पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अद्य मरुतः अद्य अस्मिन्द्यवि आगमन्त्वित्यनुषङ्गः । विश्वऊती । विश्व इति सर्वनाम सामान्यदेवतागणप्रतिपत्तिजनकमतस्तन्निराकाङ्क्षीकरणाय विशिष्टो देवतागण इहाध्याह्रियते। विश्वे च देवगणा वसवो रुद्रा आदित्या अद्य ऊती ऊत्या अवनेन तर्पणेन निमित्तभूतेन आगमन्तु । तदागमनेन च विश्वे भवन्तु अग्नयः गार्हपत्यप्रभृतयः समिद्धाः सम्यग्दीप्ताः। विश्वेदेवाश्च नोऽस्माकम् अवसान्नेन हविर्लक्षणेन निमित्तभूतेन आगमन्तु आगच्छन्तु । तेषां च तुष्ट्या विश्वं सर्वं वसु द्रविणं भूमिहिरण्यादिधनं वाजश्चान्नं च अस्मे अस्माकमस्तु ॥ यद्वान्यथा संबन्धः। विश्वे मरुतः अद्य आगच्छन्तु । विश्वे च देवगणाः ऊत्या निमित्तभूतया आगमन्तु । विश्वे च देवा अवसा निमित्तभूतेन आगमन्तु । तदागमनेन च विश्वे भवन्तु अग्नयः समिद्धाः । होमार्थं हि अग्नयः प्रज्वाल्यन्ते । ततो यागोत्तरकालम् । विश्वमस्तु द्रविणं वाजो अस्मे ॥ ३.१ ॥
म० लुशोधानाकदृष्टा वैश्वदेवी त्रिष्टुप् । अद्यास्मिन् दिने विश्वे सर्वे मरुतः सप्तकगणा आगमन्तु आगच्छन्तु । छत्वाभावे रूपम् । विश्वे अन्ये च सर्वे गणदेवता वसवो रुद्रा आदित्याश्च ऊती ऊत्या पूर्वसवर्णः । अनेन तर्पणेन निमित्तेनागमन्तु तृप्त्यर्थमागच्छन्त्वित्यर्थः । विश्वेदेवाः च गणदेवता नोऽस्माकमवसान्नेन हविषा निमित्तेन हविर्ग्रहणायागमन्तु । तदागमनेन च विश्वे सर्वेऽग्नयः गार्हपत्यादयः समिद्धाः सम्यग्दीप्ता भवन्तु तदर्थं होमेनेत्यर्थः । तेषां देवानां तुष्ट्या विश्वं सर्वं द्रविणं धनं गोभूहिरण्यादि वाजोऽन्नं चास्मेऽस्माकमस्तु । विभक्तेः शेआदेशः ॥ ३१ ॥

द्वात्रिंशी।
वाजो॑ नः स॒प्त प्र॒दिश॒श्चत॑स्रो वा परा॒वत॑: । वाजो॑ नो॒ विश्वै॑र्दे॒वैर्धन॑सातावि॒हाव॑तु ।। ३२ ।।
उ० वाजो नः । अनुष्टुप् वाजो देवता । वाजोऽन्नं नोऽस्माकं सप्त प्रदिशः चतस्रो दिशः प्रकृष्टाश्च त्रयो लोकाः सप्त प्रदिशः उक्ताः । चतस्रो वा परावतः । वाशब्दः समुच्चयार्थीयः । चतस्रश्च परावतः । परावच्छब्दो दूरवचनः । महः जनः तपः सत्यमित्येते लोका उच्यन्ते । ते हि तान् लोकानतीत्य वर्तन्ते । आपूरयन्त्विति शेषः । किंच वाजः नः अस्मान् विश्वैर्देवैः सह धनसातौ धनसंभजनकाले प्राप्ते इह यज्ञे इह वा लोके अवतु पालयतु ॥ ३२ ॥
म० तिस्रोऽन्नदेवत्याः तत्राद्यानुष्टुप् द्वे त्रिष्टुभौ । नोऽस्माकं वाजोऽन्नं सप्त प्रदिशः भूरादिलोकत्रयं प्राच्यादिदिक्चतुष्कम् परावतः दूरस्थाश्चतस्रश्च महर्जनतपःसत्याख्याश्चापूरयत्विति शेषः । वाशब्दश्चार्थः । यद्वा अस्माकं वाजोऽन्नं सप्त प्रदिशश्चतस्रो महराद्याश्चावतु प्रीणातु । प्रशब्देन प्रकृष्टं लोकत्रयम् । दिशः प्राच्याद्याः । परावच्छब्दो दूरार्थः । महरादयो हि लोकत्रयमतीत्य वर्तन्ते । अस्मद्दत्तान्नेन सप्तलोका दिक्चतुष्कं च तृप्यत्वित्यर्थः । किंच धनसातौ 'षण संभक्तौ क्तिन्नन्तो निपातः । धनस्य सातौ संभजनकाले प्राप्ते वाजोऽन्नं नोऽस्मान् विश्वैर्देवैः सहावतु पालयतु । इहास्मिन् लोके यज्ञे वा यदास्माकं धनेच्छा जायते तदा देवतर्पणक्षमं बह्वन्नमस्त्विति वाक्यार्थः ॥ ३२ ॥

त्रयस्त्रिंशी।
वाजो॑ नो अ॒द्य प्र सु॑वाति॒ दानं॒ वाजो॑ दे॒वाँ२।। ऋ॒तुभि॑: कल्पयाति ।
वाजो॒ हि मा॒ सर्व॑वीरं ज॒जान॒ विश्वा॒ आशा॒ वाज॑पतिर्जयेयम् ।। ३३ ।।
उ० वाजो नः । द्वे अनुष्टुभौ वाजदेवत्ये । वाजः नः अस्माकम् अद्य प्रसुवाति अभ्यनुजानातु दानम् वाजश्च देवान् ऋतुभिः कालैः सह कल्पयतु यथास्थानम् । वाजो हि मा सर्ववीरं जजान । हिशब्दः समुच्चयार्थीयः । वाजश्च मां सर्ववीरं जनयतु । ततो विश्वा आशाः वाजपतिः सन् जयेयमित्याशीः ॥ ३३ ॥
म० अद्यास्मिन्दिने वाजोऽन्नमन्नाधिष्ठात्री देवता नोऽस्मान् प्रसुवाति प्रेरयतु अनुजानातु । दानार्थमिति शेषः। अन्नदानेच्छास्माकं भवत्वित्यर्थः । वाजः ऋतुभिः कालैः सह देवान् कल्पयाति यथास्थानं कल्पयतु । 'लेटोऽडाटौ' यस्मिन् काले यो देवो यष्टव्यस्तं तत्र यजत्वित्यर्थः । हि चकारार्थः । वाजश्व मा मां सर्ववीरं सर्वे वीराः पुत्रपौत्रादयो यस्य स सर्ववीरस्तादृशं जजान जनयतु । 'छन्दसि लुङ्लङ्लिटः' पुत्रादियुतं मां करोत्वित्यर्थः । ततो वाजपतिः समृद्धान्नः सन्नहं विश्वा आशाः सर्वा दिशो जयेयम् । अन्नदानेन सर्वा दिशो वशीकुर्यामित्यर्थः ॥ ३३ ॥

चतुस्त्रिंशी।
वाज॑: पु॒रस्ता॑दु॒त म॑ध्य॒तो नो॒ वाजो॑ दे॒वान् ह॒विषा॑ वर्धयाति ।
वाजो॒ हि मा॒ सर्व॑वीरं च॒कार॒ सर्वा॒ आशा॒ वाज॑पतिर्भवेयम् ।। ३४ ।।
 उ० वाजः पुरस्तात् । वाजः अन्नं पुरस्तात् अस्त्विति वाक्यशेषः । उत मध्यतो नः अस्माकमस्तु वाजः । वाजश्च देवान्हविषा वर्धयाति वर्धयतु । अस्माकम् वाजश्च मां सर्ववीरं च करोतु । ततः सर्वा आशा दिशः वाजपतिः सन् भवेयम् । दिग्रूपतया व्यापकता प्रार्थ्यते ॥ ३४ ॥
म० वाजोऽन्नं नोऽस्माकं पुरस्तादस्तु । उतापि च नोऽस्माकं मध्यतो गृहमध्ये च वाजोऽस्तु । नोऽस्माकं वाजो हविषां कृत्वा देवान्वर्धयाति वर्धयतु पुष्णातु । हि चार्थे । वाजो मा सर्ववीरं पुत्रादियुतं चकार करोतु । वाजपतिरन्नपालकः सन्नहं विश्वा आशाः सर्वा दिशो भवेयम् । दिग्रूपतया व्यापकता प्रार्थ्यते । यद्वा विश्वा आशा भवेयं प्राप्नुयाम् । वशीकुर्यामित्यर्थः । । भू प्राप्तौ ॥ ३४ ॥