पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जुह्वा ध्रुवां समनक्ति संज्योतिषा' (का० ३।२।२) इति । संगच्छतामित्यध्याहारः । ज्योतिषा ध्रुवास्थिताज्यरूपज्योतिषा सह ज्योतिर्जुह्वासिच्यमानरूपं ज्योतिः संगच्छताम् ॥ ९॥

दशमी।
मयी॒दमिन्द्र॑ इन्द्रि॒यं द॑धात्व॒स्मान् रायो॑ म॒घवा॑नः सचन्ताम् । अ॒स्माक॑ᳪ सन्त्वा॒शिष॑: स॒त्या न॑: सन्त्वा॒शिष॒ उप॑हूता पृथि॒वी मा॒तोप॒ मां पृ॑थि॒वी मा॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त्स्वाहा॑ ।। १० ।।
उ० यजमानो जपति मयीदमिन्द्रः । मयि इदम् इन्द्रः इन्द्रियं वीर्यम् । आधातु स्थापयतु । किंच अस्मान् रायः धनानि मघवानः मघं धनं विद्यते येषां ते मघवानः धनिनः। सचन्तां सेवन्ताम् । 'षच सेवने । एतदुक्तं भवति । धनानि धनिनश्चास्मान् सेवन्ताम् । किंच अस्माकं सन्त्वाशिषः सत्या अवितथाः नः अस्माकं भवन्तु आशिषः । अग्नीन् प्राश्नाति । उपहूता अभ्यनुज्ञाता पृथिवी माता जगतो निर्मात्री । उप मां पृथिवी ह्वयताम् । अभ्यनुजानातु मां पृथिवी माता भक्षणाय । अहं तु अग्निः सन् भक्षयामि ॥ १० ॥
म० 'आशासने मयीदमिति यजमानो जपति' (का० ३॥४॥ २१) इति । प्रधानयागानन्तरं पुरोडाशशेषप्राशनसमये होतरि आशिषं प्रयुञ्जाने सति यजमानो जपति । इन्द्रः परमेश्वर इदमिन्द्रियं मयि दधातु । इदम् अस्मदपेक्षितम् इन्द्रियं वीर्य मयि यजमाने स्थापयतु । किंच रायो धनानि दैवमानुषभेदेन द्विविधानि मघवानः धनवन्तश्चास्मान्यजमानान् सचन्तां सेवन्ताम् । 'षच सेवने । किंच अस्माकं यजमानानामाशिषोऽभीष्टार्थस्याशंसनानि सन्तु विद्यन्ताम् । किंच नोऽस्माकमाशिषः पूर्वोक्ताः सत्या अवितथाः सन्तु । मघमिति धननाम तद्विद्यते येषां ते मघवानः । अस्त्यर्थे वन्प्रत्ययः (पा० ५। २ । १०९)। “एकैकमाहरति द्यावापृथिव्योरुपह्वानेऽग्नीधे षडवत्तम् । प्राश्नात्युपहूता पृथिवीति' (का० ३।४।१८-२०) यदा होता द्यावापृथिव्योरुपह्वानं करोति तदोभयोः पुरोडाशयोरेकैकमंशं षडवत्ते षडवत्ते कृत्वाग्नीधे ददाति स चोपहूतेति मन्त्रेण तत्प्राश्नातीति सूत्रार्थः । उपहूता येयं पृथिवी दृश्यते सा जगतो माता निर्मात्री मयोपहूता अभ्यनुज्ञाता । सा च पृथिवी माता मातृत्वेनास्माभिर्भाविता सती मामुपह्वयतामनुजानातु हविःशेषभक्षणायाज्ञां ददातु । अहं चाग्नीध्रात् । अग्नीध इदं कर्माग्नीध्रं तस्माद्धेतोरग्निः सन् तं भागं प्राश्नामीति शेषः । स्वाहा सुहुतमस्तु जाठरेऽग्नौ ॥ १०॥

एकादशी।
उप॑हूतो॒ द्यौष्पि॒तोप॒ मां द्यौ॑ष्पि॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त्स्वाहा॑ । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । प्रति॑गृह्णाम्य॒ग्नेष्ट्वा॒स्ये॒न॒ प्राश्ना॑मि ।।११ ।।
उ० अग्नीत् द्वितीयं प्राश्नाति । उपहूतो द्यौः पिता अभ्यनुज्ञातो द्यौः पिता पाता। उप मां द्यौः पिता ह्वयताम् उपहूयताम् । अभ्यनुजानातु मां द्यौः पिता पाता । अहं तु अग्निः आग्नीध्रादिति समानम् । इत उत्तरं ब्रह्मत्वं प्रतिष्ठान्तं बृहस्पतिराङ्गिरसोऽपश्यत् । प्राशित्रं गृह्णाति देवस्य त्वेति व्याख्यातम् । प्रतिगृह्णामीत्युत्तमः पुरुषः । प्राश्नाति । अग्नेस्त्वास्येन । अग्नेः संबन्धिना आस्येन मुखेन त्वां प्राशित्रं प्राश्नामि भक्षयामि ॥ ११ ॥
म० द्वितीयं प्राश्नाति । एवं द्यौः पिता जगत्पालक उपह्वयतामित्यादि समानार्थम् । देवस्य त्वा । इतःप्रभृति 'ओंप्रतिष्ठ' (ख० १३) इत्यन्तं ब्रह्मत्वम् । तस्याङ्गिरसो बृहस्पतिर्ऋषिः । 'देवस्य त्वेति प्रतिगृह्णाति' (का० २।२।१६) इति । ब्रह्मा देवस्य त्वेति प्राशित्रं गृह्णाति । मन्त्रो व्याख्यातः । प्रतिगृह्णामि स्वीकरोमीति शेषः । 'अग्नेष्ट्वेति प्राश्नाति दन्तैरनुपस्पृशन्' (का० २।२।१८) इति । हे प्राशित्र अग्नेः आस्य, ते वह्निदेवताया मुखेन त्वा त्वां प्राश्नामि भक्षयामि ॥ ११॥

द्वादशी।
ए॒तं ते॑ देव सवितर्य॒ज्ञं प्राहु॒र्बृह॒स्पत॑ये ब्र॒ह्मणे॑ । तेन॑ य॒ज्ञम॑व॒ तेन॑ य॒ज्ञप॑तिं॒ तेन॒ माम॑व ।। १२ ।।
उ० समिदामन्त्रितः प्रसौति । एतं ते देव । अध्वर्युराह ब्रह्मन् प्रस्थास्यामीति । एतं यज्ञं ते तव हे देव दानादिगुणयुक्त सवितः प्रसवितः,प्राहुः। एकवचनस्य स्थाने बहुवचनम् । प्राह ब्रवीति । 'तत्सवितारं प्रसवायोपधावति' इति श्रुतिः। किंच बृहस्पतये ब्रह्मणे प्राह बृहस्पतिर्वै देवानां ब्रह्मा तदधिष्ठित एवायं मानुषो ब्रह्मत्वं करोति तेन यज्ञमव । तेन हेतुना यज्ञम् अव पालय । तेन च यज्ञपतिं यजमानं च पालय । तेन च माम् अव पालय ॥ १२॥
म० 'एतं त इति समिदामन्त्रितः प्रसौति' (का० २। २।२१) इति समिधमाधातुमनुज्ञाप्रदानाय बोधितो ब्रह्मा मन्त्रेणानुजानीयात् । एतं त इत्यादिः ओंप्रतिष्ठेत्यन्तो मन्त्रः । हे देव दानादिगुणयुक्त, हे सवितः प्रसवितः, एतं यज्ञमिदानीं क्रियमाणमिमं मखं ते तुभ्यं त्वदर्थं प्राहुर्यजमानाः कथयन्ति । अनुज्ञापयन्तीत्यर्थः । किंच त्वया प्रेरितो देवानां