पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विपञ्चाशी।
इ॒मौ ते॑ प॒क्षाव॒जरौ॑ पत॒त्रिणौ॒ याभ्या॒ᳪ रक्षा॑ᳪस्यप॒हᳪस्य॑ग्ने ।
ताभ्यां॑ पतेम सु॒कृता॑मु लो॒कं यत्र॒ ऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः ।। ५२ ।।
उ० इमौ ते । याविमौ ते तव पक्षौ अजरौ जरारहितौ । पतत्रिणावुत्पतनशीलौ । ताभ्यां च रक्षांसि अपहंसि । हे अग्ने, ताभ्यां पक्षाभ्यां पतेम उत्पतेम । सुकृतां लोके सुकृतिनामेव स्थानम् । यत्रान्येऽपि ऋषयः जग्मुः गताः। प्रथमजाः पुराणाः ॥ ५२ ॥
म० हे अग्ने, यौ ते तवेमौ पक्षौ उत्तरदक्षिणौ । कीदृशौ। अजरौ नास्ति जरा ययोस्तौ सदा नवौ । पतत्रिणौ पतत्रं पतनं ययोरस्ति तौ उत्पतनशीलौ । याभ्यां पक्षाभ्यां रक्षांसि राक्षसान् त्वमपहंसि । उ एवेत्यर्थे । ताभ्यां पक्षाभ्यां वयं सुकृतां पुण्यकृतामेव लोकं पतेम उत्पतेम । यत्र सुकृतलोके प्रथमजाः प्रथमोत्पन्नाः पुराणाः पुरातना ऋषयो मुनयो जग्मुः ॥ ५२॥

त्रिपञ्चाशी।
इन्दु॒र्दक्ष॑: श्ये॒न ऋ॒तावा॒ हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः ।
म॒हान्त्स॒धस्थे॑ ध्रु॒व आ निष॑त्तो॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪसीः ।। ५३ ।।
उ० इन्दुर्दक्षः । यस्त्वमिन्दुः । 'इदि परमैश्वर्ये' । परमेश्वरः इन्दनो वा । दक्षः उत्साहवान् श्येनः शंसनीयगतिः । ऋतावा यज्ञवान् उदकवान्वा । हिरण्यपक्षः शकुनः । आकृत्या भुरण्युः भर्ता । महान् प्रभावतः । सधस्थे ब्रह्मणा सह अविभक्तस्थाने ध्रुव आनिषत्तः स्थिर आनिषण्णः । तस्मै नमः ते तुभ्यमस्तु मां मा हिंसीः ॥ ५३ ॥
म० हे अग्ने, यस्त्वमेतादृशस्तस्मै ते तुभ्यं नमोऽस्तु । त्वं मां मा हिंसीः हिंसां मा कुरु । कीदृशस्त्वम् । इन्दुः इन्दति ईष्टे इन्दुः ईश्वरः 'इदि परमैश्वर्ये' चन्द्रवदाह्लादको वा । दक्षः उत्साहवान् श्येनः श्येनपक्षिवदाकाशचारित्वाच्छयेनः । यद्वा शंसनीयगतिः । ऋतावा ऋतं सत्यं यज्ञ उदकं वास्यास्ति ऋतवा । संहितायां दीर्घः । हिरण्यपक्षः सुवर्णशकलैर्हिरण्यरूपौ पक्षौ यस्य । शकुनः पक्ष्याकारः । भुरण्युः बिभर्तीति भुरण्युः । भृञ औणादिकः कन्युप्रत्ययः । पोषकः । महान् प्रभावेण । ध्रुवः स्थिरः । सधस्थे ब्रह्मणा सह स्थाने आनिषत्तः आसमन्तान्निषण्णः । सह तिष्ठन्ति यत्रेति सधस्थं 'सधमादस्थयोश्छन्दसि' (पा० ६ । ३ । ९६) इति सधादेशः । 'नसत्त-' (पा० ८।२।६१) इत्यादिना निष्ठायां निपातः॥५३॥

चतुःपञ्चाशी।
दि॒वो मू॒र्धाऽसि॑ पृथि॒व्या नाभि॒रूर्ग॒पामोष॑धीनाम् । वि॒श्वायु॒: शर्म॑ स॒प्रथा॒ नम॑स्प॒थे ।। ५४ ।।
उ० अश्वनामादियुञ्जानं विमुञ्चति द्वाभ्यामाग्नेयीभ्यां पुरोष्णिग्जगतीभ्याम् । दिवो मूर्धासि द्युलोकोत्तमाङ्गमसि । पृथिव्याः नाभिर्नहनम् । ऊर्क् रसः सारः अपाम् ओषधीनां च । विश्वायुश्च सर्वप्राणिनामायुर्जीवनम् । सप्रथाश्च सर्वतः पृथुः तिर्यगूर्ध्वमधश्चानवच्छिन्नविभवः । तस्मै ते नमः पथे । अग्निप्रमुखो हि देवयानः पन्थाः ॥ ५४ ॥
म० 'आग्निमारुतस्तोत्रस्य पुरस्ताद्विमोचनं परिधिसन्ध्योर्दिवो मूर्धेति प्रत्यृचम्' ( का० १८ । ६ । १७)। यज्ञायज्ञियस्तोत्रप्रकरणात्प्राक् दिवो मूर्धेति ऋग्द्वयेन दक्षिणोत्तरयोः परिधिसन्ध्योरुपस्पृश्याग्निविमोचनं करोतीति सूत्रार्थः । आग्नेयी परोष्णिक् आद्यावष्टकौ तृतीयो द्वादशकः सा त्रिपादा परोष्णिक् । अत्राद्यो दशकः द्वितीयः सप्तकः तृतीयो द्वादशकस्तेनैकाधिका । हे अग्ने, यस्त्वमीदृशोऽसि तस्मै पथे मार्गाय स्वर्गमार्गरूपाय नमो नमस्कारोऽस्तु । अग्निमुखो हि देवयानपन्थाः श्रुतावुक्तः । कीदृशस्त्वम् । दिवो मूर्धा स्वर्लोकस्योत्तमाङ्गस्थानीयः । पृथिव्या नामिः मध्यस्थानीयः । नह्यतेऽनया सा नाभिः । नहति बध्नाति जीवनेनेति नाभिः | 'नहो भश्च-' ( उणा० ४ । १२७) इतीन्प्रत्ययो णिश्च भान्तादेशः नित्त्वादाद्युदात्तः 'ञित्यादिर्नित्यम्' (पा० ६।१। १९७ ) इत्युक्तेः । पृथ्वी लोकानां जीवनमग्निनिबन्धनमिति भावः । अपां जलानामोषधीनां व्रीह्यादीनां च ऊर्क् रसः सारः। विश्वायुः विश्वं सर्वमायुर्यस्य सः बहुजीवनः । यद्वा विश्वेषां सर्वेषां प्राणिनामायुर्जीवनम् । तदधिजीवनत्वात्तेषामिति भावः । | शर्म शरणभूतः सर्वेषाम् । सप्रथाः प्रथनं प्रथो विस्तारः प्रथसा सह वर्तमानः सप्रथाः तिर्यगूर्ध्वमधश्चानवच्छिन्नप्रभावः । ईदृशायाग्नये नमः ॥ ५४ ॥

पञ्चपञ्चाशी।
विश्व॑स्य मू॒र्धन्नधि॑ तिष्ठसि श्रि॒तः स॑मु॒द्रे ते॒ हृद॑यम॒प्स्वायु॑र॒पो द॑त्तोद॒धिं भि॑न्त ।
दि॒वस्प॒र्जन्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑व ।। ५५ ।।
उ० विश्वस्य मूर्धन् । यस्त्वं विश्वस्य सर्वप्राणिजातस्य मूर्धन् मूर्ध्नः अधि उपरि तिष्ठसि । श्रितः आश्रितः बुद्धीन्द्रियाणि सुषुम्णां वा नाडीम् । यस्य च समुद्रे समुन्दने अन्तरिक्षे ते तव हृदयम् । अप्सु च आयुर्जीवनम् । तं त्वां याचे । अपो दत्त अपो देहीति वचनव्यत्ययः । एकोऽग्निरिह देवता । कथमिति चेत् । उदधिं भिन्त । उदकं धत्त इत्युदधिः । उदकस्य उदादेशः । मेघ उच्यते । अत्रापि भिधीति प्राप्ते भिन्दतेर्विदरणार्थस्य बहुवचनं छान्दसम् ।