पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चत्रिंशी।
सं मा॑ सृजामि॒ पय॑सा पृथि॒व्याः सं मा॑ सृजाम्य॒द्भिरोष॑धीभिः ।
सो॒ऽहं वाज॑ᳪ सनेयमग्ने ।। ३५ ।।
उ० सं मा । विराजौ आग्नेयौ वा । सोऽहं वाजमिति तच्छब्दयोगाद्यदोऽध्याहारः । सं मा सृजामि मा माम् आत्मानं पयसा रसेन पृथिव्याः संबन्धिना संसृजामि । संसृजामि च मा माम् । आत्मानं अद्भिः ओषधीभिश्च । सोऽहं संसृष्टपयःप्रभृतिशरीरः । वाजं सनेयं संभजेयम् । हे अग्ने, त्वत्प्रसादात् । यद्वा अग्निरेवोच्यते । अस्मदादेशस्य माशब्दस्य त्वाशब्दं कृत्वा युक्ततरमेतद्व्याख्यानम् । योऽहं हे अग्ने, संसृजामि त्वां पयसा पृथिव्याः संसृजामि च त्वामद्भिरोषधीभिश्च । होमाभिप्रायः संसर्गः। सोहं वाजं सनेयमिति॥३५॥
म०. द्वे विराजौ । दशकास्त्रयो विराडेकादशका वेत्युक्तेरेकादशाक्षरत्रिपादा विराट् । तृतीयो व्यूहेन दशकस्तेनैकोना। सोऽहमिति तच्छब्दश्रवणाद्यदोऽध्याहारः । हे अग्ने, योऽहं पृथिव्याः पयसा पृथिवीसंबन्धिरसेन मामात्मानं संसृजामि संयोजयामि । अद्भिरोषधीभिश्च मां संसृजामि । सोऽहं संसृष्टपयोऽबोषधिशरीरः सन् । वाजमन्नं सनेयं संभजेयम् । यद्वा व्यत्ययेनास्मच्छब्दस्य युष्मदादेशः । हे अग्ने, योऽहं त्वं पृथिव्याः पयसाद्भिरोषधीभिश्च त्वां संसृजामि होमेन सोऽहं वाजं सनेयम् ॥ ३५॥

षट्त्रिंशी।
पय॑: पृथि॒व्यां पय॒ ओष॑धीषु॒ पयो॑ दि॒व्यन्तरि॑क्षे॒ पयो॑ धाः ।
पय॑स्वतीः प्र॒दिश॑: सन्तु॒ मह्य॑म् ।। ३६ ।।
उ० पयः पृथिव्याम् । विराट् अग्निरुच्यते हविर्वा । पयः पृथिव्यां धाः निधेहि । पयश्च ओषधीषु धाः । पयो दिवि धाः । अन्तरिक्षे पयो धाः । आहुतिपरिणामाभिप्रायमेतत् । किंच पयस्वतीः पयःसंयुक्ताः प्रदिशः दिशो विदिशश्च सन्तु भवन्तु मह्यम् ॥ ३६ ॥
म० हे अग्ने, त्वं पृथिव्यां पयो रसं धाः धेहि स्थापय । दधातेर्लुङि मध्यमैकवचने रूपम् । 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । ओषधीषु च पयो धाः। दिवि स्वर्गे च पयो धाः। अन्तरिक्षे च पयो धाः । किंच मह्यं मदर्थे प्रदिशः दिशो विदिशश्च पयस्वतीः पयस्वत्यो रसयुताः सन्तु । आहुतिपरिणामेन पृथिव्यादयो ममाभीष्टदा भवन्त्वित्यर्थः ॥ ३६ ॥

सप्तत्रिंशी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेः साम्रा॑ज्येना॒भिषि॑ञ्चामि ।। ३७ ।।
उ० अभिषिञ्चति यजमानम् । देवस्य त्वेति व्याख्यातम् । सरस्वत्यै वाचो यन्तुर्यन्त्रेण यमनेन अग्नेश्च साम्राज्येन अभिषिञ्चामि ॥३७॥
म० 'स्रुवं प्रास्य परिश्रित्स्पृक् कृष्णाजिनमास्तीर्य पुच्छादुत्तरᳪ शेषेऽपः कृत्वाभिषेकसामर्थ्यात् क्षीरोदके वा वाजपेयिकानीति श्रुतेस्तत्राभिषिच्यते ब्रह्मवर्चसकामश्चित्यन्वारब्धो देवस्य त्वेति' (का. १८।५।६-९) । अस्यार्थः । कर्मापवर्गे औदुम्बरं चतुष्कोणं स्रुवमाहवनीये प्रक्षिप्याग्निपुच्छादुत्तरदिशि परिश्रित्संलग्नं प्राग्ग्रीवमुत्तरलोम कृष्णाजिनमास्तीर्य तत्र स्थितो ब्रह्मवर्चसकामो यजमानश्चयनकृतान्वारम्भोऽध्वर्युणा सर्वोषधशेषेणाभिषिच्यते । किं कृत्वा । सर्वौषधशेषेऽपो जलानि कृत्वा । अभिषेकस्यैव द्रव्यसाध्यत्वात् अयं पूर्वपक्षः । सिद्धान्तमाह क्षीरोदके वेति । वा पूर्वपक्षनिरासे । 'शेषे जलसेको न यतस्तत्र क्षीरोदके विद्येते वाजपेयिकानि' (९।३ । ४ । ७।) इति श्रुतेः । अत्र वाजपेयसंबन्धीनि वाजप्रसवीयानि श्रूयन्ते तत्रोदकक्षीरे स्त एव । औदुम्बरे पात्रेऽप आसिच्य पयश्चेत्युक्तेः (कात्या० १४ । ५। १६)। अतस्तस्मिन्मिश्रेणैवाभिषेको न जलसेक इत्यर्थः । देवस्य त्वा । व्याख्यातम् । सरस्वत्यै लिङ्गोक्तदेवतं यजुः । सरस्वत्यै षष्ठ्यर्थे | चतुर्थी । सरस्वतीसंबन्धिन्या वाचो वाण्या यन्तुर्नियन्तुः प्रजापतेः यन्त्रेण नियमेन अग्नेश्च साम्राज्येन चक्रवर्तित्वेन हे यजमान, त्वामभिषिञ्चामि । मत्कृताभिषेकेण वाक्सिद्धिरैश्वर्यं साम्राज्यं च तव संपद्यन्तामित्यर्थः ॥ ३७॥

अष्टत्रिंशी।
ऋ॒ता॒षाडृ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्तस्यौ॑षधयोऽप्स॒रसो॒ मुदो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ३८ ।।
उ० राष्ट्रभृतो जुहोति । द्वादश यजूंषि स नो भुवनस्य पत इत्येतस्याः प्राक् ऋताषाडित्यादीनि । अग्निरुच्यते ऋताषाट् । ऋतं सत्यं सहतीति ऋताषाट् । ऋतं सत्यं धाम स्थानं यस्य स तथोक्तः । अग्निर्गन्धर्वः तस्य चाग्नेर्गन्धर्वस्य ओषधयोऽप्सरसः । तासां च मुदः नाम । ओषधीभिहींदं सर्वं मोदत इति मुदः । सोऽग्निर्गन्धर्वः नः अस्माकम् इदं ब्रह्म इदं च क्षत्रं पातु । तस्मै स्वाहावाट् । ताभ्यश्च ओषधीभ्यः स्वाहा ॥३८॥
म० 'द्वादशगृहीतं विग्राहं जुहोत्यृताषाडिति' (का. १८ । ५ । १६) प्रतिस्वाहाकारᳪ राष्ट्रभृतो वाट्कारान्तः पूर्वः पूर्वो मन्त्रः । आज्याद्द्वादशगृहीतं गृहीत्वा विभज्य द्वादशांशं कृत्वा ऋतेत्यादिद्वादशमन्त्रैः प्रतिस्वाहाकारं राष्ट्रभृत्संज्ञा आहुतीर्जुहोति । व्यतिषक्तेषु द्वादशमन्त्रेषु पूर्वो मन्त्रः स्वाहावाडित्यन्तः उत्तरस्ताभ्यः स्वाहेत्यन्तः । ततो मन्त्रे यानि पुंलिङ्गानि स न इदं ब्रह्मेत्यादीनि तानि व्यवहितपठितान्यप्य