पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पकृष्य पठित्वा पूर्वो मन्त्रः संपाद्यः । यानि च स्त्रीलिङ्गानि तस्यौषधयोऽप्सरस इत्यादीनि तान्युत्कृष्योत्तरो मन्त्रः संपाद्य इत्यर्थः । द्वादश यजूंषि गन्धर्वाप्सरोदेवत्यानि । तत्रायं विभागः । ऋताषाडृतधामाग्निर्गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाडिति वाडन्तः पूर्वः पूर्वो मन्त्रः। तस्यौषधयोऽप्सरसो मुदो नाम ताभ्यः स्वाहेति स्वाहान्त उत्तर उत्तरो मन्त्रः । पूर्वो गन्धर्वदेवत्यः उत्तरोऽप्सरोदेवत्यः । एवं पञ्चकण्डिकास्वप्यग्रे मन्त्रविभागो ज्ञेयः । तथाच श्रुतिः 'पुᳪसे पूर्वस्मै जुहोत्यथ स्त्रीभ्यः पुमाᳪसं वद्वीर्येणादधात्येकस्मा इव पुᳪसे जुहोति बह्वीभ्य इव स्त्रीभ्यस्तस्मादप्येकस्य पुᳪसो बह्व्यो जाया भवन्त्युभाभ्यां वाट्कारेण च स्वाहाकारेण च पुᳪसे जुहोति स्वाहाकारेणैव स्त्रीभ्यः पुमाᳪसमेव तद्वीर्येणादधाति' (९।४।१।६) इति । तथा चैवमृताषाट् संहितः सुषुम्णः इषिरः भुज्युः प्रजापतिरिति षण्णां पूर्वमन्त्राणामृताषाडित्यादिनामका गन्धर्वा देवताः । तस्यौषधयः तस्य मरीचयः तस्य नक्षत्राणि तस्यापः तस्य दक्षिणाः तस्य ऋक्सामानीति षष्णामुत्तरमन्त्राणामोषध्यादिनामका अप्सरसो देवताः । अथ मन्त्रार्थः । योऽग्निर्गन्धर्वः स नोऽस्माकमिदं ब्रह्म ब्राह्मणजातिमिदं क्षत्रं क्षत्रजातिं च पातु रक्षतु । कीदृशो गन्धर्वः । ऋताषाट् ऋतं सत्यं सहत इति ऋतषाट् सत्यं सहते असत्ये कुपितो भवतीत्यर्थः । 'सहेः साडः सः' (पा० ८।३। ५६) इति षत्वम् । पूर्वपदस्य छान्दसो दीर्घः । तथा ऋतधामा ऋतं सत्यमविनश्वरं धाम स्थानं यस्य ऋतधामा । य ईदृशोऽग्निः तस्मै अग्नये गन्धर्वाय स्वाहा वाट् वषट्कारेण सुहुतमस्त्वित्येको मन्त्रः । तस्याग्नेर्गन्धर्वस्यौषधयो व्रीह्याद्या नाम नाम्ना अप्सरसः स्त्रीत्वेन भोग्याः । कीदृश्य ओषधयः । मुदः मोदन्ते जना याभिस्ता मुदः 'ओषधयो वै मुद ओषधीभिहींदᳪ सर्वं मोदते' (९।४।१।७) इति श्रुतेः ओषधयोऽग्नेर्भोग्याः । तथाच श्रुतिः 'अग्निर्ह गन्धर्व ओषधीभिरप्सरोभिर्मिथुनेन सहोच्चक्राम' (९ । ४।१।७) इति । ताभ्य ओषधीभ्यः स्वाहा सुहुतमस्तु ॥ ३८ ॥

एकोनचत्वारिंशी।
स॒ᳪहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒युवो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ३९ ।।
उ० सᳪहितो विश्वसामा यः सूर्यः संहितः एष ह्यहोरात्रे संदधातीति संहितः सूर्यः । विश्वसामा एष ह्येव सर्वं साम । तस्य मरीचयोऽप्सरसः मरीचयस्त्रसरेणवः । आयुवो नाम आयुव इव हि मरीचयः प्लवन्त इत्यायुवः मिश्रयन्त इत्यर्थः । तुल्यव्याख्यानमन्यत् ॥ ३९ ॥
म० यः सूर्यो गन्धर्वः स नोऽस्माकमिदं ब्रह्म क्षत्रं च पातु । कीदृशः । संहितः संदधात्यहोरात्रे इति संहितः 'असौ वा आदित्यः सᳪहितः एष ह्यहोरात्रे संदधाति' (९।४। १।८) इति श्रुतेः । विश्वसामा विश्वानि सर्वाणि सामानि प्रतिपादकत्वेन यस्य स विश्वसामा सर्वसामरूपो वा । 'विश्वसामेत्येष ह्येव सर्वᳪसाम' (९ । ४ । १।८) इति श्रुतेः । 'यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानी' ति च । तस्मै सूर्याय स्वाहा वाट् । तस्य सूर्यस्य मरीचयो नामाप्सरसः तेजस्त्रसरेणवः 'सूर्यो ह गन्धर्वो मरीचिभिरप्सरोभिर्मिथुनेन सहोच्चक्राम' (९। ४ । १।८) इति श्रुतेः। कीदृश्यो मरीचयः । आयुवः आ समन्ताद्युवन्ति मिश्रीभवन्त्यायुवः । 'आयुवाना इव हि मरीचयः प्लवन्ते' (९।४।१।८) इति श्रुतेः। | ताभ्यो मरीचिभ्यः स्वाहा ॥ ३९ ॥

चत्वारिंशी।
सु॒षु॒म्णः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्यप्स॒रसो॑ भे॒कुर॑यो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ४० ।।
उ० सुषुम्णः सूर्यरश्मिः । यः सुषुम्णः सुयज्ञियः। सूर्यस्येव हि चन्द्रमसो रश्मयः । चन्द्रमा गन्धर्वः तस्य नक्षत्राणि अप्सरसः । भेकुरयो नाम भाः हि नक्षत्राणि कुर्वन्तीति भेकुरयो नक्षत्राणि । तुल्यमन्यत् ॥ ४० ॥
म० यश्चन्द्रमा गन्धर्वः स नोऽस्माकमिदं ब्रह्म क्षत्रं च पातु । कीदृशः । सुषुम्णः शोभनं सुम्नं सुखं यस्मात् सुयज्ञियः | यज्ञद्वारा सुखप्रदः । याज्ञिकानां चन्द्रलोकाप्तेरुक्तत्वात् । तथाच सूर्यरश्मिः सूर्यस्येव रश्मयः किरणा यस्य । 'सुषुम्ण इति सुयज्ञिय इत्येतत् सूर्यरश्मिरिति सूर्यस्येव हि चन्द्रमसो रश्मयः' (९। ४ । १ । ९) इति श्रुतेः । तस्मै चन्द्रमसे स्वाहा वाट् । तस्य चन्द्रमसः नक्षत्राणि नाम अप्सरसः । कीदृश्यः । भेकुरयः भां कान्तिं कुर्वन्तीति भेकुरयः । पृषोदरादित्वात् साधुः । 'चन्द्रमा ह गन्धर्वो नक्षत्रैरप्सरोभिर्मिथुनेन सहोच्चक्राम भेकुरयो नामेति भाकुरयो ह नामैते भाᳪ हि नक्षत्राणि कुर्वन्ति' ( ९ । ४ । १।९) इति श्रुतेः । ताभ्यो नक्षत्राप्सरोभ्यः स्वाहा ॥ ४० ॥

एकचत्वारिंशी।
इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो॑ अप्स॒रस॒ ऊर्जो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ४ १ ।।
उ० इषिरो विश्वव्यचाः । य इषिरः क्षिप्रः । 'इषु गतौ' तस्य इषिरः । विश्वव्यचाः सर्वतोगमनः । वातो गन्धर्वः तस्यापो अप्सरस ऊर्जोनाम । आपो वा ऊर्जः अद्भ्यो ह्यग्निर्जायते । तुल्यव्याख्यानमन्यत् ॥ ४१ ॥