पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भव आन्त्यस्तस्मै । लोकस्वरूपपुष्टिकरत्वात्तत्रभवत्वम् । जाठराग्नेर्दीप्तिकरत्वेन पुष्टिकरत्वं पौषस्य । भुवनस्य भूतजातस्य पतये पालकाय माघाय । स्नानादिना पुण्यजनकत्वेन पालकत्वं माघस्य । अधिपतये अधिकपालकाय फाल्गुनाय वर्षान्तत्वात् प्रजापतये। एवं द्वादशमासाधिष्ठात्रे प्रजापतिनामकाय देवाय । स्वाहेति होमार्थं सर्वत्र । हे अग्ने, इयं ते तव राट् इदं राज्यं यत्र यत्र यागाः क्रियन्ते तत्तवैव राज्यम् । किंच हे अग्ने, त्वं मित्रस्य सख्युर्यजमानस्य यन्ता नियामकोऽसि । षष्ठ्यर्थे चतुर्थी मित्रायेति । कीदृशस्त्वम् । यमनो यमयतीति यमनः अग्निष्टोमादिकर्मसु सर्वान्नियमयन् । अत ऊर्जे विशिष्टान्नरसाय त्वा त्वामभिषिच्चामीति शेषः । तथा वृष्ट्यै वर्षणाय त्वामभिषिञ्चामि । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः' इति स्मृतेः । ततः प्रजानामाधिपत्याय प्रजास्वामित्वाप्त्यै त्वामभिषिञ्चामि वसोर्धारया । तथा च श्रुतिः 'प्रजानामाधिपत्यायेत्यन्नं वा ऊर्गन्नं वृष्टिरन्नेनैवैनमेतत्प्रीणाति यद्वेवाहेयं ते राण्मित्राय यन्तासि यमन ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाधिपत्यायेतीदं ते राज्यमभिषिक्तोऽसीत्येतन्मित्रस्य त्वं यन्तासि' (९ । ३ । ३ । १०-११) इति ॥ २८॥

एकोनत्रिंशी।
आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ᳪ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां ब्र॒ह्मा य॒ज्ञेन॑ कल्पतां॒ ज्योति॑र्य॒ज्ञेन॑ कल्पता॒ᳪ स्व॒र्य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ।
स्तोम॑श्च यजु॑श्च॒ ऋक् च॒ साम॑ च बृ॒हच्च॑ रथन्त॒रं च॑ ।
स्व॑र्देवा अगन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ वेट् स्वाहा॑ ।। २९ ।।
उ० अथ कल्पाञ्जुहोति । आयुर्यज्ञेन कल्पतामिति । आयुरादीनि मम यज्ञक्लृप्तानि भवन्तु । यज्ञश्च मम यज्ञेनैव क्लृप्तो भवतु । नाहं यज्ञक्लृप्तौ समर्थः । स्तोमश्च यजुश्च ऋक् च साम च बृहच्च रथन्तरं च यज्ञेन क्लृप्तानि भवन्त्वित्यनुषङ्गः । स्वर्देवा अगन्म हे देवाः, स्वर्गलोकं वयमगन्म । अमृताश्च भूताः प्रजापतेश्च प्रजा अभूमेति फलवचनम् । वेद स्वाहेति होममन्त्रः ॥ २९ ॥
म० कल्पहोमः कल्पतामिति लिङ्गात् । 'अथ कल्पाञ्जुहोति' (९।३ । ३ । १२) इति श्रुतेः । यज्ञेन निमित्तेनायुर्जीवनकालः कल्पतां साध्यतां प्राप्यताम् । प्राणचक्षुःश्रोत्रवाङ्मनांसि मम यज्ञेन क्लृप्तानि भवन्तु । आत्मा देहः 'आत्मेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः' इति स्मृतेः । ब्रह्मा वेदो यज्ञेन कल्पताम् । ज्योतिः स्वयंप्रकाशः परमात्मा यज्ञेन साध्यताम् । पुण्यकर्मानुष्ठानं परमात्मज्ञाने करणम् । 'ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' (१४ । ७।२। २४ ) इति श्रुतेः । 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' (गीता० ३ । २०) इति स्मृतेश्च । स्वः स्वर्गः । पृष्ठं स्तोत्रं स्वर्गस्थानं वा कल्पताम् । यज्ञो यज्ञेनैव क्लृप्तो भवतु नाहं यज्ञक्लृप्तौ समर्थः । 'यज्ञेन यज्ञमयजन्त' देवाः (अ० १३ क. १६) इति श्रुतेः । किंच स्तोमयजुर्ऋक्सामबृहद्रथन्तराणि च यज्ञेन क्लृप्तानि भवन्त्वित्यनुषङ्गः । स्तोमस्त्रिवृत्पञ्चदशादिः यजुरनियतपादो मन्त्रः । ऋक् नियतपादा। साम गीतिप्रधानम् । बृहद्रथन्तरे तद्विशेषौ । वसोर्धारयैवमग्निमभिषिच्यात्मानं यजमानः प्रशंसति । वयं यजमाना देवा भूत्वा स्वः स्वर्गमगन्म गतवन्तः । गमेर्लङि शब्लोपे मस्य नत्वे रूपम् । गत्वा चामृता अमरणधर्मिणोऽभूम भूताः । भवतेर्लुङि रूपम् । ततः प्रजापतेर्हिरण्यगर्भस्य प्रजा अभूमेति फलवचनम् । अनेन वसोर्धारायाः सर्वकामप्राप्तिहेतुत्वमुक्तम् । वेट्स्वाहेति वसोर्धाराहोमार्थो मन्त्रः । वेडिति वषट्कारः । 'वषट्कारो हैष परोऽक्षं यद्वेट्कारो वषट्कारेण वा वै स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयते' (९ । ३ । ३ । १४ ) इति श्रुतेः ॥ २९ ॥
इति वसोर्धाराहोममन्त्राः समाप्ताः ॥

त्रिंशी।
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे ।
यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ।। ३० ।।
उ० वाजप्रसवीयं जुहोति सप्तभिर्ऋग्भिः वाजस्य नु व्याख्यातम् ॥ ३०॥
म० 'वपावत्संभृत्य चमसवत्स्रुवेण वाजपेयिकानि वाजस्येममिति आग्निकानि च वाजस्य न्विति' (का० १८ । ५। ४।५)। क्षेत्रवपनवत्सर्वोषधमौदुम्बरे चमसे संभृत्य तस्मात्सर्वोषधाच्चमसवत्स्रुवेणेत्यौदुम्बरेण चतुष्कोणपुष्करेण स्रुवेण वाजस्येमं प्रसव इति सप्तमन्त्रैः ( ९ । २३-३०) सप्त वाजपेयसंबन्धीनि वाजप्रसवीयानि हुत्वा वाजस्य नु प्रसवे इत्यादिसप्तमन्त्रैः प्रतिमन्त्रमाग्निकानि सप्त वाजप्रसवीयानि । तस्मादेव सर्वोषधात्तेनैव स्रुवेण जुहोतीति सूत्रार्थः ॥ व्याख्याता ( अ० ९ । क० ५) ॥ ३० ॥

एकत्रिंशी।
विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नय॒: समि॑द्धाः ।
विश्वे॑ नो दे॒वा अव॒साऽऽग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ।। ३१ ।।
उ० विश्वे अद्य वैश्वदेवी त्रिष्टुप् व्यवहितपदप्रायः । विश्वे