पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बन्ध्यावश्यमेका भवति तेन तस्या हृदयशूलसंबन्धिसमिधानान्ते कृते यदाकूतादिति प्रत्यृचमष्टौ स्रुवाहुतीर्जुहोतीति सूत्रार्थः । अष्टावृच अग्निदेवत्या विश्वकर्मदृष्टाः । आद्या जगती त्रयः पादा एकादशार्णाः चतुर्थश्चतुर्दशार्णः । हे ऋत्विजः, यूयं तदनु प्रेत प्रजापतिकृतं कर्मानुगच्छतानुसरत । प्रजापतिशरीरादुत्पन्नं यत्कर्म वैदिकं तत्कुरुतेत्यर्थः । तत्र कर्मणि कृते सति सुकृतां पुण्यवतां लोके । उ एवार्थे । स्वर्गमेव प्रेतेत्यनुषङ्गः । स्वर्गं गच्छत । प्रथमजाः पूर्वोत्पन्नाः पुराणाः पुरापि नवा अजरामरा ऋषयो यत्र लोके जग्मुः । तत्किं कर्म । यत्प्रजापतेराकूतादभिप्रायात् हृदो वा हृदश्च बुद्धेः मनसः संकल्पात्मकात् चक्षुषः । चक्षुरुपलक्षणम् । चक्षुरादीन्द्रियेभ्यश्च समसुस्रोत् संस्रुतं प्रसृतम् । ब्रह्मणा यत् सर्वात्मना सृष्टं कर्म तत् कृत्वा स्वर्लोकं गच्छतेत्यर्थः । कीदृशं कर्म । संभृतं संभारैः पुष्टं पूर्णसामग्रीकम् । मनःप्रवर्तक आत्मनो धर्म आकूतम् । समसुस्रोदिति 'स्रु गतौ' इत्यस्माल्लङ् 'बहुलं छन्दसि' (पा० २।४ । ७६) इति जुहोत्यादित्वाच्छ्लौ द्वित्वम् ॥ ५८ ॥

एकोनषष्टी।
ए॒तᳪ स॑धस्थं॒ परि॑ ते ददामि॒ यमा॒वहा॑च्छेव॒धिं जा॒तवे॑दाः ।
अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर्वो॒ अत्र॒ तᳪ स्म॑ जानीत पर॒मे व्यो॑मन् ।। ५९ ।।
उ० एतᳪ सधस्थं एतं यजमानं सधस्थं समास्थानम् । देवानां स्वर्गं परि ते ददामि परिददामि तव । दानं च रक्षणार्थम् । यं च आवहात् आनयेत् शेवधिं सुखनिधिमाहुतिपरिणामभूतम् । शेव इति सुखनाम । जातवेदा अग्निः तं च परिददामि । एवंच स्वर्गाख्यं स्थानमुक्त्वा अथेदानीं स्थानिनो देवानाह । अन्वागन्ता कर्मसमाप्त्यनुपदमेव आगन्ता । यज्ञपतिः वः युष्माकमत्र स्थितानां तं स्म जानीत । परमे व्योम्नि स्थाने अवस्थितं सन्तम् ॥ ५९ ॥
म०. तिस्रस्त्रिष्टुभः । सह तिष्ठन्ति देवा यत्रेति सधस्थः स्वर्गः तं प्रार्थयते । हे सधस्थ, एतं यजमानं ते तव परिददामि । जातवेदा अग्निर्यं शेवधिं सुखनिधिमाहुतिपरिणामभूतमावहात् आवहति प्रापयति तं यज्ञफलभूतं च सुखनिधिं तव परिददामि । उभयं रक्षणार्थं तुभ्यं ददामीत्यर्थः । एवं यजमानं यज्ञं च स्वर्गे समर्प्य तत्स्थान् देवानर्थयते अन्विति । हे देवाः, यज्ञपतिर्यजमानो वो युष्मानन्वागन्ता कर्मसमाप्तौ भवतः प्रत्यागमिष्यति लुट् । अत्रास्मिन् परमे व्योमन् उत्कृष्टे व्योम्नि आकाशे स्वर्गाख्ये आगतं तं यजमानं यूयं जानीत । स्मेति पादपूरणः । स्वर्गागतः स भवद्भिः संभावनीय इत्यर्थः । आवहात् वहतेर्लेट् 'इतश्च लोपः परस्मैपदेषु' (पा० ३।४। ९७) इति तिप इलोपः 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमः । शेव इति सुखनाम । शेवं धीयतेऽस्मिन्निति शेवधिः ॥ ५९॥

षष्टी।
ए॒तं जा॑नीथ पर॒मे व्यो॑म॒न् देवा॑: सधस्था वि॒द रू॒पम॑स्य ।
यदा॒गच्छा॑त्प॒थिभि॑र्देव॒यानै॑रिष्टापू॒र्ते कृ॑णवाथा॒विर॑स्मै ।। ६० ।।
उ० एतं जानीथ देवदेवत्या । एतं यजमानं जानीथ । परमे व्योमन् परमे स्थानेऽवस्थितं सन्तम् । हे देवाः, । सधस्थाः समानस्थानाः। किंच । विद जानीत रूपमस्य | यजमानस्य प्रत्यभिज्ञानाय । ततो विदितरूपः । यदागच्छात् आगच्छेत्पथिभिः देवयानैः । पूजार्थं बहुवचनमुपभोगस्थानभेदाद्वा । अथ इष्टापूर्ते कृणवाथ कुरुथ आविःप्रकाशफले अस्मै ॥ ६०॥ ।
म० सह तिष्ठन्ति सधस्थाः । परमे व्योमन् उत्कृष्टे स्वर्गभूते व्योम्नि सह स्थिता हे देवाः, एतं यजमानं जानीथ जानीत । लेटो मध्यमबहुवचने आडागमे रूपम् । किंच अस्य यजमानस्य रूपं विद वित्त जानीत प्रत्यभिज्ञानाय । वेत्तेर्विकरणव्यत्यये शः वचनव्यत्ययश्च । विदितरूपोऽयं यद्यदा देवयानैः पथिभिः स्वर्गमार्गैः आगच्छात् आगच्छति । इलोपाडागमौ । तदा इष्टापूर्ते श्रौतस्मातकर्मफले अस्मै यजमानायाविःकृणवाथ प्रकटीकुरुत दत्तेत्यर्थः । देवा यान्ति येषु ते देवयानाः 'करणाधिकरणयोश्च' (पा० ३ । ३ । ११७) इति | ल्युट । उपभोगस्थानभेदाद्बहुत्वं पूजार्थं वा । इष्टं च पूर्तं च इष्टापूर्ते देवसंबन्धिकर्मत्वात् देवताद्वन्द्वे च (पा० ६।३।२६) इति पूर्वपदस्यानङ् । आपूर्तं चेति वा । कृणवाथ 'कृञ् कृतौ' स्वादिः आडागमश्च ॥ ६० ॥

एकषष्टी।
उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्ते सᳪ सृ॑जेथाम॒यं च॑ ।
अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानाश्च सीदत ।। ६१ ।।
उ० उद्बुध्यस्वाग्ने येन वहसीति व्याख्याते ॥६१॥६२॥
म० उद्बुध्यस्व । त्रिष्टुप् । येन वहसि । अनुष्टुप् । एते द्वे व्याख्याते (अ० १५ । क० ५४-५५) ॥ ६१ ॥ ६२ ॥

द्विषष्टी।
येन॒ वह॑सि स॒हस्रं॒ येना॑ग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ नय॒ स्व॒र्दे॒वेषु॒ गन्त॑वे ।। ६२ ।।

त्रिषष्टी।
प्र॒स्त॒रेण॑ परि॒धिना॑ स्रु॒चा वेद्या॑ च ब॒र्हिषा॑ ।
ऋ॒चेमं य॒ज्ञं नो॑ नय॒ स्व॒र्दे॒वेषु॒ गन्त॑वे ।। ६३ ।।
उ० प्रस्तरेण परिधिना च स्रुचा च वेद्या च बर्हिषा च ऋचा च ऋगादिभिर्मन्त्रैश्च । इमं यज्ञं नः अस्माकं संबन्धिनं