पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० यो वातो वायुर्गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् सुहुतमस्तु । कीदृशो वातः । इषिरः 'इष गतौ' दिवादिः । इष्यति गच्छतीति इषिरः । औणादिक इरप्रत्ययः । शीघ्रगमनः । विश्वव्यचाः विश्वस्मिन् व्यचो गमनं यस्य स विश्वव्यचाः सर्वतोगमनः । 'इषिर इति क्षिप्र इत्येतद्विश्वव्यचा इत्येष हीदᳪ सर्वं व्यचः करोति' (९ । ४ । १। १०) इति श्रुतेः । तस्यापो नामाप्सरसः वातो ह गन्धर्वोऽद्भिरप्सरोभिर्मिथुनेन सहोच्चक्राम' (९ । ४ । १ । १०) इति श्रुतेः । कीदृश्यः । ऊर्जः ऊर्जयन्ति जीवयन्ति धान्योत्पादनेनेत्यूर्जः । 'आपो वा ऊर्जाऽद्भ्यो ह्यूर्ग् जायते' (९ । ४ । १ । १०) इति श्रुतेः । ताभ्योऽद्भ्योऽप्सरोभ्यः स्वाहा ॥ ४१ ॥

द्विचत्वारिंशी।
भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णा अप्स॒रस॑स्ता॒वा नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ४२ ।।
उ० भुज्युः सुपर्णः । यज्ञो वै भुज्युः यज्ञो हि सर्वाणि भूतानि भुनक्ति पालयति । सुपर्णः शोभनपतनः । यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसस्स्तावा नाम । दक्षिणा वै स्तावा दक्षिणाभिर्हि यज्ञः स्तूयते । यथा यो वै कश्चन दक्षिणां ददाति स्तूयत एव सः । तुल्यमन्यत् ॥ ४२ ॥
म० यो यज्ञो गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् । कीदृशो यज्ञः । भुज्युः भुनक्ति पालयति भूतानीति भुज्युः । 'यज्ञो हि सर्वाणि भूतानि भुनक्ति' ( ९ । ४ । १। ११) इति श्रुतेः । सुपर्णः शोभनं पर्णं पतनं स्वर्गगमनं यस्य सः यज्ञे स्वर्गे गते यजमानो गच्छति । तस्य यज्ञस्य दक्षिणा नाम अप्सरसः । यज्ञो ह गन्धर्वो दक्षिणाभिरप्सरोभिर्मिथुनेन सहोच्चक्राम' ( ९ । ४ । १ । ११) इति श्रुतेः। कीदृश्यः । स्तावाः स्तूयते यज्ञो यजमानश्च याभिस्ताः स्तावाः 'दक्षिणाभिर्हि यज्ञः स्तूयतेऽथो यो वै कश्चन दक्षिणां ददाति स्तूयत एव सः' (९। ४ । १ । ११) इति श्रुतेः । ताभ्यो दक्षिणाभ्यः स्वाहा ॥ ४२ ॥

त्रिचत्वारिंशी।
प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्तस्य॑ ऋक्सा॒मान्य॑प्स॒रस॒ एष्ट॑यो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ४३ ।।
उ० प्रजापतिरिति । प्रजापतिर्विश्वकर्मा सहीदं सर्वमकरोत् स नो गन्धर्वस्तस्य ऋक्सामानि अप्सरसः एष्टयो नाम । ऋक्सामानि वा एष्टयः । ऋक्सामैर्ह्याशासते इति नः अस्तु इत्थं नः अस्त्विति । तुल्यमन्यत् ॥ ४३ ॥
म० यो मनोरूपो गन्धर्वः स न इदं ब्रह्म क्षत्रं च पातु तस्मै मनसे गन्धर्वाय स्वाहा वाट् हविर्दत्तम् । कीदृशो गन्धर्वः । प्रजापतिः प्रजायाः पालकः । विश्वकर्मा विश्वं सर्वं करोतीति 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५) इति | करोतेर्मनिन् । 'स हीदᳪ सर्वमकरोत्' (९ । ४।१।१२) इति श्रुतेः । तस्य मनसो गन्धर्वस्य ऋक्सामान्यपसरसः । नाम प्रसिद्धम् । कीदृश्यः । एष्टयः इष्यते काङ्क्ष्यतेऽभीष्टं याभिस्ता एष्टयः । 'मनो ह गन्धर्व ऋक्सामैरप्सरोभिर्मिथुनेन सहोच्चक्रामेष्टयो नामेत्यृक्सामानि वा एष्टय ऋक्सामैर्ह्याशासत इति नोऽस्त्वित्थं नोऽस्तु' (९ । ४ । १ । १२) इति श्रुतेः । ताभ्योऽप्सरोभ्यः स्वाहा सुहुतमस्तु ॥ ४३ ॥

चतुश्चत्वारिंशी।।
स नो॑ भुवनस्य पते प्रजापते॒ यस्य॑ त उ॒परि॑ गृ॒हा यस्य॑ वे॒ह ।
अस्मै॒ ब्रह्म॑णेऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा॑ ।। ४४ ।।
उ० रथशिरसि जुहोति । स नो भुवनस्य प्राजापत्या प्रस्तारपङ्क्तिः । हे भुवनस्य पते प्रजापते, यस्य ते तव उपरि अमुष्मिँल्लोके गृहा यस्य वा इह अस्मिन् लोके । स त्वं नः अस्माकम् । व्यवहितोयं संबन्धः । अस्मै ब्रह्मणे अस्मै क्षत्राय महि महत् । शर्म शरणम् यच्छ देहि स्वाहा ॥ ४४ ॥
म० 'पञ्चगृहीतं च रथशिरस्यध्याहवनीयं ध्रियमाणे पञ्चकृत्वः स नो भुवनस्येति' (का० १८ । ५। १७)। राष्ट्रभृद्धोमानन्तरं पूर्वसंस्कृतादेवाज्यात्पञ्च गृहीत्वाहवनीयोपरि प्रतिप्रस्थात्रादिना धार्यमाणे रथशिरसि तदाज्यं पञ्चधा विभज्य पञ्चकृत्वो जुहोति पञ्चवारं मन्त्र इति सूत्रार्थः । प्रजापतिदेवत्या प्रस्तारपङ्क्तिः । आद्यौ द्वादशकावन्त्यावष्टकौ सा प्रस्तारपङ्क्तिः । तृतीयोऽत्र नवकः । हे भुवनस्य पते पालक, हे प्रजापते, यस्य ते तवोपरि स्वर्गे गृहाः सन्ति । वाथवा यस्य त इह भूलोके गृहाः सन्ति स त्वं नोऽस्माकमस्मै ब्रह्मणे ब्राह्मणायास्मै क्षत्राय क्षत्रियाय च महि महत् शर्म सुखं यच्छ देहि । स्वाहा सुहुतमस्तु ॥ ४४ ॥

पञ्चचत्वारिंशी ।
स॒मु॒द्रो॒ऽसि॒ नभ॑स्वाना॒र्द्रदा॑नुः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ ।
मारु॒तो॒ऽसि म॒रुतां॑ ग॒णः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ऽव॒स्यूर॑सि॒ दुव॑स्वाञ्छ॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ ।। ४५ ।।
उ० वातहोमाञ्जुहोति । समुद्रोऽसीति त्रीणि यजूंषि त्रिलोकस्थानं वायुं लोकद्वारेण स्तुवन्ति । यस्त्वं हे वायो, समुद्रोऽसि समुन्दोऽसि । नभस्वांश्च नभस् इति नक्षत्राण्युच्यन्ते । तानि हि नितरां भान्ति तैः संयुक्तो नभस्वान् । आर्द्रदानुश्च एष ह्यार्द्रं ददाति वृष्ट्यवश्यायादि । तं त्वां