पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अधिपतिशब्देन निग्राह्यो विवक्षितः तस्य ज्येष्ठत्वादाधिपत्यम् 'ज्येष्ठो वा एष ग्रहाणाम्' इति श्रुतेः । प्रतिप्रस्थानशब्देन निग्राह्यो विवक्षितः द्विदेवत्यैः सह पाठात् । अन्ये प्रसिद्धाः ॥ १९ ॥

विंशी।
आ॒ग्र॒य॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऐन्द्रा॒ग्नश्च॑ मे म॒हावै॑श्वदेश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २० ।।
उ० सुगमं व्याख्यानम् ॥ २० ॥ २१ ॥
म० आद्यो वैश्वदेवः प्रातःसवनगतः । महावैश्वदेवस्तु तृतीयसवनगतः । ध्रुवाख्यस्यैव ग्रहस्य श्रवणदशायां वैश्वानरसूक्तपाठात्तद्दशापन्नो ध्रुवो वैश्वानरशब्देनोच्यते । मरुत्वतीया इति बहुवचनं त्रित्वात् मरुत्वतीयो महामरुत्वतीयः कुण्ठमरुत्वतीयश्चेति । अभिषेचनीये सारस्वतीनामपां ग्रहणमेव सारस्वतो ग्रहः सारस्वतं ग्रहं गृह्णातीति तत्राम्नानात् ॥ २० ॥

एकविंशी।
स्रुच॑श्च मे चम॒साश्च॑ मे वाय॒व्या॒नि च मे द्रोणकल॒शश्च॑ मे॒ ग्रावा॑णश्च मेऽधि॒षव॑णे च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च मे॒ वेदि॑श्च मे ब॒र्हिश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २१ ।।
म०. स्रुचो जुह्वादयः । चमसानि ग्रहपात्राणि । वायव्यानि पात्रविशेषाः । अधिषवणे काष्ठफलके । पूतभृदाधवनीयौ सोमपात्रविशेषौ । स्वगाकारः शम्युवाकः तेन यथास्वं देवतानां हविरङ्गीकारात् । प्रसिद्धमन्यत् । एते मम यज्ञेन निमित्तेन कल्पन्ताम् ॥ २१ ॥

द्वाविंशी।
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ऽङ्गुल॑य॒: शक्व॑रयो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। २२ ।।
म०. कण्डिकाद्वयेन यज्ञक्रतुहोमः । 'अथैतान् यज्ञक्रतून जुहोत्यग्निश्च म इति' ( ९ । ३ । ३ । १) इति श्रुतेः । अग्निः चीयमानो वह्निरग्निष्टोमो वा । घर्मः प्रवर्ग्यः । 'इन्द्रायार्कवते पुरोडाशम्' इति विहितो यागोऽर्कः । 'सौर्यं चरुम्' इति विहितः सूर्यः । प्राणो गवामयनम् । अश्वमेधः प्रसिद्धः। पृथिव्यदितिदिवो देवताविशेषाः । अङ्गुलयः विराट्पुरुषावयवाः शक्वरयः शक्तयः दिशः प्राच्याद्याः । एते यज्ञेन | कल्पन्ताम् ॥ २२ ॥

त्रयोविंशी।
व्र॒तं च॑ म ऋ॒तव॑श्च मे॒ तप॑श्च मे संवत्स॒रश्च॑ मेऽहोरा॒त्रे ऊ॑र्वष्ठी॒वे बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २३ ।।
म० व्रतं नियमः । ऋतवो वसन्तादयः । तपः कृच्छ्रचान्द्रायणादि । संवत्सरः प्रभवादि । अहश्च रात्रिश्चाहोरात्रे दिननिशे । ऊरू चाष्ठीवन्तौ जानुनी च ऊर्वष्ठीवे अवयवविशेषौ 'अचतुर-'(पा० ५। ४ । ७७ ) इति निपातः । बृहद्रथन्तरे एतन्नामके सामनी । एतानि कल्पन्ताम् ॥ २३ ॥

चतुर्विंशी।
एका॑ च मे ति॒स्रश्च॑ मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे॒ पञ्च॑ च मे स॒प्त च॑ मे स॒प्त च॑ मे॒ नव॑ च मे॒ नव॑ च म॒ एका॑दश च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे स॒प्तद॑श च मे॒ नव॑दश च मे॒ नव॑दश च म॒ एक॑विᳪशतिश्च म॒ एक॑विᳪशतिश्च मे॒ त्रयो॑विᳪशतिश्च मे॒ त्रयो॑विᳪशतिश्च मे॒ पञ्च॑विᳪशतिश्च मे॒ पञ्च॑विᳪशतिश्च मे स॒प्तवि॑ᳪशतिश्च मे स॒प्तवि॑ᳪशतिश्च मे॒ नव॑विᳪशतिश्च मे॒ नव॑विᳪशतिश्च म॒ एक॑त्रिᳪशच्च म॒ एक॑त्रिᳪशच्च मे॒ त्रय॑स्त्रिᳪशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। २४ ।।
उ० अथैतान् । यज्ञक्रतून् जुहोति । एका च मे तिस्रश्च म इति ॥ २४ ॥
म० अयुग्मस्तोमहोमार्था मन्त्राः । 'अथायुजस्तोमान् जुहोति' (९ । ३ । २) इति श्रुतेः । एकामादाय द्वितीयां विहाय तृतीयामादाय चतुर्थं विहाय परित्यक्तसमसंख्याकेनात्तविषमसंख्याकेन मन्त्रेणायुग्मान्स्तोमाञ्जहुयादित्यर्थः । आदरातिशयद्योतनार्था सर्वत्र पुनरुक्तिः । अयुग्मस्तोमहोमैः सर्वकामावाप्तिः । तथाच श्रुतिः 'एतद्वै देवाः सर्वान् कामानाप्त्वायुग्भिः स्तोमैः स्वर्गं लोकमायंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वायुग्भिः स्तोमैः स्वर्गं लोकमेति' ( ९ । ३ । ३ । २) इत्यादि ॥ २४ ॥

पञ्चविंशी।
चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ द्वाद॑श च मे॒ षोड॑श च मे॒ षोड॑श च मे विᳪश॒तिश्च॑ मे विᳪशतिश्च॑ मे॒ चतु॑र्विᳪशतिश्च मे॒ चतु॑र्विᳪश॒तिश्च॑ मे॒ऽष्टावि॑ᳪशतिश्च मे॒ऽष्टावि॑ᳪशतिश्च मे॒ द्वात्रि॑ᳪशच्च मे॒ द्वात्रि॑ᳪशच्च मे॒ षट्त्रि॑ᳪशच्च मे॒ षट्त्रि॑ᳪशच्च मे चत्वारि॒ᳪशच्च॑ मे चत्वारि॒ᳪशच्च॑ मे॒ चतु॑श्चत्वारिᳪशच्च मे॒ चतु॑श्चत्वारिᳪशच्च मे॒ऽष्टाच॑त्वारिᳪशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। २५ ।।