पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नय । हे अग्ने, स्वर्गं लोकम् देवेषु गन्तवे देवान्प्रति गमनाय । यज्ञे हि गते यजमानो गत एव । स हि तस्य शरीरमित्यभिप्रायः ॥ ६३ ॥
म० तिस्रोऽनुष्टुभः । हे अग्ने, नोऽस्माकमिमं यज्ञं स्वः स्वर्गं नय । किं कर्तुम् । देवेषु गन्तवे देवान् प्रति गन्तुं प्राप्तुम् । तुमर्थे तवेन्प्रत्ययः नित्त्वादाद्युदात्तः । कीदृशम् । प्रस्तरेण स्रुगाधारभूतेन दर्भमुष्टिना परिधिना परिधिभिस्त्रिभिर्बाहुमात्रैः काष्ठैः स्रुचा जुह्वादिकया वेद्या मितया वेदेर्भूम्या वा बर्हिषा दर्भपूलकेन ऋचा ऋगादिभिर्मन्त्रैश्चोपलक्षितमिति शेषः ॥ ६३ ॥

चतुःषष्टी।
यद्द॒त्तं यत्प॑रा॒दानं॒ यत्पू॒र्तं याश्च॒ दक्षि॑णाः ।
तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑र्दे॒वेषु॑ नो दधत् ।। ६४ ।।
उ० यद्दत्तम् । भार्याजामातृपुत्रप्रभृतिभ्यः । यच्च परादानं दीनान्धकृपणेभ्यो दयया । यच्च पूर्तम् स्मृतिविहितं ब्राह्मणभोजनादि । याश्च दक्षिणाः यज्ञान्तर्गताः तत्सर्वम् अग्निः वैश्वकर्मणः विश्वकर्मैव वैश्वकर्मणः स्वार्थे तद्धितः । स्वर्गे लोके देवेषु मध्ये नः असदर्थमस्साकं वा । दधत् दधातु फलोपभोगार्थम् ॥ ६४ ॥
म. वैश्वकर्मणः विश्वकर्मा प्रजापतिस्तदीयः विश्वकर्मैव वैश्वकर्मणः स्वार्थे तद्धितो वा । विश्वकर्मा अग्निः नोऽस्माकं तद्दानं स्वः स्वर्लोके देवेषु मध्ये दधत् दधातु स्थापयतु । फलभोगायेत्यर्थः । तत्किम् । यद्दत्तं भार्यापुत्रजामातृभगिनीतत्पत्यादिभ्यो दत्तम् । यच्च परादानं परोपकाराय दयादिनान्धकृपणेभ्यो दत्तम् । यच्च पूर्तं स्मृतिविहितं विप्रभोजनकूपारामादि । याश्च दक्षिणाः यज्ञसंबन्धिन्यः । यज्ञे गते यज्ञाङ्गत्वाद्यजमानः स्वर्गत एव ॥ ६४ ॥

पञ्चषष्टी।
यत्र॒ धारा॒ अन॑पेता॒ मधो॑र्घृ॒तस्य॑ च॒ याः ।
तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑दे॒र्वेषु॑ नो दधत् ।। ६५ ।।
उ० यत्र धाराः । यत्र यस्मिन्देशे धाराः अनपेता अनुपक्षीणाः उपभुज्यमाना अपि क्षयं नयन्ति मधोः मधुनः घृतस्य च । याश्चान्याः सोमादीनाम् । तत् तव अग्निः वैश्वकर्मणः देवेषु स्वः स्वर्गे लोके मध्ये नः अस्मान्दधातु ॥६५॥
म० वैश्वकर्मणः विश्वकर्माग्निस्तत् तत्र स्वः स्वर्गे देवेषु मध्ये नोऽस्मान् दधत् दधातु स्थापयतु । तत्र यत्र देशे मधोर्मधुनो घृतस्य च याश्चान्याः पयोदध्यादीनां धाराः प्रवाहा अनपेता न अपेता उपभुज्यमाना अप्यक्षीणा वर्तन्ते ॥६५॥

षट्षष्टी।
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ म आ॒सन् ।
अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ।। ६६ ।।
उ० अविनियुक्तत्वादग्निप्रकरणाच्च यजमानदर्शनमेतत् । अग्निरस्मि त्रिष्टुबाग्नेयी । अग्निरहमस्मि जन्मना उत्पत्त्यैव जातवेदाः । अथ ह वै रेतः सिक्तं प्राणोऽन्ववरोहति । तद्विन्दते तद्यज्जातं जातं विन्दते तस्माज्जातवेदाः' इत्येतदभिप्रायम् । यतश्चाहमग्निरस्मि अतो घृतं मे मम चक्षुः 'घृतहोमिनमहं पश्यामी'त्येतदभिप्रायम् । अमृतं च मम आसन् आस्ये मुखे । यो हि मम मुखे हविर्जुहोति तमहममृतं करोमीति । किंच अर्कः अर्चनीयः यज्ञः अस्मि नाम्ना त्रिधातुः ऋग्यजुःसामभिः । रजसो विमानः उदकस्य निर्माता । किंच अजस्रः अनुपक्षीणः । घर्मः दीप्तः उदकरक्षणो वा आदित्यः अहमस्मि । किंच हविरप्यहमस्मि नाम नाम्ना । नामशब्दस्य कृतविभक्तिव्यत्ययस्य अस्मिशब्दस्य च सर्वत्र संबन्धः । एवमग्न्यद्वैतं मन्त्रार्थः ॥ ६६ ॥
म० अग्न्यद्वैतवादिनी त्रिष्टुप् देवश्रवोदेववातदृष्टा यज्ञेऽविनियुक्ता । अग्निप्रकरणत्वाद् यजमान आत्मानमग्नित्वेन ध्यायति। जन्मना उत्पत्त्यैवाहमग्निरस्मि अग्निरूपोऽस्मि । नाम विभक्तिलोपः । नाम्ना हविः पुरोडाशादिकमप्यहमस्मि । कीदृशोऽहम् । जातं जातं विन्दत इति जातवेदाः । उत्पन्नस्य सर्वस्य स्वामीत्यर्थः । अर्कः अर्चनीयो यज्ञोऽप्यहमेव । त्रिधातुः त्रयो धातव ऋग्यजुःसामलक्षणा यस्य । रजसो विमानः रज उदकं तस्य निर्माता । विमिमीत इति विमानः । नन्द्यादित्वात्कर्तरि ल्युट् । अजस्रः न जसति क्षीयत इत्यजस्रः अनुपक्षीणः 'जसु उपक्षये' 'नमिकम्पि-'(पा० ३।२।१६७) इत्यादिना रप्रत्ययः । घर्मः 'घृ क्षरणदीप्त्योः' जिघर्ति घर्मः औणादिको मप्रत्ययः । दीप्तः आदित्यरूपः क्षरणो मेघरूपो वा । एतादृशोऽग्निरहं यतस्ततो घृतं मे मम चक्षुर्नेत्रं । घृतहोमिनं पश्यामीति भावः । अमृतं हविर्मम आसन् आस्ये मुखे 'पद्दन्न(पा० ६।१ । ६३ ) इत्यादिना आस्यशब्दस्यासन्नादेशः सप्तम्या लुक् । मन्मुखे हविर्जुह्वन्तममृतं करोमीति भावः । एवमात्मन्यन्यग्न्यद्वैतं संपाद्यम् ॥ ६६ ॥

सप्तषष्टी।
ऋचो॒ नामा॑स्मि॒ यजू॑ᳪषि॒ नामा॑स्मि॒ सामा॑नि॒ नामा॑स्मि ।
ये अ॒ग्नय॒: पाञ्च॑जन्या अ॒स्यां पृ॑थि॒व्यामधि॑ ।
तेषा॑मसि॒ त्वमु॑त्त॒मः प्र नो॑ जी॒वात॑वे सुव ।। ६७ ।।
उ० ऋचो नामास्मि । अनेनात्मनि वेदत्रयात्मकत्वं संपादयति । ऋग्वेदनामास्मि यजुर्वेदनामास्मि सामवेदनामास्मि । चित्यमग्निमुपतिष्ठते । ये अग्नयः । आग्नेय्यनुष्टुप् । | 'ये अग्नयः पाञ्चजन्याः पञ्चचितिकाः' इति श्रुतिः । अस्यां पृथिव्याम् अधि उपरि स्थाः । तेषामग्नीनामुद्गततमोऽसि