पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयोदशी।
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ सीसं॑ च मे॒ त्रपु॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १३ ।।
म० अश्मा पाषाणः । मृत्तिका प्रशस्ता मृत् 'मृदस्तिकन्' । गिरया क्षुद्रपर्वताः गोवर्धनार्बुदरैवतिकादयः । पर्वताः महान्तो मन्दरहिमाचलादयः। सिकताः शर्कराः। वनस्पतयः पुष्पं विना फलवन्तः पनसोदुम्बरादयः । हिरण्यं सुवर्णं रजतं वा 'द्रविणाकुप्ययोश्च' इत्यभिधानात् । अयो लोहम् । श्यामं ताम्रलोहं कांस्यं रजतं कनकं वा । 'लोहं कालायसे सर्वतैजसे जोङ्गकेऽपि च' इत्यभिधानात् । सीसं प्रसिद्धम् । त्रपु रङ्गम् । एते कार्यविशेषेषु मे कल्पन्ताम् ॥ १३ ॥

चतुर्दशी।
अ॒ग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्याश्च॑ मेऽकृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ मे वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १४ ।।
उ० सुगमं व्याख्यानम् ॥ १४ ॥ १५॥
म० अग्निः पृथिवीस्थो वह्निः । आपोन्तरिक्षस्थानि जलानि । वीरुधः गुल्माः । ओषधयः फलपाकान्ताः । कृष्टपच्याः कृष्टे पच्यन्त इति कृष्टपच्याः 'राजसूयसूर्य-' (पा. ३।१।११४ ) इत्यादिना क्यबन्तो निपातः । भूमिकर्षणबीजवापादिकर्मनिष्पाद्या ओषधयः । तद्विपरीता अकृष्टपच्याः स्वयमेवोत्पद्यमाना नीवारगवेधुकादयः । ग्राम्या ग्रामे भवाः पशवः गोऽश्वमहिषाजाविगर्दभोष्ट्रादयः । आरण्याः अरण्ये भवाः पशवः हस्तिसिंहशरभमृगगवयमर्कटादयः । वित्तं पूर्वलब्धम् । वित्तिः भाविलाभः । भूतं जातपुत्रादिकम् । भूतिरैश्वर्यं स्वार्जितम् । एतानि यज्ञेन मम संपद्यन्ताम् १४ ॥

पञ्चदशी।
वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मे ऽर्थ॑श्च म॒ एम॑श्च म इ॒त्या च॑ मे॒ गति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १५ ।।
म०. वसु धनं गवादिकम् । वसतिर्वासस्थानं गृहम् । कर्माग्निहोत्रादि । शक्तिस्तदनुष्ठानसामर्थ्यम् । अर्थोऽभिलषितः पदार्थः । एमः ईयत इत्येमः एतेर्मप्रत्ययः प्राप्तव्योऽर्थः । इत्या भावे क्यप् । अयनमिष्टप्राप्त्युपायः । गतिरिष्टप्राप्तिः । एते कल्पन्ताम् ॥ १५ ॥

षोडशी।
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १६ ।।
उ० अथार्धेन्द्राणि जुहोति । अर्धे इन्द्रः अर्धे अन्ये देवाः । अग्निश्च म इन्द्रश्च म इति ॥ १६ ॥ १७ ॥
म० 'अथार्धेन्द्राणि जुहोति' (९।३।२।९) अर्धस्येन्द्रदेवत्यत्वादर्धस्य नानादेवत्यत्वात् । अग्निसोमसवितृसरस्वतीपूषबृहस्पतयः प्रसिद्धाः । तैः समानभागत्वादिन्द्र एकैकया सह पठ्यते । यास्कोक्ता इन्द्रशब्दस्य नानार्थाः कार्याः । एवमग्रेऽपि कण्डिकाद्वये । एते कल्पन्ताम् ॥ १६ ॥

सप्तदशी।
मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १७ ।।
म० मित्रवरुणधातृत्वष्टृमरुद्विश्वेदेवाः प्रसिद्धाः । प्रत्येकमिन्द्रः । एते कल्पन्ताम् ॥ १७ ॥

अष्टादशी।
पृ॒थि॒वी च॑ म॒ इन्द्र॑श्च॒ मेऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ समा॑श्च म॒ इन्द्र॑श्च मे॒ नक्ष॑त्राणि च म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १८ ।।
उ० अथ ग्रहान् जुहोति । अᳪं᳭ शुश्च म इति ॥१८॥१९॥
म० पृथिव्यन्तरिक्षादिवस्त्रैलोक्यम् । समा वर्षाधिष्ठात्र्यो देवताः । नक्षत्राणि अश्विन्यादीनि । दिशः प्रागाद्याः । एते कल्पन्ताम् ॥ १८ ॥

एकोनविंशी।
अ॒ᳪशुश्च॑ मे र॒श्मिश्च॒ मेऽदा॑भ्यश्च॒ मेऽधि॑पतिश्च म उपा॒ᳪशुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। १९ ।।
म० 'अथ ग्रहान् जुहोति' ( ९ । ३ । २ । १० ) कण्डिकात्रये ग्रहहोममन्त्राः । अश्वादयः सोमग्रहविशेषाः सोमप्रकरणे प्रसिद्धाः । अदाभ्यस्यैव गृह्यमाणत्वदशायां पृथक्कृत्य ग्रहणे रश्मिशब्देन निर्देशः । रश्मीनां तदग्रहणे साधनत्वात् | 'अह्नो रूपे सूर्यस्य रश्मिषु' ( ८ । ४८) इति मन्त्रलिङ्गात् ।