पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० युग्मतो जुहोति । चतस्रश्च मेऽष्टौ च म इति । पूर्वं पूर्वमुत्तरेण संबध्नाति । यथा वृक्षं रोहन्नुत्तरां शाखां समालम्भं रोहेत्तादृक् । द्विरुक्त्याः प्रयोजनमाह श्रुतिः॥२५॥
म० एककण्डिकया युग्मस्तोमाञ्जुहोति । 'अथ युग्मतो जुहोति चतस्रश्च म (९।३।३ । ४) इति । प्रथमं चतस्र इत्येतां संख्यामादाय चतुरुत्तरत्वेन स्थितान्युग्मान्स्तोमानष्टाचत्वारिंशत्पर्यन्ताञ्जुहुयादित्यर्थः । तत्फलं स्वर्गप्राप्तिः । एतद्वैछन्दाᳪं᳭ स्यब्रुवन्यातयामा वा अयुजः स्तोमा युग्मभिर्वयᳪं᳭ स्तोमैः स्वर्गं लोकमयामेति तथैतद्यजमानो युग्मभिः स्तोमैः स्वर्गं लोकमेति' (९ । ३ । ३ । ५) इति श्रुतेः । पूर्वं पूर्वमुत्तरेण संबध्नाति वृक्षारोहणवत् । तथाच श्रुतिः 'पूर्वंपूर्वमुत्तरेणोत्तरेण संयुनक्ति यथा वृक्षं रोहन्नुत्तरामुत्तराᳪं᳭ शाखाᳪं᳭ समालम्भयᳪं᳭ रोहेत्तादृक्तत्' (९।३।३ । ६) इति । अत्रोक्ता संख्या संख्येयनिष्ठा । एते यज्ञेन कल्पन्ताम् ॥२५॥

षड्विंशी।
त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे पञ्चा॒विश्च॑ मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २६ ।।
उ० अथ वयांसि जुहोति । त्र्यविश्च म इति ॥२६॥२७॥
म० कण्डिकाद्वयं वयोहोमे विनियुक्तम् । तथाच श्रुतिः 'अथ वयाᳪं᳭ सि जुहोति त्र्यविश्च म इति पशवो वै वयाᳪं᳭ सि पशुभिरेवैनमेतदन्नेन प्रीणात्यथो पशुभिरेवैनमेतदन्नेनाभिषिञ्चति' (९।३ । ३ । ७) इति । अविः षण्मासात्मकः काल: त्रयोऽवयो यस्य स त्र्यविः सार्धसंवत्सरो वृषः तादृशी गौस्त्र्यवी । द्विसंवत्सरो वृषा दित्यवाट् तादृशी गौर्दित्यौही। पञ्चावयो यस्य स पञ्चाविः सार्धद्विसंवत्सरो वृषः तादृशी गौः पञ्चावी। वत्सो वत्सरः त्रयो वत्सा यस्य स त्रिवत्सः त्रिवर्षो वृषः तादृशी गौस्त्रिवत्सा । तुर्यं वर्षं वहतीति तुर्यवाट् सार्धत्रिवर्षो वृषः तादृशी गौस्तुर्यौही । एते यज्ञेन कल्पन्ताम् ॥ २६ ॥

सप्तविंशी।
प॒ष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे वे॒हच्च॑ मेऽन॒ड्वाँश्च॑ मे धे॒नुश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २७ ।।
म० पष्ठं वर्षचतुष्कं वहतीति पष्ठवाट् चतुर्वर्षो वृषः तादृशी गौः पष्ठौही । उक्षा सेचनक्षमो वृषः । वशा वन्ध्या गौः । अतियुवा वृष ऋषभः । वेहद्गर्भघातिनी गौः । अनः शकटं वहतीत्यनड्वान् शकटवहनक्षमो वृषः । वहेः क्विपि | संप्रसारणमनसो डकारः 'चतुरनडुहोरामुदात्तः' (पा. ७ । | १।९०) इति आमागमः । धेनुर्नवप्रसूता गौः । एते मम यज्ञेन निमित्तेन कल्पन्तां स्वस्वव्यापारसमर्था भवन्तु । यद्वा एते यज्ञेन मम कल्पन्तां मह्यमुपभोगक्षमा भवन्त्वित्यर्थः । एवं पूर्वत्र ॥ २७ ॥

अष्टाविंशी।
वाजा॑य॒ स्वाहा॑ प्रस॒वाय॒ स्वाहा॑ऽपि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ऽह॒र्पत॑ये॒ स्वाहाऽह्ने॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनᳪशि॒नाय॒ स्वाहा॑ विन॒ᳪशिन॑ आन्त्याय॒नाय॒ स्वाहाऽऽन्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाऽधि॑पतये॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ ।
इ॒यं ते॒ राण्मि॒त्राय॑ य॒न्ताऽसि॒ यम॑न ऊ॒र्जे त्वा॒ वृष्ट्यै॑ त्वा प्र॒जानां॒ त्वाऽऽधि॑पत्याय ।। २८ ।।
उ० अथ नामग्राहं जुहोति । वाजाय स्वाहा इति ॥२४॥ ।
म० अथ नामग्राहहोमः । तथाच श्रुतिः 'अथ नामग्राहं जुहोति वाजाय स्वाहेत्येतद्वै देवाः सर्वान्कामानाप्त्वाथैतमेव प्रत्यक्षमप्रीणंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वाथैतमेव प्रत्यक्षं प्रीणाति' (९।३।३।८) इति । वाजोऽन्नं तस्मै स्वाहेति होममन्त्रः । वाजादीनि चैत्रादिमासानां नामानि तन्नाम गृहीत्वा होतव्यमित्यर्थः । अन्नप्राचुर्याच्चैत्रोऽन्नरूपः। प्रसवायानुज्ञारूपाय जलक्रीडादौ अभ्यनुज्ञादानात्प्रसवो वैशाखः । अपिजाय अप्सु जायत इत्यपिजः सप्तम्या अलुक् । जलक्रीडारतत्वादपिजो ज्यैष्ठः । क्रतवे यागरूपाय चातुर्मास्यादियागप्राचुर्यात्क्रतुराषाढः । वसवे वासयति वसुः चातुर्मास्ये यात्रानिषेधाद्वसुः श्रावणः । अहर्पतये दिनस्वामिने सूर्यरूपाय तापकरत्वाद्भाद्रपदस्याहर्पतिवम् । मुग्धायाह्ने तुषारादिना मोहरूपाय दिवसाय तुषारबाहुल्यान्मुग्धमह आश्विनः । अमुग्धाय वैनशिनाय विनश्यतीति विनंशी 'मस्जिनशोर्झलि' (पा. ७।१।६०) इति बाहुलकादझल्यपि नशेर्नुमागमः । विनंश्येव वैनंशिनः स्वार्थे अण् । अल्पघटिकावत्त्वेन विनाशशीलाय कार्तिकाय स्नाननियमादिना पापनाशकत्वादमुग्धाय मोहनिवर्तकाय कार्तिकाय । अविंशिने आन्त्यायनाय न विनश्यतीत्यविनंशी तस्मै विनाशरहिताय । अन्ते सर्वेषां नाशे भवमन्त्यं तदयनं चेत्यन्त्यायनं सत्र भव आन्त्यायनस्तस्मै सर्वनाशेऽप्यवशिष्टाय । अतएवाविनंशिने विष्णुरूपाय मार्गशीर्षाय । 'मासानां मार्गशीर्षोऽहं' (गीता० १० । ३५) इति स्मृतेः आन्त्याय भौवनाय । भुवनानामयं भौवनः अन्ते स्वरूपे