ्यत इति । सोऽयमग्निर्दिवा नक्तं रिषो वधात् पातु । रिषतिर्हिंसाकर्मा । मास्मान्नाशयत्वित्यर्थः ॥ ७३ ॥

चतुःसप्ततितमी।
अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती अ॒श्याम॑ र॒यिᳪ र॑यिवः सु॒वीर॑म् ।
अ॒श्याम॒ वाज॑म॒भि वा॒जय॑न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ।। ७४ ।।
उ० अश्याम तम् । द्वे आग्नेय्यौ त्रिष्टुभौ कामवत्यौ । अश्याम प्राप्नुयाम तं कामं यत्कामा एतत्कुर्मः। हे अग्ने, तव उती ऊत्या अवनेन तर्पणेन च । अश्याम च रयिं धनम् । हे रयिवः धनवन् । सुवीरं कल्याणपुत्रम् । अश्याम वाजमन्नम् अभिवाजयन्तः । वाजतिरर्चतिकर्मा । अभिपूजयन्तोग्निम् अन्यानपि पूजयितव्यान् । अश्याम द्युम्नं यशः हे अजर जरारहिताग्ने । अजरं द्युम्नविशेषणमेतत् । अक्षीणं द्युम्नं ते तव प्रसादात् ॥ ७४ ॥
म० भरद्वाजदृष्टाग्नेयी कामवती त्रिष्टुप् । हे अग्ने, तव ऊती ऊत्या अवनेन पालनेन वयं तं काममभिलाषमश्याम प्राप्नुयाम यमिच्छाम इत्यर्थः। अशूङ् व्याप्तौ विकरणव्यत्ययेन लोटि श्यन्प्रत्ययः । रयिर्धनमस्यास्तीति रयिवान् तत्संबुद्धौ हे रयिवः धनवन् , सुवीरं रयिं वयमश्याम शोभना वीराः पुत्रा यत्र तं रयिं पुत्रसहितं धनं वयं प्राप्नुयाम । वाजयतिरर्चतिकर्मा । वाजयन्तो वह्निमर्चयन्तः सन्तो