पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रार्थये शंभूः मयोभूश्च शं भावयतीति शंभूः । मयः सुखं भावयतीति मयोभूः । अभि मा वाहि अभि मां वाहि स्वाहा । मारुतोऽसि यस्त्वं मारुतोऽसि मरुतां पुरोवातप्रभृतीनां वातानां प्रकृतिभूतोऽसि । मरुतां शुक्रज्योतिःप्रभृतीनां गणोऽसि तं त्वां ब्रवीमि । शंभूश्च मयोभूश्च भूत्वा अभि मां वाहि स्वाहा । अवस्यूरसि यस्त्वमवस्यूरसि । अवनं तर्पणं रक्षणं वा तत्सीव्यतीत्यवस्यूः । 'षिवु तन्तुसंताने' इत्यस्य 'च्छ्वोः शूडनुनासिके च' इति क्विपि कृते संप्रसारणे च अवस्यूः । दुवस्वांश्च दुवश्च हविर्लक्षणमन्नमुच्यते । हविर्लक्षणेनान्नेन युक्तश्च आर्द्रदानुश्च । तं त्वां याचे । शंभूर्मयोभूरित्यादि ॥ ४५ ॥
म० 'वातहोमाञ्जुहोत्यञ्जलिनाहृत्य बहिर्वेदेरधो दक्षिणतो धुर्युत्तरत उत्तरस्यां दक्षिणतो दक्षिणाप्रष्ठे समुद्रोऽसीति प्रतिमन्त्रम्' ( का० १८।६।१)। रथहोमानन्तरं तं रथमग्नेरुत्तरतो वेदौ प्राङ्मुखमवस्थाप्य तस्य स्थानत्रये त्रीन् वायुहोमान् जुहोति प्रतिमन्त्रं मन्त्रत्रयेण । रथयुगदक्षिणधुरोऽधो प्रथमम् उत्तरधुरोऽधो द्वितीयम् युगमध्याधस्तृतीयम् । किं कृत्वा बहिर्वेदेरञ्जलिना वा तमानीयेति सूत्रार्थः । वायव्यानि त्रीणि यजूंषि । त्रिलोकस्थो वायुः स्तूयते । हे वायो, यस्त्वमीदृशोऽसि स त्वं मा मामभिवाहि मदभिमुखमागच्छ स्वाहा सुहुतं तेऽस्तु । 'वा गतिगन्धनयोः' लोट् मध्यमैकवचनम् । कीदृशः। समुद्रः सम्यक् उन्दति जलैः क्लिन्नो भवतीति समुद्रः । 'उन्दी क्लेदे' रक्प्रत्ययः । नभस्वान् नभांसि नक्षत्राणि विद्यन्ते यत्र सः । आर्द्रदानुः आर्द्रं वृष्ट्यवश्यायादिकं ददातीत्यार्द्रदानुः । शंभूः शमैहिकं सुखं भावयति प्रापयतीति शंभूः । मयोभूः मयः पारलौकिकं सुखं भावयतीति मयोभूः स्वर्लोकरूपोऽसि । 'असौ वै लोकः समुद्रः' ( ९ । ४ । २।५) इति श्रुतेः । स मामभिवाहि । मरुतां वातानामयं मारुतः । मरुतां शुक्रज्योतिःप्रभृतीनां गणः तन्निवासत्वात् । 'अन्तरिक्षलोको वै मारुतः' (९।४ । २।६) इति श्रुतेः । शंभूः मयोभूः त्वं मामभिवाहि पूर्ववत् । अव अवनं रक्षणं सीव्यतीत्यवस्यूः 'षिवु तन्तुसन्ताने' क्विप् 'छ्वोः शूडनुनासिके च' (पा० ६। ४ । १९ ) ऊठि कृते यणादेशः । 'अयं वै लोकोऽवस्यूः' ( ९ । ४ । २ । ७) इति श्रुतेः भूलोकरूपोऽसि । दुवस्वान्दुवोऽन्नं हविर्लक्षणं विद्यते यस्य सः शंभूरित्यादि पूर्ववत् ॥ ४५ ॥

षट्चत्वारिंशी।
यास्ते॑ अग्ने॒ सूर्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभि॑: ।
ताभि॑र्नो अ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि ।। ४६ ।।
उ० रुक्मवतीर्जुहोति । यास्ते द्वे व्याख्याते ॥४६॥४७॥
म० 'नव जुहोति यास्त इति प्रतिमन्त्रम्' ( का० १८ । ६। ६) । अस्यार्थः । पूर्वसंस्कृताज्यात्सकृत्सकृदादाय नवाहुतीर्जुहोति यास्ते अग्ने, या वो देवाः रुचं नः तत्त्वा यामि एताश्चतस्रः स्वर्णेति कण्डिकायां पञ्चयजुर्भिः पञ्चेति नव । द्वे व्याख्याते ( १३ । २२-२३ ) ॥ ४६ ॥ ४७ ॥

सप्तचत्वारिंशी।
या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुच॑: ।
इन्द्रा॑ग्नी॒ ताभि॒: सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ।। ४७ ।।
अष्टचत्वारिंशी।
रुचं॑ नो धेहि ब्राह्म॒णेषु॒ रुच॒ᳪ राज॑सु नस्कृधि । रुचं॒ विश्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच॑म् ।। ४८ ।।
उ० रुचं नः अनुष्टुबाग्नेयी । रुचं दीप्तिम् नः अस्माकं ये ब्राह्मणाः तेषु धेहि । रुचं च राजसु नः संबन्धिषु कृधि कुरु । रुचं विश्येषु शूद्रेषु च नः संबन्धिषु कृधि कुरु । मयि च धेहि रुचा दीप्त्या सह रुचं दीप्तिम् । अनुत्सन्नधर्माणो यथा वयं दीप्त्या भवेम तथा कुर्वित्याशयः । यद्वा ब्रह्मप्रभृतिषु या रुक् तामस्माकं धेहि सर्वथा । किं बहुनोक्तेन मय्येव धेहि रुचा सङ्गता रुचम् ॥ ४८॥ ।
म० अग्निदेवत्यानुष्टुप् प्रथमो नवकः । हे अग्ने, नोऽस्माकं ब्राह्मणेषु अस्मत्संबन्धिषु विप्रेषु रुचं दीप्तिं धेहि आरोपय । नोऽस्माकं राजसु क्षत्रियेषु रुचं कृधि कुरु 'श्रुशृणु-' (पा० ६ । ४ । १०२) इत्यादिना हेर्धित्वम् शपो लुक् । विश्येषु वैश्येषु शूद्रेषु चास्माकीनेषु रुचं कुरु । किंच मयि विषये रुचा सह रुचं धेहि । अविच्छिन्नां रुचं घेहीत्यर्थः । | यद्वा ब्राह्मणराजविट्शूद्रेषु या रुक् तां नोऽस्माकं धेहि देहि । शिष्टं पूर्ववत् ॥ ४८ ॥

एकोनपञ्चाशी।
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भि॑: ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शᳪस॒ मा न॒ आयु॒: प्र मो॑षीः ।। ४९ ।।
उ० वारुण्या त्रिष्टुभा जुहोति । तत्त्वा । तदाशास्त इति तदः श्रवणादिह यदः प्रयोगः । यत्प्रयोजनं त्वां यामि याचामि ब्रह्मणा त्रयीलक्षणेन वन्दमानः स्तुवन् । तदीयं यजमान आशीस्ते हविर्भिरभ्युद्यतैः । अतः अहेडमानः अक्रुध्यन् हे वरुण, इह कर्मणि वर्तमान । अस्माकं कं प्रयोजनं यज्ञसमाप्तिलक्षणम् । बोधि बुध्यस्व । बुद्ध्वा च हे उरुशंस बहुसंस्तव्यमान । आयुः मा प्रमोषीः मा अस्माकमायुः खण्डय ॥ ४९॥
म० वरुणदेवत्या त्रिष्टुप् शुनःशेपदृष्टा । अत्र द्वौ तच्छन्दौ वर्तेते तत्रैकस्य यच्छब्दपरिणामः कार्यः । हे वरुण, यजमानः हविर्भिः दत्तैः यद्धनपुत्रादिकमाशास्ते इच्छति यत्कामस्तुभ्यं हविर्दत्ते तत् यजमानेष्टं त्वा त्वामहं यामि याचामि । तत् त्वया यजमानाय दीयतामित्यर्थः । यामीति यञ्चाकर्मसु पठितः ।