पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथापि वर्णलोपो भवति तत्त्वा यामीति यास्कोक्तेराकारलोपः । कीदृशोऽहम् । ब्रह्मणा त्रयीलक्षणेन वेदेन वन्दमानः त्वां स्तुवानः । किंच हे उरुशंस, शंसनं शंसः स्तुतिः 'शंसु स्तुतौ' उरुर्महान् शंसः स्तुतिर्यस्य स उरुशंसः तत्संबुद्धौ हे बहुस्तुते, इहास्मिन् स्थाने अहेडमानः हेडते क्रुध्यति हेडमानः न हेडमानोऽहेडमानः अक्रुध्यन् सन् त्वं बोधि बुध्यस्व त्वम् । मत्प्रार्थनां जानीहीत्यर्थः । 'हुझल्भ्यो हेर्धिः' 'वा छन्दसि' (पा० ३ । ४ । ८८ ) इति हेरपित्त्वाद्गुणः धलोपश्छान्दसः । किंच नोऽस्माकमायुर्जीवनं मा प्रमोषीः मा चोरय 'मुष स्तेये' लुङ् 'न माङयोगे' (पा० ६ । ४ । ७४) इत्यडभावः । पूर्णमायुश्च देहीत्यर्थः ॥ ४९ ॥

पञ्चाशी।
स्व॒र्ण घ॒र्मः स्वाहा॑ स्वर्णार्कः स्वाहा॑ स्वर्ण शु॒क्रः स्वाहा स्वर्ण ज्योति॒: स्वाहा॒ स्वर्ण सूर्य॒: स्वाहा॑ ।। ५०।।
उ० अथार्काश्वमेधयोः सन्तती जुहोति पञ्चभिर्यजुर्भिः। स्वर्ण यजुः सूर्याहर्देववचनः स्वःशब्दः । स्वरिव यो घर्म आदित्यस्तदग्नौ जुहोमि स्थापयामि स्वाहाकारेण स्वरिव योऽर्कस्तमादित्ये स्थापयामि । स्वर्ण स्वरिव यः शुक्रस्तमादित्य एवं जुहोमि । स्वरिव ज्योतिरग्निस्तमग्नावेव जुहोमि । स्वर्ण स्वरिव यः सूर्यस्तमुत्तमं करोमि ॥ ५० ॥
म० पञ्च यजूंष्यग्निदेवत्यानि । सूर्याहर्देववाची स्वःशब्दः । न इवार्थे । अर्काश्वमेधसंततिसंज्ञाः पञ्चाहुतयः । तथाच श्रुतिः 'अथार्काश्वमेधयोः सन्ततीर्जुहोति' (९ । ४ । ३ । ८) इति । अस्यार्थः । अर्कोऽग्निः अश्वमेधो रविस्तयोः सन्ततयः सन्तन्वन्ति संयोजयन्तीति संततयस्ताः अग्न्यादित्यैक्यकारिका आहुतय इत्यर्थः । तथाच श्रुतिः 'अग्निरर्कोऽसावादित्योऽश्वमेधस्तौ सृष्टौ नानैवास्तां तौ देवा एताभिराहुतिभिः समतन्वन्समदधुः' (९ । ४ । ३ । १८) इति । तदनुसारेण व्याख्या यथा । न इवार्थे । स्वः न स्वरिव अहरिव दिनकरत्वात्सूर्यस्याहरुपमानम् । स्वरिव दिनमिव यो घर्मः आदित्यः तं स्वाहा अग्नौ जुहोमि तमग्नाविति शेषः पूरणीयः । आदित्यमग्नौ स्थापयामि । 'असौ वा आदित्यो घर्मोऽमुं तदादित्यमस्मिन्नग्नौ प्रतिष्ठापयति' ( ९ । ४ । ३ । १९) इति श्रुतेः। स्वरिव सूर्य इव योऽर्कोऽग्निस्तमादित्ये जुहोमि स्थापयामि। 'अयमग्निरर्क इमं तदग्निममुष्मिन्नादित्ये प्रतिष्ठापयति' (९। ४ । ३ । २०) इति श्रुतेः । स्वरिव स्वर्देवः नकारो निश्चितार्थः । स्वर्न देव इव यः शुक्र आदित्यस्तमादित्ये एव जुहोमि स्थापयामि । 'असौ वा आदित्यः शुक्रस्तं पुनरमुत्र दधाति' (९। ४ । ३ । २१ ) इति श्रुतेः । स्वः स्वर्गः स इव ज्योतिरग्निः स्वर्गप्रदत्वादग्नेः स्वर्गोपमानम् । तमग्निमग्नावेव जुहोमि स्थापयामि । 'अयमग्निर्ज्योतिस्तं पुमरिह ददाति' (९।४।। ३ । २२) इति श्रुतेः । एवमग्निं सूर्ये सूर्यमग्नौ सूर्ये च सूर्यमग्नावग्निं च संधाय । किंबहुना तयोः संयोगं कृत्वा सूर्यमुत्तमं करोति स्वर्न सूर्यः स्वाहेति । स्वः न सर्वदेवरूप इव यः सूर्यस्तं स्वाहा उत्तमं करोमि । अव्ययानामनेकार्थत्वात् स्वाहाशब्द उत्तमार्थः । सर्वे देवाभिन्ना भ्रान्त्या भासन्ते वस्तुतः सूर्य एव नानारूपोऽस्तीतीवशब्दार्थः । 'असौ वा आदित्यः सूर्योऽमुं तदादित्यमस्य सर्वस्योत्तमं दधाति तस्मादेषोऽस्य सर्वस्योत्तमः' (९ । ४ । ३ । २३ ) इति श्रुतेः । एवं पञ्चाहुतिभिरग्न्यर्कयोरैक्यं विधाय सर्वदेवेष्वर्कस्योत्तमत्वं कृतमिति भावः ॥५०॥

एकपञ्चाशी। |
अ॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्यᳪ सु॑प॒र्णं वय॑सा बृ॒हन्त॑म् ।
तेन॑ व॒यं ग॑मेम ब्र॒ध्नस्य॑ वि॒ष्टप॒ᳪ स्वो रुहा॑णा॒ अधि॒ नाक॑मुत्त॒मम् ।। ५१ ।।
उ० अग्निं युनज्मि तिसृभिराग्नेयीभिः द्वाभ्यां त्रिष्टुब्भ्यां तृतीयया पङ्क्याधा । यमग्निं युनज्मि शवसा बलेन घृतेन च । दिव्यं दिवि भवम् सुपर्णं सुपतनम् वयसा बृहन्तम् वयसा धूमेन बृहन्तं महान्तम् । धूमेन हि महानग्निर्भवति । | 'अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिः' इति श्रुतिः । तेनाग्निना युक्तेन वयं गमेम गच्छेम । ब्रध्नस्यादित्यस्य विष्टपं विगतसंतापम् । सर्वद्वन्द्वोपलक्षणस्तापः । ततोऽप्यधि स्वर्गलोकं रुहाणाः आरोहन्तः नाकमुत्तमं च गमेमेत्यनुवर्तते । यत्र गता न अकमसुखं प्राप्नुवन्ति स नाको लोकः ॥५१॥
म० 'अग्नियोजनं प्रातरनुवाकमुपाकरिष्यन् परिधीनालभ्य यथापूर्वमग्निं युनज्मीति प्रत्यृचम्' ( का. १८।६। १६) । अस्यार्थः । प्रातरनुवाकोपाकरणात्प्राक् यथापूर्वमित्युपधानक्रमेण ऋक्त्रयेण प्रत्येकं परिधीन् स्पृष्ट्वाग्नियोजनं करोतीति । अग्निदेवत्यास्तिस्रः द्वे त्रिष्टुभौ तृतीया पङ्क्तिः । शवसा बलेन घृतेनाज्येन चाहमग्निं युनज्मि संयोजयामि ‘युजिर्योगे' 'रुधादिभ्यः श्नम्' । कीदृशमग्निम् । दिव्यं दिवि भवो दिव्यस्तम् । सुपर्णं शोभनं पर्णं पतनं यस्य तं सुगमनम् । वयसा धूमेन बृहन्तं वह्निर्धूमेन महान् भवति । 'अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिः (५।३।५।१७) इति श्रुतेः। किंच तेन युक्तेनाग्निना ब्रध्नस्यादित्यस्य विष्टपं लोकं वयं गमेम गच्छेम । गमेराशीर्लिङि लिड्याशिष्यङ् (पा० ३।१। । ८६ ) इत्यङ्प्रत्यये उत्तमबहुचने रूपम् । विगतस्तापो दुःखं यस्य स विष्टपो लोकः । ततोऽधि उपरि ब्रध्नविष्टपोपरिष्टात् स्वो रुहाणाः स्वर्गं लोकमारोहन्तः सन्त उत्तमं नाकं दुःखरहितं श्रेष्ठं लोकं गमेमेत्यनुवर्तते । रोहतेः 'बहुलं छन्दसि' इति शपि लुप्ते शानचि रूपम् रुहाणा इति । नास्त्यकं दुःखं यत्र स नाकः ॥५१॥